Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 20 जूनमासः (हि.स.)।
तीर्थनगरी हरिद्वारं स्वच्छं सुन्दरं सुव्यवस्थितं च कर्तुम् उद्दिश्य जिलाधिकारिणः मयूर दीक्षितस्य निर्देशनस्य अधीने विशेषस्वच्छताभियानं निरन्तरं सञ्चाल्यते। सोमवत्यामावास्यायाः अवसरे बहुसंख्यकानां श्रद्धालूनाम् आगमनानन्तरं पन्तद्वीपमैदाने तदुपकण्ठक्षेत्रेषु च व्याप्तां अशुचितां दूरकर्तुं शनिवासरे व्यापकस्वच्छताभियानं सञ्चालितम्। प्रशासनस्य कथनानुसारम् एतदभियानं जूनमासस्य २१ दिनाङ्के अपि प्रवर्तिष्यते।
जिलाविपदाप्रबन्धनाधिकारिणी तथा स्वच्छताभियानस्य संयोजिका मीरा रावत अवदत् यत् जिलाधिकारिणः नेतृत्वे जनपदव्यापिनः स्वच्छताविषये निरन्तराः प्रयत्नाः क्रियन्ते। सोमवत्यामावास्यायाः समये श्रद्धालूनां विशालजनसमागमेन उत्पन्नाम् अशुचितां परिमार्जयितुं जूनमासस्य २० तथा २१ दिनाङ्कयोः विशेषाभियानं सञ्चाल्यते।
तया उक्तं यत् अभियानस्य जनान्दोलनरूपेण विकासाय जिलाधिकारिणा सामाजिकसङ्गठनानाम्, स्वयंसेवीसंस्थानाम्, धार्मिकसङ्गठनानाम्, सन्तसमाजस्य, व्यापारमण्डलानाम्, पत्रकाराणाम्, जनप्रतिनिधीनाम्, औद्योगिकसंस्थानाम् तथा सामान्यनागरिकाणां सक्रियसहभागितायै आवाहनं कृतम्।
अभियानस्य अन्तर्गतं पन्तद्वीपमैदाने तदुपकण्ठक्षेत्रेषु च प्रसृतः कूडकर्कटसमूहः अपसारितः तथा सम्पूर्णं क्षेत्रं स्वच्छं सुव्यवस्थितं च कृतम्। स्वच्छताकार्ये विपदाप्रबन्धनविभागस्य, जलनिगमस्य, नगरनिगमस्य तथा विविधसामाजिकसंस्थानां प्रतिनिधयः सक्रियसहभागितां प्रदर्श्य श्रमदानं कृतवन्तः तथा स्वच्छतायाः सन्देशं प्रसारितवन्तः।
अस्मिन् अवसरे उपनगरायुक्तः दीपक गोस्वामी, जलसंस्थानस्य अधिशासी अभियन्ता राजेश गुप्तः, स्वच्छतानीरीक्षकः संजय शर्मा तथा नगरनिगमस्य अधिकारिणः कर्मचारीजनाश्च, विविधस्वयंसेवीसंस्थानां प्रतिनिधयश्च उपस्थिताः आसन्।