Enter your Email Address to subscribe to our newsletters

कोलकाता, 20 जूनमासः (हि.स.)।पश्चिमबङ्गदिवसस्य अवसरे प्रधानमन्त्री नरेन्द्र मोदी शनिवासरे हुगलीजनपदस्य तारकेश्वरनगरम् आगतः। तारकेश्वरनगरे आयोजिते मुख्यसमारोहे मुख्यमन्त्री शुभेन्दु अधिकारी प्रधानमन्त्रिणः स्वागतं डोकराकलया निर्मितां दुर्गाप्रतिमां तारकनाथमन्दिरस्य चित्रं रसगोलकम् जलभरासन्देशं च समर्प्य अकरोत्।
प्रधानमन्त्री शनिवासरे मध्याह्ने दमदमविमानपत्तनम् आगतः। ततः सः हेलीकाप्टरयानद्वारा तारकेश्वरनगराय प्रस्थितः सायंकाले चतुर्वादनानन्तरं सभास्थलं प्राप्तवान्। मुख्यमन्त्री शुभेन्दु अधिकारी पूर्वमेव तत्र उपस्थितः आसीत्। अस्मिन् अवसरे राज्यपालः आर एन रवि अपि उपस्थितः आसीत्।
राज्ये सर्वकारपरिवर्तनानन्तरं प्रथमवारं जूनमासस्य विंशतितमे दिवसे पश्चिमबङ्गदिवसरूपेण उत्सवः आचर्यते। अस्मात् पूर्वं ममता बनर्जी सर्वकारस्य काले प्रथमवैशाखदिने पश्चिमबङ्गदिवसः आचर्यते स्म। नूतनसर्वकारेण जूनमासस्य विंशतितमः दिवसः पश्चिमबङ्गदिवसरूपेण आचरितुं निर्णीतः अस्ति।
उल्लेखनीयं यत् जूनमासस्य विंशतितमे दिवसे १९४७ तमे वर्षे बङ्गप्रदेशस्य प्रान्तीयविधानसभायां पश्चिमबङ्गप्रदेशं पृथक्प्रान्तरूपेण भारते समावेशितं स्थापयितुं समर्थने निर्णयः पारितः आसीत्। अस्य निर्णयस्य पृष्ठे श्यामा प्रसाद मुखर्जी महोदयस्य महत्त्वपूर्णा भूमिका स्वीक्रियते। तारकेश्वरस्य कार्यक्रमे पश्चिमबङ्गदिवसस्य सह श्यामा प्रसाद मुखर्जी महोदयस्य योगदानम् अपि विशेषरूपेण स्मारितम्।
प्रधानमन्त्रिणः भ्रमणं दृष्ट्वा तारकेश्वरनगरे व्यापकसुरक्षाव्यवस्था कृता। सभास्थले तस्य समीपवर्तिक्षेत्रेषु च बहुसंख्यकेषु राज्यपुलिसबलस्य केन्द्रीयबलानां च जवानाः नियुक्ताः आसन्। कार्यक्रमस्थलं पश्चिमबङ्गस्य सांस्कृतिकऐतिहासिकपरिचयानुरूपं सज्जीकृतम् आसीत्।
सभास्थलस्य प्रवेशद्वारे समीपवर्तिक्षेत्रेषु च कोलकातानगरस्य पीतवर्णीययानानि हस्तचालितरिक्शायानानि दक्षिणेश्वरकालिमन्दिरस्य बेलूरमठस्य च चित्राणां माध्यमेन बङ्गप्रदेशस्य विरासताया प्रदर्शनं कृतम्। मञ्चसज्जार्थं थाइलैण्डदेशात् एन्थूरियमपुष्पाणि तमिलनाडुराज्यस्य ऊटीनगरात् जरबेरापुष्पाणि लिलीपुष्पाणि च आनीतानि। एतदतिरिक्तं विविधप्रकारकगुलाबपुष्पाणि नीलडेजीपुष्पाणि रजनीगन्धापुष्पाणि गेंदापुष्पाणि च उपयुज्यन्ते स्म।
पश्चिमबङ्गराज्यम् आगमनात् पूर्वं प्रधानमन्त्री मोदी सामाजिकमाध्यममञ्चे एक्स इत्यत्र राज्यवासिभ्यः शुभकामनाः प्रदत्तवान्। तेन उक्तं यत् पश्चिमबङ्गराज्येन साहित्ये सङ्गीते कलासु अध्यात्मे विज्ञाने वाणिज्ये उद्योगे सामाजिकसुधारेषु च अनेकेषु क्षेत्रेषु योगदानं प्रदाय भारतस्य इतिहासः राष्ट्रियचेतना च समृद्धा कृता।
प्रधानमन्त्री उक्तवान् यत् जूनमासस्य विंशतितमः दिवसः पश्चिमबङ्गस्य इतिहासे अत्यन्तं महत्त्वपूर्णः दिवसः अस्ति, यतः अस्मिन्नेव दिवसे पश्चिमबङ्गः भारतस्य अभिन्नः भागः भविष्यति इति सुनिश्चितम् अभवत्। तेन श्यामा प्रसाद मुखर्जी महोदयस्य योगदानं स्मरन् उक्तं यत् वर्षे २०२६ तस्य पञ्चविंशत्यधिकशततमी जयंती आचर्यते।
---------------------
Hindusthan Samachar / Dheeraj Maithani