Enter your Email Address to subscribe to our newsletters

वाराणसी, 20 जूनमासः (हि. स.)।
जनपदे सुसुवाहीस्थे विवेकानन्दनगरकालोनीक्षेत्रे शनिवासरे राज्यमन्त्री हंसराजविश्वकर्मा त्वरितार्थिकविकासयोजना वर्ष २०२५ २६ अन्तर्गतं स्वीकृतस्य मार्गनिर्माणकार्यस्य शिलान्यासं कृतवान्। रोहनियाविधानसभाक्षेत्रान्तर्गते कर्दमेश्वरमण्डलस्य विवेकानन्दकालोन्यां शिलान्यासावसरे बहुसंख्यकाः स्थानीयजनाः उपस्थिताः आसन्।
राज्यमन्त्री हंसराजविश्वकर्मा उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदी तथा मुख्यमन्त्री योगीआदित्यनाथयोः मार्गदर्शनेन अस्याः योजनायाः अन्तर्गतं विवेकानन्दनगरकालोन्यां प्रायः ५.३१ लक्षरूप्यकव्ययेन १०१.७ मीटरपरिमितस्य मार्गस्य निर्माणं कारयिष्यते। अनेन क्षेत्रवासिनः उत्तमां यातायातसुविधां प्राप्स्यन्ति तथा च क्षेत्रस्य विकासाय नूतना गतिः प्राप्स्यते।
राज्यमन्त्री हंसराजः पुनरपि उक्तवान् यत् वाराणस्याः सर्वेषु भागेषु विकासकार्यं प्रवर्तते। प्रधानमन्त्रीणः संसदीयक्षेत्रे विकासकार्येषु कापि बाधा नास्ति। अत्रत्यजनानां मागण्यानुसारं विकासकार्याणि द्रुतगत्या सम्पाद्यन्ते। शिलान्यासस्य अनन्तरं अल्पकाल एव लोकार्पणमपि क्रियते।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani