अन्ताराष्ट्रिययोगदिवसे १.३२ लक्षेषु परिषदीयविद्यालयेषु सामूहिकयोगाभ्यासः भविष्यति
लखनऊनगरम्, २० जूनमासः (हि.स.)। उत्तरप्रदेशः द्वादशतम-अन्ताराष्ट्रिययोगदिवसस्य अवसरे नूतनमध्यायं लिखितुं सज्जः अस्ति। प्रदेशस्य १.३२ लक्षेषु परिषदीयविद्यालयेषु अध्ययनरताः प्रायः १.४२ कोटि: छात्राः छात्र्यश्च तथा ७४६ कस्तूरबा-गान्धी-बालिका-विद्यालयेष
योग करते लोग


लखनऊनगरम्, २० जूनमासः (हि.स.)। उत्तरप्रदेशः द्वादशतम-अन्ताराष्ट्रिययोगदिवसस्य अवसरे नूतनमध्यायं लिखितुं सज्जः अस्ति। प्रदेशस्य १.३२ लक्षेषु परिषदीयविद्यालयेषु अध्ययनरताः प्रायः १.४२ कोटि: छात्राः छात्र्यश्च तथा ७४६ कस्तूरबा-गान्धी-बालिका-विद्यालयेषु अध्ययनरताः ७८ सहस्राधिकाः छात्र्यः योगेन सम्बद्धाः भवितुं व्यापकाः सज्जताः सम्पन्नाः सन्ति। जूनमासस्य २१ दिनाङ्के अन्ताराष्ट्रिययोगदिवसे प्रदेशस्य सर्वेषु विद्यालयेषु सामूहिकयोगाभ्यासः भविष्यति, यस्मिन् विद्यार्थी, शिक्षकाः, शिक्षामित्राणि, अनुदेशकाः तथा अभिभावकाः सहभागिनः भविष्यन्ति।

कार्यक्रमाणां प्रभाव्यनुश्रवणाय समन्वयाय च शिक्षानिदेशकः अनिलभूषणचतुर्वेदी नोडल-अधिकारीरूपेण नियुक्तः अस्ति। योगं जनान्दोलनरूपेण स्वस्थजीवनशैल्याः आधाररूपेण च प्रतिष्ठापयितुं योगी-सर्वकारस्य सततप्रयत्नस्य प्रभावः अस्मिन् वर्षेऽपि अन्ताराष्ट्रिययोगदिवसे स्पष्टतया दृश्यते, यदा ग्रामेभ्यः नगरपर्यन्तं विद्यालयपरिसराः योगमयवातावरणस्य साक्षिणः भविष्यन्ति।

मूलशिक्षाविभागेन जूनमासस्य २१ दिनाङ्के अन्तर्राष्ट्रीययोगदिवसस्य सफलाय आयोजनाय सर्वाः सज्जताः सम्पन्नाः कृताः। आयुषमन्त्रालयस्य तथा भारतसर्वकारस्य शिक्षामन्त्रालयस्य निर्देशानुसारं प्रदेशस्य सर्वेभ्यः मण्डलीय-सहायक-शिक्षानिदेशकेभ्यः, जिला-मूलशिक्षाधिकारिभ्यः तथा खण्डशिक्षाधिकारिभ्यः आवश्यकाः निर्देशाः प्रदत्ताः। विभागस्य प्रयत्नः अस्ति यत् योगदिवसः केवलम् औपचारिककार्यक्रमः न भवेत्, अपितु विद्यार्थिनां जीवने स्वस्थाभ्यासानां सकारात्मकजीवनशैल्याश्च स्थायीसन्देशः भवेत्।

विद्यालयेषु भविष्यति सामूहिकयोगाभ्यासः

मूलशिक्षाविभागेन निर्गतानां निर्देशानामनुसारं जूनमासस्य २१ दिनाङ्के विद्यालयेषु सामूहिकयोगाभ्यासः, प्राणायामः तथा योगस्य महत्त्वविषयकाः जनजागरूकता-कार्यक्रमाः आयोजयिष्यन्ते। विद्यार्थिनः योगस्य शारीरिक-मानसिक-आध्यात्मिकलाभि: परिचिताः भविष्यन्ति। तदतिरिक्तम् अभिभावकानां स्थानीयसमुदायस्य च सहभागिता अपि सुनिश्चितीक्रियते, येन योगस्य सन्देशः समाजस्य व्यापकवर्गपर्यन्तं प्रसारितुं शक्येत।

Hindusthan Samachar / Divya Ranjan