राजनीतौ महिलानां भूमिका, ‘विकसित-भारत-२०४७’ इत्यस्य कृते अर्थव्यवस्थायाः कुञ्जिका - माण्डविया
नवदेहली, २० जूनमासः (हि.स.)। केन्द्रीयः श्रम-रोजगारमन्त्री डॉ.मनसुख-माण्डविया शनिवासरे अवदत् यत् महिलाः भारतस्य विकासयात्रायाः केवलं सहभागिन्यः न, अपितु देशस्य भविष्यस्य वास्तविकाः निर्मातार: सन्ति। नवदेहल्यां यशोभूमि-स्थले आयोजिते पञ्चमे नेशनल् र
नारेडको माही रियल एस्टेट सम्मेलन 2026 को संबोधित करते हुए डां. मनसुख मांडविया


नारेडको माही रियल एस्टेट सम्मेलन 2026 को संबोधित करते हुए डां. मनसुख मांडविया


नवदेहली, २० जूनमासः (हि.स.)। केन्द्रीयः श्रम-रोजगारमन्त्री डॉ.मनसुख-माण्डविया शनिवासरे अवदत् यत् महिलाः भारतस्य विकासयात्रायाः केवलं सहभागिन्यः न, अपितु देशस्य भविष्यस्य वास्तविकाः निर्मातार: सन्ति।

नवदेहल्यां यशोभूमि-स्थले आयोजिते पञ्चमे नेशनल् रियल एस्टेट डेवलपमेण्ट काउन्सिल माही रियल एस्टेट् सम्मेलनं-२०२६ इत्यस्य उद्घाटनसमारोहे सम्बोधनं कुर्वन् माण्डविया एतद् उक्तवान्। सः अवदत् यत् २०४७ तमवर्षपर्यन्तं ‘विकसित-भारतस्य’ लक्ष्यं महिलानां पूर्ण-सहभागितां, नेतृत्वं तथा आर्थिक-योगदानं विना साधयितुं न शक्यते।

तेन पुनः प्रतिपादितं यत् महिलानां समभागित्वं विना विकसित-भारतस्य स्वप्नं साकारं कर्तुं न शक्यते। महिलाः आर्थिक-विकासस्य, सामाजिक-परिवर्तनस्य तथा राष्ट्रनिर्माणस्य प्रमुखाः प्रेरकशक्तयः सन्ति। ‘विकसित-भारत-२०४७’ इत्यस्य यात्रा महिलानां सक्रिय-सहभागितां, नेतृत्वं आर्थिक-योगदानं च विना पूर्णा न भविष्यति।

माण्डविया अवदत् यत् नारेडको माही इत्येतादृशाः उपक्रमाः अधुना केवलं चर्चायाः विषयाः न सन्ति, अपितु प्रभावशालिनः आन्दोलनस्य रूपं धारयन्ति। एते महिला-व्यावसायिकाभ्यः, उद्यमिनिभ्यः तथा परिवर्तनस्य वाहिकाभ्यः सशक्तं मञ्चं प्रददति। तेन उक्तम्— “महिलाः भारतस्य विकासगाथायाः केवलं सहभागिन्यः न, अपितु तस्याः वास्तविकाः निर्मातार: सन्ति।”

मन्त्री अवदत् यत् सम्मेलनस्य विषयः महिलानां कृते अवसराणां विस्तारस्य तथा परम्परागत-धारणानां परित्यागस्य आवश्यकतां प्रकाशयति। तेन उक्तम्— “यदा महिलाः नेतृत्वं कुर्वन्ति, तदा उद्योगाः विकसिताः भवन्ति, समाजः समृद्धः भवति, राष्ट्रं च अग्रे प्रसरति।”

श्रम-रोजगारमन्त्री सामाजिक-माध्यमे प्रकाशितसन्देशे अवदत् यत् सुदृढा निर्माणोद्योगव्यवस्था एव विकसित-भारतस्य आधारशिला अस्ति। अद्य भारत-बिल्डकॉन इत्यस्मिन् नारेडको ‘माही’ सम्मेलनस्य उद्घाटनं कृतम् तथा विविध-निर्माण-सामग्रीणाम् प्रदर्शनी-स्थलानां अवलोकनस्य अवसरः अपि प्राप्तः।

नारेडको माही इत्यस्य अध्यक्षा स्मिता-पाटिल: संस्थायाः पञ्चवर्षीय-यात्रां स्मरन्ती अवदत् यत् एषः उपक्रमः अधुना देशव्यापि स्थावर-सम्पत्ति-क्षेत्रे महिलानां नेतृत्वस्य सुदृढं जालं जातम्। संस्था कौशल-विकासे, मार्गदर्शने, उद्यमितायां, स्थायित्वे तथा सामुदायिक-सहभागितायां कार्यं करोति।

उल्लेखनीयं यत् ‘प्रभावात् प्रेरणां प्रति’ इति विषयम् आधारीकृत्य आयोजिते नारेडको माही रियल एस्टेट् सम्मेलनं-२०२६ इत्यस्मिन् स्थावर-सम्पत्ति-क्षेत्रे महिलानां सहभागितायाः नेतृत्वस्य च संवर्धने विशेषं बलं प्रदत्तम्।

Hindusthan Samachar / Divya Ranjan