विभिन्न योजनाओं के माध्यम से किसानों को मिल रहा सीधा लाभ : धामी
देहरादूनम्, 20 जूनमासः (हि.स.)। मुख्यमन्त्री पुष्कर सिंह धामी उक्तवान् यत् प्रधानमन्त्री नरेन्द्र मोदी महोदयेन सर्वदा कृषकाः स्वप्राथमिकतासु स्थापिताः। अद्य विविधयोजनानां माध्यमेन कृषकाः लाभान्विताः क्रियन्ते। प्रधानमन्त्री मोदी महोदयस्य नेतृत्वे क
कार्यक्रम में प्रतिभाग करते मुख्यमंत्री।


देहरादूनम्, 20 जूनमासः (हि.स.)। मुख्यमन्त्री पुष्कर सिंह धामी उक्तवान् यत् प्रधानमन्त्री नरेन्द्र मोदी महोदयेन सर्वदा कृषकाः स्वप्राथमिकतासु स्थापिताः। अद्य विविधयोजनानां माध्यमेन कृषकाः लाभान्विताः क्रियन्ते। प्रधानमन्त्री मोदी महोदयस्य नेतृत्वे केन्द्रसर्वकारेण कृषकाणां सम्मानः सुरक्षा समृद्धिश्च सर्वोच्चप्राथमिकतया स्वीकृता अस्ति।

प्रधानमन्त्री कृषकोत्सवदिवसस्य अवसरे शनिवासरे देहरादूननगरस्य गढीकैण्टक्षेत्रस्थिते हिमालयसांस्कृतिककेन्द्रे प्रधानमन्त्री किसान सम्मान निधि योजनायाः त्रयोविंशतितमकिस्तस्य विमोचनस्य उपलक्ष्ये कार्यक्रमः आयोजितः। कार्यक्रमे मुख्यमन्त्री पुष्कर सिंह धामी सहभागं कृत्वा प्रधानमन्त्री नरेन्द्र मोदी महोदयस्य सम्बोधनम् तथा पश्चिमबङ्गराज्यात् देशव्यापिनां कृषकाणां बैंकलेखेषु प्रत्यक्षलाभान्तरणप्रणाल्याः माध्यमेन प्रदत्तायाः किसान सम्मान निधेः किस्तस्य आभासीयप्रसारणम् अपश्यत्।

कार्यक्रमे राज्यसभासांसदः नरेश बंसल, मन्त्रिमण्डलमन्त्री गणेश जोशी, विधायकः सविता कपूर तथा प्रदेशस्य विविधभागेभ्यः आगताः बहुसंख्यकाः कृषकाः कृषिक्षेत्रसम्बद्धाः जनाः जनप्रतिनिधयश्च उपस्थिताः आसन्।

मुख्यमन्त्री प्रधानमन्त्री किसान सम्मान निधेः त्रयोविंशतितमकिस्तस्य विमोचनावसरे प्रदेशस्य सर्वेभ्यः कृषकेभ्यः शुभकामनाः प्रदत्तवान्। तेन उक्तं यत् एषः अवसरः कृषकाणां सम्मानस्य समृद्धेः सशक्तीकरणस्य च दिशि महत्त्वपूर्णं पदक्षेपम् अस्ति। मुख्यमन्त्री प्रधानमन्त्री मोदी महोदयस्य केन्द्रीयकृषिमन्त्रिणः शिवराज सिंह चौहान महोदयस्य च आभारं व्यक्तवान्। तेन उक्तं यत् पीएम किसान सम्मान निधि योजनायाः माध्यमेन देशव्यापिनां कोटिशः कृषकाणां कृते आर्थिकसाहाय्यं प्रत्यक्षतया पारदर्शिरूपेण तेषां बैंकलेखेषु प्रेष्यते।

तेन उक्तं यत् अद्य देशव्यापि प्रायः १० कोटिकृषकेभ्यः १८ सहस्र ८८० कोटिरूप्यकपरिमिता धनराशिः प्रत्यक्षलाभान्तरणप्रणाल्याः माध्यमेन स्थानान्तरिता। अस्य अन्तर्गतं प्रदेशस्य अपि ८ लक्षाधिककृषकाः १५९ कोटिरूप्यकेभ्यः अधिकां साहाय्यराशिं प्राप्तवन्तः।

मुख्यमन्त्री उक्तवान् यत् २०१९ तमे वर्षे अस्याः योजनायाः आरम्भसमये उत्तराखण्डराज्ये प्रायः ४ लक्षकृषकाः अस्याः लाभं प्राप्नुवन्ति स्म, ये अद्य वर्धित्वा ८ लक्षाधिकाः जाताः। एतत् कृषकाणां द्वियन्त्रसर्वकारे वर्धमानविश्वासस्य प्रतीकं वर्तते तथा च योजनानां लाभः अन्तिमजनपर्यन्तं प्राप्नोति इति दर्शयति।

तेन उक्तं यत् देशस्य सुरक्षा सीमासु नियुक्तैः सैनिकैः सुनिश्चितीक्रियते, तदेव खाद्यसुरक्षा कृषकाणां परिश्रमेण सुदृढा भवति। कृषकः केवलं सस्योत्पादनं न करोति, अपितु राष्ट्रस्य भविष्यनिर्माणस्य कार्यमपि करोति।

धामी महोदयः उक्तवान् यत् प्राकृतिककृषेः आधुनिककृषितन्त्रज्ञानस्य सिञ्चनसुविधानां विस्तारस्य च माध्यमेन कृषिं अधिकलाभकारीं कर्तुं प्रयासः क्रियते। उत्तराखण्डसर्वकारः अपि कृषकाणां सशक्तीकरणार्थं निरन्तरं कार्यं करोति। अस्यै दिशे राज्ये नहरमाध्यमेन सिञ्चनव्यवस्थां पूर्णतया निःशुल्कां कर्तुं निर्णयः कृतः। कृषकाणाम् आयवृद्ध्यर्थं अर्थसङ्कल्पे २०० कोटिरूप्यकाणां प्रावधानं कृतम् अस्ति। राज्ये प्रायः ११५ कोटिरूप्यकनिवेशेन ३५० अधिकानि आधुनिकपॉलीहाउसगृहाणि निर्मितानि सन्ति, येन कृषकाणां उत्पादनवृद्धौ आयवृद्धौ च सहायता प्राप्यते।

मुख्यमन्त्री धामी उक्तवान् यत् पर्वतीयक्षेत्रेषु कृषि बहुधा वर्षाजलस्य उपरि निर्भरति। अस्मिन् परिस्थितीनां परिप्रेक्ष्ये १००० कोटिरूप्यकव्ययेन उत्तराखण्ड क्लाइमेट रिस्पॉन्सिव रेन फेड फार्मिंग प्रोजेक्ट इति परियोजनायै अनुमोदनं प्रदत्तम् अस्ति, येन परिवर्तमानमौसमीपरिस्थितिषु अपि कृषिः सुरक्षितीक्रियितुं शक्यते।

-----------------

Hindusthan Samachar / Dheeraj Maithani