राष्ट्रपतेः द्रौपदी मुर्मोः ग्रामे पाहाड़पुरे प्रधानमंत्री मोदी अकरोत् गोसानी पीठे पूजा-अर्चनाम्
भुवनेश्वरम्, 20 जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी स्वस्य एकदिवसीयमयूरभञ्जभ्रमणकाले राष्ट्रपतिना द्रौपदी मुर्मुणा सह ओडिशाराज्यस्य पाहाडपुरग्रामस्य भ्रमणं कृतवान्। अस्मिन् अवसरे तेन सान्ताली तथा हो जाहिरा गोसानी पीठे पूजार्चना कृता, तत्र
प्रधानमंत्री नरेन्द्र मोदी ने जाहिरा में की पूजा अर्चना


भुवनेश्वरम्, 20 जूनमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी स्वस्य एकदिवसीयमयूरभञ्जभ्रमणकाले राष्ट्रपतिना द्रौपदी मुर्मुणा सह ओडिशाराज्यस्य पाहाडपुरग्रामस्य भ्रमणं कृतवान्। अस्मिन् अवसरे तेन सान्ताली तथा हो जाहिरा गोसानी पीठे पूजार्चना कृता, तत्र सञ्चाल्यमानस्य विद्यालयस्य कौशलप्रशिक्षणकेन्द्रस्य च अवलोकनम् अपि कृतम्।

सामाजिकमाध्यमस्य माध्यमेन प्रधानमन्त्री स्वानुभवं साझा कृत्वा उक्तवान् यत् एषा यात्रा तस्य कृते सौभाग्यपूर्णा प्रेरणादायिनी च अनुभूतिः आसीत्।

प्रधानमन्त्री मोदी उक्तवान् यत् तेन राष्ट्रपत्या द्रौपदी मुर्मु महोदया सह गोसानी पीठे पूजार्चना कृता। तेन उक्तं यत् गोसानी पीठस्य जनजातीयसंस्कृतौ अत्यन्तं महत्त्वपूर्णं स्थानम् अस्ति। प्रधानमन्त्री उक्तवान् यत् एतत् स्थलम् जनजातीयसमाजस्य श्रद्धायाः परम्पराणां च सजीवं प्रतीकम् अस्ति।

प्रधानमन्त्री अग्रे उक्तवान् यत् तेन राष्ट्रपत्या मुर्मु महोदया सह पाहाडपुरग्रामस्थितयोः सान्ताली जाहिरा तथा हो जाहिरा स्थलयोः अपि भ्रमणं कृत्वा तत्र श्रद्धां समर्पितवान्। तेन उक्तं यत् एतानि पवित्रोपवनानि आदिवासीसमुदायस्य प्रकृत्या सह गाढश्रद्धायाः सन्तुलितसम्बन्धस्य च परम्परां प्रदर्शयन्ति। तेन उक्तं यत् एतादृश्यः सांस्कृतिकपरम्पराः भारतस्य समृद्धविरासतायाः अभिन्नः अंशः सन्ति तथा च तासां संरक्षणं संवर्धनं च आवश्यकम् अस्ति, येन आगामिसन्ततयः ताभ्यः प्रेरणां प्राप्नुयुः।

प्रधानमन्त्री एतदपि उक्तवान् यत् तेन पाहाडपुरस्थितस्य विद्यालयपरिसरस्य दिवंगतस्य श्याम चरण मुर्मु, दिवंगतस्य लखन मुर्मु तथा दिवंगतस्य सिपुन मुर्मु इत्येषां स्मृतिस्थले पुष्पाञ्जलिः अर्पिता। तेन उक्तं यत् राष्ट्रपतिः द्रौपदी मुर्मु महोदया व्यक्तिगतजीवनस्य दुःखदपरिस्थितिषु अपि यत् साहसं दृढतां च प्रदर्शितवती, तत् अत्यन्तं प्रेरणादायकम् अस्ति। तस्याः अनुभवाः लोकसेवायाः जनकल्याणस्य च प्रति तस्याः प्रतिबद्धतां अधिकां सुदृढां कृतवन्तः।

प्रधानमन्त्री एतदपि उक्तवान् यत् तेन पाहाडपुरग्रामस्य एकस्य विद्यालयस्य भ्रमणं कृतम्, यत्र राष्ट्रपतिः मुर्मु महोदया स्थानीयशिक्षाव्यवस्थायाः विकासे युवभ्यः अवसरप्रदाने च महत्त्वपूर्णां भूमिकां निर्वहति। तेन उक्तं यत् एषः प्रयासः ग्रामीणक्षेत्रे शिक्षाविस्तारस्य सशक्तीकरणस्य च दिशि महत्त्वपूर्णं पदक्षेपम् अस्ति।

एतदतिरिक्तं प्रधानमन्त्री पाहाडपुरस्थितस्य कौशलप्रशिक्षणकेन्द्रस्य अपि भ्रमणं कृतवान्। तेन उक्तं यत् अस्मिन् क्षेत्रे राष्ट्रपतिना द्रौपदी मुर्मुणा क्रियमाणाः प्रयासाः उल्लेखनीयाः सन्ति, येन ग्रामस्य विकासगत्यै नूतना दिशा प्राप्ता अस्ति। तेन उक्तं यत् एतत् दृष्ट्वा हर्षः भवति यत् ग्रामीणयुवानः कौशलप्रशिक्षणस्य माध्यमेन आत्मनिर्भरतायाः जीविकायाश्च नवीनान् अवसरान् प्राप्नुवन्ति।

----

Hindusthan Samachar / Dheeraj Maithani