ब्रजेश पाठकः अकरोत् योगाभ्यासं, कथितवान् नियततया कुर्याम योगः भवेम निरोगः
लखनऊ, 20 जूनमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेश पाठकः तुलसीमानसमन्दिरस्य हरिद्वारस्थितस्य महन्तः कामेश्वर पुरी महाराजः अन्ताराष्ट्रिययोगदिवसस्य २०२६ तमवर्षस्य पूर्वदिने शनिवासरे प्रातः के.डी. सिंह बाबू क्रीडाङ्गणे आयोजितस्य विशालयोग
योग करते उप मुख्यमंत्री ब्रजेश पाठक व अन्य


योग करते लोग


योग का शुभारम्भ करते ब्रजेश पाठक व डा.दिनेश शर्मा


योग के प्रतिभागियों के साथ ब्रजेश पाठक


लखनऊ, 20 जूनमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेश पाठकः तुलसीमानसमन्दिरस्य हरिद्वारस्थितस्य महन्तः कामेश्वर पुरी महाराजः अन्ताराष्ट्रिययोगदिवसस्य २०२६ तमवर्षस्य पूर्वदिने शनिवासरे प्रातः के.डी. सिंह बाबू क्रीडाङ्गणे आयोजितस्य विशालयोगशिविरस्य दीपप्रज्वालनेन शुभारम्भं कृतवन्तौ।

अस्मिन् अवसरे योगाभ्यासं कुर्वद्भ्यः जनाभ्यः योगस्य महत्त्वं वर्णयन् ब्रजेश पाठक उक्तवान् यत् सर्वे योगदिवसे एतत् संकल्पं कुर्वन्तु यत् वयं योगाभ्यासं करिष्यामः तथा निरोगाः भविष्यामः। योगस्य माध्यमेन वयं केवलं स्वशरीरं न, अपितु मनः अपि स्वस्थं निर्मिमः। यदा प्रत्येकस्य जनस्य शरीरं मनश्च स्वस्थं भूत्वा सकारात्मकदिशि अग्रे गमिष्यति तदैव अस्माकं देशः प्रदेशश्च प्रगतिं करिष्यतः।

ममता चैरिटेबलसमितेः प्रयत्नानां प्रशंसां कुर्वन् भाजपादलस्य राज्यसभासांसदः डा. दिनेश शर्मा उक्तवान् यत् योगः भारतवर्षस्य एषा विशिष्टा विद्या अस्ति या सम्पूर्णविश्वे जनानां मध्ये भारतस्य गौरवपूर्णं स्थानं स्थापितवती। अद्य विश्वस्य प्रायः १७० देशाः जूनमासस्य २१ दिनाङ्कं योगदिवसरूपेण आचरन्ति। अन्तर्राष्ट्रीययोगदिवसः केवलं योगदिवसः नास्ति, अपितु भारतस्य प्रतिष्ठायाः प्रतीकः अस्ति, यस्य माध्यमेन वयं विश्वाय एतत् सन्देशं दातुम् इच्छामः यत् भारतः सर्वेषु क्षेत्रेषु अग्रणी अस्ति। चाहे अस्माकं प्राचीना परम्परा भवेत्, आयुर्वेदः भवेत् अथवा योगः। वयं केवलं स्वस्वास्थ्यस्य विषये चिन्तिताः न भवामः, अपितु अस्मिन् मानवकल्याणस्य भावना निहिता अस्ति। अद्य अनेकेषु स्थानेषु योगदिवससम्बद्धाः कार्यक्रमाः आयोज्यन्ते।

पूर्वमन्त्री डा. महेन्द्र सिंहः उक्तवान् यत् योगं स्वदैनिकजीवनस्य अङ्गं कृत्वा स्वस्थसमाजनिर्माणे सर्वे सहभागी भवन्तु। तुलसीमानसमन्दिरस्य हरिद्वारस्थितः महन्तः कामेश्वर पुरी महाराजः योगस्य माध्यमेन स्वस्थस्य सन्तुलितस्य च जीवनस्य स्वीकारणाय प्रेरणां दत्तवान्।

अस्मिन् अवसरे एका पृथ्वी एकं स्वास्थ्यं इति सन्देशेन सह योगस्य जनजनपर्यन्तं प्रसारणस्य तथा स्वस्थभारतसमर्थभारतनिर्माणस्य संकल्पः गृहीतः। के.डी. सिंह बाबू क्रीडाङ्गणे सहस्रशः जनाः एकस्वरेण वन्देमातरम् इति गीतं गात्वा देशभक्तेः, एकतायाः तथा स्वस्थभारतस्य संकल्पं सुदृढीकृतवन्तः। सर्वैः योगाभ्यासः अपि कृतः।

ममता चैरिटेबलसमितेः अध्यक्षः राजीव मिश्रः मञ्चस्थातिथीनां योगाभ्यासार्थम् आगतानां प्रतिभागिनां च प्रति कृतज्ञतां व्यक्तीकृतवान्। अस्मिन् अवसरे एमएलसी अवनीश सिंह पटेल, पूर्वमुख्यसचिवः दुर्गा शङ्कर मिश्रः, भाजपानेता नीरज सिंहः, भाजपादलस्य महानगराध्यक्षः आनन्द द्विवेदी, उपाध्यक्षः राजेश शुक्लः, न्यायमूर्तिः रङ्गनाथ पाण्डेयः, सचिन धानवालः, डा. सुरभि धानवालः, गौरव पाण्डेयः तथा राजेश मिश्रः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani