Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, 20 जूनमासः (हि.स.)। विश्व-रक्तदाता-दिवसस्यउपलक्ष्ये स्वैच्छिक-रक्तदानस्य प्रोत्साहनाय तथा रक्तदानविषये जनजागरूकताविस्ताराय मण्डलीय-जिला-चिकित्सालये स्वैच्छिक-रक्तदानं कृतवन्तः यून: तथा संस्थाः सम्मानिताः।
सम्मानितेषु हिन्दू-युवा-वाहिनी-संस्थायाः अंबरीश-सिंह-भोला, रूबी-सिंह: (अघोराचार्य-बाबा-कीनाराम-आश्रमः), विनोद-यादव: (श्रद्धा-एक-प्रयास सप्तसागर-दवा-मण्डी), नीरज-पारिख: (काशी-रक्तदान-नेत्रदान-कुटुम्बम्, वाराणसी), सोनू-सिंह: (स्टेट-बैंक-ऑफ-इण्डिया, कचहरी, वाराणसी), रोशन-गुजराती, सतनाम-सिंह:, ऐश्वर्य-मुद्र:, परी-शिखा तथा शिवानी-सेठ: इत्यादयः आसन्।
मण्डलीय-शिव-प्रसाद-गुप्त-चिकित्सालयस्य प्रमुख-अधीक्षकः डॉ.बृजेश-कुमारः शनिवासरे अस्मिन् विषये सूचनां प्रदत्तवान्। तेन उक्तं यत् रक्तदातृभ्यः स्वकार्यालये सम्मानेन सह अंगवस्त्रं, स्मृतिचिह्नं तथा प्रमाणपत्रं अपि प्रदत्तम्। सः अवदत् यत् रक्तदानं महादानम् अस्ति, यस्मात् अनेकानां जनानां जीवनं रक्षितुं शक्यते। समाजस्य अधिकाधिकजनाः नियमित-स्वैच्छिक-रक्तदानाय अग्रे आगच्छेयुः।
अस्मिन् कार्यक्रमे डॉ.एस.पी.सिंहः, डॉ.मुकुन्द-जी-श्रीवास्तवः, डॉ.मृदुला-मानिकः, डॉ.अभिषेक-रायः, डॉ.सतेन्द्र-रायः तथा रक्तकेन्द्रस्य अधिकारिणः अपि सहभागं कृतवन्तः।
Hindusthan Samachar / Divya Ranjan