Enter your Email Address to subscribe to our newsletters

नवदेहली, जूनमासस्य २१ दिनाङ्कः (हि.स.)। नीट-पुनर्परीक्षायाः सन्दर्भे केन्द्रीय-शिक्षामन्त्री धर्मेन्द्रप्रधानः रविवासरे उक्तवान् यत् छात्राः पूर्णतया निर्भयाः चिन्तामुक्ताश्च भूत्वा परीक्षां ददतु।
दिल्ली-विश्वविद्यालयेन बेनिटो-जुआरेज-मार्गस्थिते दक्षिण-परिसरे आयोजितस्य द्वादशतम-अन्ताराष्ट्रिय-योगदिवस-कार्यक्रमस्य अवसरे सः एतद् उक्तवान्।
कार्यक्रमानन्तरं पत्रकारैः सह संवादं कुर्वन् शिक्षामन्त्री नीट-परीक्षां प्रति माध्यमप्रतिनिधीन् सम्बोध्य अवदत्—“अद्य नीट-पुनर्परीक्षा आयोज्यते। मम एनटीए, राज्य-सर्वकारेषु, जनपद-प्रशासनेषु तथा देशस्य शिक्षाजगति पूर्णः विश्वासः अस्ति। प्रायः द्वाविंशतिलक्ष-विद्यार्थिनः अस्मिन् परीक्षायाम् सहभागिन: भवन्ति। ते पूर्णतया निर्भयाः चिन्तामुक्ताश्च भूत्वा परीक्षां ददतु। मम शुभकामनाः तै: सह सन्ति।”
मुख्यातिथित्वेन सम्बोधयन् धर्मेन्द्रप्रधानः अवदत् यत् अधुना समग्रं विश्वं मानसिक-चिन्तया शारीरिक-स्वास्थ्यसम्बद्धाभिः गम्भीराभिः समस्याभिः च संघर्षं करोति। एतासां सर्वासां समस्यानां समाधानम् अस्माकं प्राचीन-योगविज्ञाने निहितम् अस्ति।
सः प्रधानमन्त्रिण: नरेन्द्रमोदिनः प्रयासान् प्रशंसन् अवदत् यत् भारतीयसभ्यतायाः एषा प्राचीनतमा परम्परा गतदशवर्षेषु वैश्विकपटलस्य उपरि प्रतिष्ठापिता अस्ति। शिक्षामन्त्री विद्यार्थिनः सामान्यजनांश्च प्रति अपीलम् अकरोत् यत् ते प्रतिदिनं न्यूनातिन्यूनं दशनिमेष-परिमितं समयं योगाभ्यासाय अवश्यं नियोजयन्तु। यदि वयं वर्षस्य त्रिषष्ट्यधिकत्रिशत-दिनानि (३६५) नियमितरूपेण योगाभ्यासं करिष्यामः, तर्हि एव स्वस्थाः भूत्वा विश्वस्य सेवां कर्तुं समर्थाः भविष्यामः।
केन्द्रीयमन्त्री क्यूएस-विश्वविद्यालय-श्रेणीकरणम् २०२७ इत्यस्मिन् दिल्ली-विश्वविद्यालयस्य उत्कृष्ट-प्रदर्शनं प्रति हर्षं प्रकटयन् अवदत् यत् कतिपयवर्षपूर्वं दिल्ली-विश्वविद्यालयः षट्शततमस्य स्थानस्य परिधौ आसीत्, किन्तु अधुना सः उन्नत्याः फलस्वरूपं ३२२तमं स्थानं प्राप्तवान्। सः विश्वविद्यालयाय अग्रिमेषु वर्षेषु विश्वस्य शीर्ष-शत-विश्वविद्यालयेषु स्थानप्राप्तेः लक्ष्यं निर्धारितवान् तथा च अवदत् यत् ‘विकसित-भारत’-निर्माणे दिल्ली-विश्वविद्यालयस्य नेतृत्वं अत्यन्तं महत्त्वपूर्णं भविष्यति।
दिल्ली-विश्वविद्यालयस्य कुलपतिः प्रो.योगेशसिंहः स्वीयाध्यक्षीयभाषणे अवदत् यत् भारतेन मानवतायै प्रदत्ता महान्तमा देनं योगः आयुर्वेदश्च स्तः। योगः शरीरस्य, मनसः, बुद्धेः आत्मनश्च मध्ये सम्यक् सन्तुलनं विधत्ते।
सः अवदत् यत् सामान्यतया मनुष्यस्य मनः चञ्चलं भवति, शरीरं च विश्रामप्रियं भवति; किन्तु योगः मनः स्थिरं शरीरं च गतिशीलं कृत्वा मनुष्यं आत्मसंयमसम्पन्नं करोति।
शिक्षितेषु विद्वत्सु च करुणाभावस्य न्यूनतां प्रति चिन्तां प्रकटयन् कुलपतिः अवदत् यत् योगः प्रतिस्पर्धायाः मध्येऽपि करुणायाः सहयोगस्य च भावनां शिक्षयति।
अस्मिन् अवसरे उच्चशिक्षासचिवः डाॅ.विनीतजोशी, विद्यालयीय-शिक्षासचिवः सञ्जयकुमारः, डीयू-सम्बद्ध-महा-विद्यालयानां अधिष्ठाता प्रो.बलरामपाणिः, दक्षिण-परिसरस्य निदेशिका प्रो.शरजनी-अब्बी, सीओएल-निदेशिका प्रो.पायलमागो तथा अध्यापकाः, अशैक्षणिक-कर्मचारिणः, विद्यार्थिनश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan