Enter your Email Address to subscribe to our newsletters

वाराणसी,20 जूनमासः (हि.स.)। अन्ताराष्ट्रिययोगदिवसस्य द्वादशसंस्करणं व्यापकस्वरूपेण आयोजयितुं भारतीयजनतापक्षस्य काशीक्षेत्रेण सर्वाः सिद्धताः सम्पन्नाः कृताः। जूनमासस्य २१ दिनाङ्के अस्मिन् अवसरे पक्षस्य काशीक्षेत्रस्य सर्वेषु सङ्गठनात्मकसंरचनासु योगाभ्यासकार्यक्रमाः आयोज्यन्ते, येषु सांसदाः, मन्त्रिणः, विधायकाः, जनप्रतिनिधयः, पक्षपदाधिकारिणः, कार्यकर्तारः, प्रबुद्धजनाः तथा सामान्यनागरिकाः सहभागित्वं करिष्यन्ति। भारतीयजनतापक्षस्य उच्चनेतृत्वस्य निर्देशानुसारं योगदिवसे प्रत्येकमण्डलस्तरे योगशिविराणि आयोज्यन्ते।
भारतीयजनतापक्षस्य काशीक्षेत्राध्यक्षः दिलीप पटेल शनिवासरे अवदत् यत् योगः भारतीयसंस्कृतेः अमूल्या धरोहरः अस्ति, यस्य वैश्विकी मान्यता प्रधानमन्त्री नरेन्द्र मोदी इत्यस्य प्रयत्नैः प्राप्ता। अद्य सम्पूर्णः विश्वः योगं स्वस्थसन्तुलितजीवनस्य आधाररूपेण स्वीकरोति। भारतीयदर्शनस्य सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः इति सन्देशं योगेन विश्वव्यापीकरणस्य कार्यं कृतम्।
दिलीप पटेल अवदत् यत् २०१४ तमवर्षस्य सेप्टेम्बरमासस्य २७ दिनाङ्के संयुक्तराष्ट्रमहासभायां प्रधानमन्त्री नरेन्द्र मोदी योगदिवसस्य प्रस्तावं प्रस्तुतवान्। ततः अभिलेखीयसमये तस्य अनुमोदनं प्राप्तम् तथा तदनन्तरं प्रतिवर्षं जूनमासस्य २१ दिनाङ्के अन्तर्राष्ट्रीययोगदिवसः आचर्यते। योगः अद्य केवलं भारतस्य परिचयः नास्ति, अपितु वैश्विकस्वास्थ्यआन्दोलनस्य स्वरूपं प्राप्तवान् अस्ति।
तेन सूचितं यत् काशीक्षेत्रस्य षोडश सङ्गठनात्मकजनपदेषु, एकसप्तति विधानसभाक्षेत्रेषु तथा त्रिशतसप्तत्रिंशत् मण्डलेषु योगदिवसकार्यक्रमाः आयोज्यन्ते। सर्वेषु मण्डलेषु कार्यक्रमसंयोजकानां चयनं सम्पन्नं जातम् तथा सर्वाः सिद्धताः पूर्णाः सन्ति।-----------
Hindusthan Samachar / Dheeraj Maithani