मुख्यमन्त्री योगी आदित्यनाथेन मातुः बगलामुख्याः दर्शनं पूजनं च कृतम्
दतिया–ललितपुरम्, २० जूनमास: (हि.स.)। बुन्देलखण्डस्य विकास-परियोजनानां शुभारम्भार्थम् आगतः उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे मध्यप्रदेशस्य दतियानगरे स्थिते पीताम्बरा-पीठे मातुः बगलामुख्याः दर्शनं विधिवत् पूजनं च अकरोत्। दतिया-विमा
मुख्यमंत्री योगी के स्वागत में एमपी के पूर्व गृहमंत्री


दतिया–ललितपुरम्, २० जूनमास: (हि.स.)। बुन्देलखण्डस्य विकास-परियोजनानां शुभारम्भार्थम् आगतः उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे मध्यप्रदेशस्य दतियानगरे स्थिते पीताम्बरा-पीठे मातुः बगलामुख्याः दर्शनं विधिवत् पूजनं च अकरोत्। दतिया-विमानपत्तने मध्यप्रदेशस्य पूर्वगृहमन्त्री नरोत्तममिश्रः मुख्यमन्त्रिणः स्वागतम् अकरोत्। ततः सः पीताम्बरा-पीठम् अगच्छत्।

पीताम्बरा-पीठे मुख्यमन्त्री मातुः बगलामुख्याः दर्शनं कृत्वा वैदिकविधिना पूजाम् अर्चनां च अकरोत्। अनन्तरं परिसरस्थे वनखण्डेश्वर-महादेव-मन्दिरे मन्त्रोच्चारणेन सह जलाभिषेकमपि अकरोत्।

ततः मुख्यमन्त्री लोकार्पण-शिलान्यास-कार्यक्रमे सहभागितार्थम् उत्तरप्रदेशस्य ललितपुरम् अगच्छत्। ललितपुरे उपविश्य तुवन-मन्दिरे अपि दर्शनं पूजनं च अकरोत्। अस्मिन् अवसरे मन्दिरस्य पुजारी, महन्तः तथा अन्ये उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan