प्रधानमंत्री मोदी अथ गृह मंत्री शाहश्च अदत्तां बंगाल दिवसस्य शुभकामनाः
कोलकाता, 20 जूनमासः (हि.स.)। पश्चिमबङ्गदिवसस्य अवसरे प्रधानमन्त्री नरेन्द्र मोदी तथा गृहमन्त्री अमित शाह शुभकामनाः प्रदत्तवन्तौ। ताभ्यां पश्चिमबङ्गस्य जनानां सुखसमृद्ध्योः कामना कृता। प्रधानमन्त्री मोदी शनिवासरे प्रातः सामाजिकमाध्यममञ्चे एक्स
प्रधानमंत्री नरेंद्र मोदी और गृहमंत्री अमित शाह (फाइल फोटो)


कोलकाता, 20 जूनमासः (हि.स.)।

पश्चिमबङ्गदिवसस्य अवसरे प्रधानमन्त्री नरेन्द्र मोदी तथा गृहमन्त्री अमित शाह शुभकामनाः प्रदत्तवन्तौ। ताभ्यां पश्चिमबङ्गस्य जनानां सुखसमृद्ध्योः कामना कृता।

प्रधानमन्त्री मोदी शनिवासरे प्रातः सामाजिकमाध्यममञ्चे एक्स इत्यत्र उक्तवान्, पश्चिमबङ्गदिवसस्य अवसरे पश्चिमबङ्गस्य मम सर्वाभ्यः भगिनीभ्यः भ्रातृभ्यश्च हार्दिकाः शुभकामनाः। अयं दिवसः तस्य राज्यस्य उत्सवः अस्ति, यत् साहित्ये, सङ्गीते, कलासु, आध्यात्मिकक्षेत्रे, विज्ञाने, व्यापारवाणिज्ययोः, समाजसुधारे तथा अन्येषु विविधेषु क्षेत्रेषु स्वयोगदानेन भारतस्य इतिहासं निर्मितवान्। पुनः पुनः असंख्यरीत्या पश्चिमबङ्गेन भारतस्य राष्ट्रीयचेतना समृद्धा कृता।

प्रधानमन्त्री मोदी अग्रे उक्तवान्, पश्चिमबङ्गस्य इतिहासे जूनमासस्य विंशतितमः दिवसः अत्यन्तं महत्त्वपूर्णः अस्ति। अस्मिन्नेव दिने एतत् सुनिश्चितं जातम् यत् पश्चिमबङ्गः भारतस्य भागः एव भविष्यति। अस्य पृष्ठे डा. श्यामाप्रसाद मुखर्जी इत्यस्य अमूल्यं योगदानम् आसीत्। वर्षे २०२६ तमे वयं डा. मुखर्जी इत्यस्य पञ्चविंशत्यधिकशततमीं जयंतीम् अपि आचरामः। जनानां स्वप्नानां आकाङ्क्षाणां च पूर्त्यर्थं केन्द्रसर्वकारः पश्चिमबङ्गसर्वकारेण सह मिलित्वा कार्यं करिष्यति। अहं पश्चिमबङ्गस्य प्रगत्यै पश्चिमबङ्गस्य जनानां समृद्धये च प्रार्थनां करोमि।

एतदतिरिक्तं केन्द्रीयगृहमन्त्री अमित शाह अपि बङ्गप्रदेशस्य जनानां सुखशान्तिसमृद्धीनां कामनां कृतवान्। शनिवासरे प्रातः सामाजिकमाध्यममञ्चे एक्स इत्यत्र सः उक्तवान्, पश्चिमबङ्गदिवसस्य अवसरे सर्वेभ्यः राज्यवासिभ्यः हार्दिकाः शुभकामनाः अभिनन्दनानि च। समृद्धसंस्कृतेः, आध्यात्मिकतायाः, ज्ञानस्य विज्ञानस्य च भूमिरियं बङ्गभूमिः भक्त्यन्दोलनात्, स्वतन्त्रतासङ्ग्रामात्, पुनर्जागरणात् आरभ्य राष्ट्रनिर्माणस्य प्रत्येकस्मिन् चरणे असाधारणं योगदानं दत्तवती अस्ति। स्वामी विवेकानन्दः, बङ्किमचन्द्र चट्टोपाध्यायः, रवीन्द्रनाथ ठाकुरः, नेताजी सुभाषचन्द्र बोसः तथा डा. श्यामाप्रसाद मुखर्जी इत्यादीनां महामानवानां एषा पवित्रा भूमिः प्रधानमन्त्री नरेन्द्र मोदी इत्यस्य नेतृत्वे स्वस्य गौरवशालिनीं परम्परां वैभवं च पुनः प्रतिष्ठापयितुं अग्रे गच्छति। अहं मातुः दुर्गायाः समीपे प्रार्थनां करोमि यत् सा राज्यस्य सर्वेषां जनानां जीवनं सुखेन, शान्त्या, समृद्ध्या, कल्याणेन च परिपूर्णं करोतु।

---------------

Hindusthan Samachar / Dheeraj Maithani