जयपुरं समेत्य प्रदेशे समग्रे समाचरितः 12वां अंताराष्ट्रीय योग दिवसः, सहस्रशःजनाःकरिष्यन्ति सामूहिकं योगाभ्यासम्
जयपुरम्, 21 जूनमासः (हि.स.)। द्वादशस्य अन्ताराष्ट्रिययोगदिवसस्य अवसरे शनिवासरे राजधानीजयपुरं सहित्य सम्पूर्णे राज्ये विविधस्थानेषु सामूहिकयोगाभ्यासकार्यक्रमाः आयोजिताः। राज्यस्तरीयः समारोहः जयपुरस्थे एसएमएसस्टेडियमस्य अन्तःक्रीडाङ्गणे आयोजितः, यत
जयपुर में जंतर-मंतर पर योगाभ्यास


जयपुरम्, 21 जूनमासः (हि.स.)।

द्वादशस्य अन्ताराष्ट्रिययोगदिवसस्य अवसरे शनिवासरे राजधानीजयपुरं सहित्य सम्पूर्णे राज्ये विविधस्थानेषु सामूहिकयोगाभ्यासकार्यक्रमाः आयोजिताः। राज्यस्तरीयः समारोहः जयपुरस्थे एसएमएसस्टेडियमस्य अन्तःक्रीडाङ्गणे आयोजितः, यत्र शतशः योगसाधकाः, विविधविभागानां कर्मचारीणः, पुलिसकर्मिणः, होमगार्डजवानाः, एनसीसीकैडेटाः, विद्यार्थिनः सामान्यजनाश्च योगाभ्यासं कृत्वा स्वस्थजीवनस्य सन्देशं प्रदत्तवन्तः।

कार्यक्रमे राज्यपालः हरिभाऊबागडे, जयपुरनगरस्य सांसदः मञ्जूशर्मा, राज्यसभायाः अभ्यर्थिनी अल्कागुर्जर, उपमुख्यमन्त्री आयुषमन्त्री च प्रेमचन्दबैरवा तथा जयपुरस्य निवर्तमानमहापौरा सौम्यागुर्जर उपस्थिताः आसन्। प्रातः षड्वादने आरब्धस्य कार्यक्रमस्य शुभारम्भः अतिथिभिः दीपप्रज्वलनेन कृतः, ततः अनन्तरं सामूहिकयोगाभ्यासस्य आयोजनम् अभवत्।

अन्ताराष्ट्रिययोगदिवसस्य अवसरे जयपुरस्य एसएमएसस्टेडियमस्य अतिरिक्तम् अल्बर्टहॉल, पत्रिकागेट, जलमहल, आमेरफोर्ट तथा जन्तरमन्तर सहितेषु अनेकेषु प्रमुखपर्यटनसांस्कृतिकस्थलेषु अपि सामूहिकयोगकार्यक्रमाः आयोजिताः, येषु सहस्रशः जनाः सहभागित्वं कृतवन्तः।

कार्यक्रमेषु विद्यालयमहाविद्यालयप्रशिक्षणसंस्थानानां विद्यार्थिनः, एनसीसी, सीआरपीएफ, पुलिस, होमगार्ड, शिक्षाविभागः, महिलाबालविकासविभागः इत्यादीनां विविधविभागानां अधिकारिणः कर्मचारीणश्च योगाभ्यासं कृतवन्तः। राज्यपालः हरिभाऊबागडे उपस्थितजनान् नियमितयोगाभ्यासस्य संकल्पं कारितवान् तथा च योगं स्वस्थशरीरस्य मानसिकसन्तुलनस्य उत्तमजीवनशैल्याश्च आधारः इति उक्तवान्।

तथैव जोधपुरे सम्राटअशोकउद्याने जिलास्तरीयः योगकार्यक्रमः आयोजितः। अस्मिन् शिक्षामन्त्री जिलाप्रभारीमन्त्री च मदनदिलावर, मन्त्रिमण्डलीयमन्त्री जोगारामपटेल, सांसदः अन्ये जनप्रतिनिधयः जिलाप्रशासनस्य अधिकारिणश्च योगाभ्यासं कृतवन्तः।

अपरत्र भीलवाडायां वर्षणसम्भावनां दृष्ट्वा जिलाप्रशासनेन आयुषविभागेन च जिलास्तरीययोगसमारोहस्य स्थलपरिवर्तनं कृतम्। पूर्वनिर्धारितस्य चित्रकूटधामनगरनिगमस्थलस्य स्थाने शान्तिभवने प्रधानडाककार्यालयस्य समीपे कार्यक्रमस्य आयोजनं कृतम्, यत्र बहुसंख्यकाः जनाः योगाभ्यासं कृत्वा योगं दैनिकजीवनस्य अङ्गत्वेन स्वीकर्तुं संकल्पं कृतवन्तः।

---------------

Hindusthan Samachar / Dheeraj Maithani