Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, 20 जूनमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरस्य वाराणस्या: निवासी युवा-समाजसेवी तथा दिवि-वेलफेयर-फाउण्डेशन-इत्यस्य संस्थापकः वीरभद्रसिंहः अमेरिकादेशस्थितायाः इण्टरनेशनल-एकेडमी-ऑफ-बिजनेस इत्यस्याः प्रतिष्ठितायाः अनुसन्धान-अध्ययनवृत्त्याः कृते चयनितः अस्ति। एषा उपलब्धिः सामाजिकक्षेत्रे तस्य योगदानस्य अन्ताराष्ट्रिय-स्तरे प्राप्ता मान्यता इति मन्यते।
अस्याः अध्ययनवृत्तेः अन्तर्गतं वीरभद्रसिंहः भारते संयुक्तराज्य-अमेरिकादेशे च सामाजिक-समता, शिक्षा तथा महिला-सशक्तीकरण-नीतीनां तुलनात्मकम् अध्ययनम् इति विषये अनुसन्धानं करिष्यति। अस्मिन् अनुसन्धानकार्ये उभयदेशयोः नीतयः, योजनाः, तासां प्रभावाश्च समीक्ष्य समावेशी-विकासाय उपयोगिनः विचारा: प्रस्तुताः भविष्यन्ति।
एषा सूचना शनिवासरे दिवि-वेलफेयर-फाउण्डेशन इत्यनेन प्रदत्ता। संस्थया उक्तं यत् एतदनुसन्धानं सामाजिक-न्यायः, गुणवत्तापूर्ण-शिक्षा तथा महिला-सशक्तीकरणम् इत्यादिषु महत्त्वपूर्णेषु विषयेषु केन्द्रितं भविष्यति। भारतस्य अमेरिकादेशस्य च अनुभवयोः तुलनात्मकमध्ययनं भविष्यत्कालीन-नीतिनिर्माणाय हितकरं सिद्धुं शक्नोति।
वीरभद्रसिंहस्य कथनानुसारं तस्य संस्था पाठशाला, दिवि-पॉलिसी-फोरम्, प्रोजेक्ट्-उत्थानम् तथा प्रोजेक्ट्-शक्तिः इत्यादीनां माध्यमेन शिक्षा, महिला-सशक्तीकरणम्, युवा-नेतृत्व-विकासः तथा सामाजिकोत्थानस्य क्षेत्रेषु कार्यं करोति। संस्था राष्ट्रिय-अन्ताराष्ट्रिय-स्तरेषु सम्मेलनानां, अनुसन्धान-संवादानां तथा सामाजिक-नेतृत्व-कार्यक्रमाणां आयोजनमपि करोति।
सः अवदत् यत् अस्मात् पूर्वम् अमेरिकादेशस्य लिविङ्ग्स्टोन-महाविद्यालये तथा हॉवर्ड-विश्वविद्यालये आयोजितेषु अन्ताराष्ट्रिय-सम्मेलनेषु भारते मलिनबस्ती-शिक्षा इति विषये स्वीयं शोधपत्रं प्रस्तुतवान्। तस्य अस्याः उपलब्धेः निमित्तं शिक्षाविदः, समाजसेविनः तथा विविध-संस्थाः हर्षं प्रकट्य शुभकामनाः प्रदत्तवन्तः।
Hindusthan Samachar / Divya Ranjan