Enter your Email Address to subscribe to our newsletters

कोलकाता, 20 जूनमासः (हि.स.)।मुख्यमन्त्री शुभेन्दु अधिकारी राष्ट्रपतिं द्रौपदी मुर्मुं तस्याः जन्मदिनावसरे विशेषशुभकामनाः प्रदत्तवान्। स्वसन्देशे तेन राष्ट्रपतेः उत्तमस्वास्थ्याय सुखसमृद्धये राष्ट्रसेवायै च दीर्घस्य सार्थकस्य च जीवनस्य कामना कृता।
मुख्यमन्त्री सामाजिकमाध्यममञ्चे एक्स इत्यत्र अलिखत् यत् राष्ट्रपतेः ज्ञानं गरिमा राष्ट्रस्य प्रति समर्पणं च देशवासिनां कृते निरन्तरं प्रेरणास्रोतोरूपेण वर्तते। राष्ट्रपतेः नेतृत्वस्य सेवाभावस्य च प्रशंसां कृत्वा तेन ताभ्यः जन्मदिनस्य हार्दिकशुभकामनाः उच्चतमसम्मानश्च प्रदर्शितः।
अन्यतः अस्मिन् विशेषावसरे राष्ट्रपतिः द्रौपदी मुर्मु महोदया अद्य स्वगृहराज्ये ओडिशाराज्यस्य मयूरभञ्जजनपदस्य भ्रमणे वर्तते। अस्यां यात्रायां प्रधानमन्त्री नरेन्द्र मोदी अपि तया सह उपस्थितः आसीत्। प्रातःकाले उभौ नेतारौ राष्ट्रपतेः पैतृकग्रामं पहाडपुरं गतवन्तौ, यत्र ताभ्यां सान्तालीसमुदायस्य पवित्रस्थलेषु जाहेरा इति स्थलेषु पारम्परिकविधिना पूजार्चना कृता तथा च वृक्षारोपणम् अपि कृतम्।
तदनन्तरं तौ रायरंगपुरे आयोजिते भव्यकार्यक्रमे सम्मिलितवन्तौ, यत्र ओडिशाराज्यस्य विकासाय विविधकल्याणकारीपरियोजनानामुहाराः प्रदत्ताः।
---------------
Hindusthan Samachar / Dheeraj Maithani