Enter your Email Address to subscribe to our newsletters



उज्जयिनीनगरम्, २० जूनमासः (हि.स.)। केन्द्रीय-नगरीयावास-ऊर्जा-मन्त्री मनोहरलाल-खट्टरः शुक्रवासरस्य रात्रौ उज्जयिनीप्रवासस्य अवसरे विश्वविख्याते ज्योतिर्लिङ्गे भगवतः महाकालेश्वरस्य मन्दिरे आयोजितायां शयनारार्तिक्यां सहभागी अभवत्। तेन बाबा महाकालस्य दर्शनं पूजनञ्च कृत्वा आशीर्वादं प्राप्तम्। अस्मिन् अवसरे मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहनयादवः अपि तेन सह उपस्थितः आसीत्।
श्रीमहाकालेश्वरमन्दिरस्य नन्दी-मण्डपे उपविश्य केन्द्रीयमन्त्री मनोहरलालः तथा मुख्यमन्त्री डॉ.यादवः भक्तिभावेन भगवतः महाकालस्य ध्यानं कृतवन्तौ। अस्मिन् अवसरे नगरीयप्रशासनमन्त्री कैलाश-विजयवर्गीयः, राज्यमन्त्री प्रतिमाबागरी, अन्ये जनप्रतिनिधयः वरिष्ठाधिकारिणश्च उपस्थिताः आसन्।
श्रीमहाकालेश्वरमन्दिरप्रबन्धसमित्याः पक्षतः मुख्यमन्त्री डॉ.मोहनयादवः केन्द्रीयमन्त्रिणे मनोहरलालाय महाकाल-मन्दिरस्य अनुकृतिं स्मृतिचिह्नरूपेण समर्पितवान्। अपरं जनपदाधीशः रोशनकुमारसिंहः मुख्यमन्त्रिणः डॉ.यादवस्य स्वागतं कृत्वा तस्मै स्मृतिचिह्नमपि प्रदत्तवान्।
Hindusthan Samachar / Divya Ranjan