Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, २० जूनमास: (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरे वाराणस्यां श्रीकुमार-षष्ठ्याः पावनावसरे शनिवासरे काशीविश्वनाथधामस्थितस्य भगवत: कार्तिकेयस्य विग्रहस्य वैदिकरीत्या शास्त्रोक्तविधिना च विशेष-पूजनार्चनं सम्पन्नम्। अस्मिन् अवसरे काशीविश्वनाथमन्दिरस्य आचार्यैः शास्त्रिभिश्च मन्त्रौच्चारणपूर्वकं भगवत: कार्तिकेयस्य पूजनम्, अर्चनम् तथा विशेषानुष्ठानं श्रद्धाभक्तिपूर्वकं सम्पन्नम्।
मन्दिरन्यासस्य अनुसारेण पूजनसमये भगवत: कार्तिकेयस्य श्रीचरणयोः पुष्पाणि, फलानि, नैवेद्यं च समर्प्य समस्तजनकल्याणाय, सुखसमृद्धये तथा राष्ट्रस्य उन्नत्यै मङ्गलकामना कृता। न्यासेन उक्तं यत् स्कन्द-षष्ठी भगवत: शिवस्य मातु: पार्वत्याश्च ज्येष्ठपुत्रस्य भगवत: कार्तिकेयस्य आराधनायाः विशेषः अवसरः मन्यते। अस्मिन् दिने तस्य पूजनात् साहसं, तेजः, विजयः तथा आध्यात्मिकोन्नतिः प्राप्यते। पूजनार्चनानन्तरं मन्दिरपरिसरे उपस्थिताः श्रद्धालवोऽपि भगवत: कार्तिकेयस्य कृपाम् आशीर्वादं च प्राप्तुं श्रद्धापूर्वकं पूजनम् अकरोत्।
उल्लेखनीयम् अस्ति यत् हिन्दुधर्मे स्कन्द-षष्ठ्याः विशेषं महत्त्वम् अस्ति। एषा प्रतिमासं शुक्लपक्षस्य षष्ठीतिथौ आचर्यते। अयं दिवसः भगवते कार्तिकेयाय समर्पितः अस्ति, यः भगवत: शिवस्य मातु: पार्वत्याश्च पुत्रत्वेन पूज्यते।
धार्मिकमान्यतानुसारं स्कन्द-षष्ठी-व्रतं विशेषतः तेषां दम्पत्योः फलदायकं मन्यते ये सन्तानसुखस्य कामनां कुर्वन्ति। एतद्व्रतं जीवनस्य विघ्नानां निवारणे, आत्मविश्वासस्य वर्धने तथा शत्रुषु विजयप्राप्तौ अपि सहायकं मन्यते। भगवान् कार्तिकेयः स्कन्दः, मुरुगनः तथा कुमारस्वामी इत्येतेषु नामसु अपि प्रसिद्धः अस्ति। तस्य उपासनया मनुष्यस्य जीवने साहसस्य, आत्मविश्वासस्य तथा सकारात्मक-ऊर्जायाः सञ्चारः भवति।
Hindusthan Samachar / Divya Ranjan