Enter your Email Address to subscribe to our newsletters

अहमदाबादः, जूनमासस्य २१ दिनाङ्कः (हि.स.)। केन्द्रीय-गृह-सहकारितामन्त्री अमितशाहः द्वादशतमस्य अन्ताराष्ट्रिययोगदिवसस्य अवसरे अहमदाबादस्य प्रह्लादनगर-उद्याने आयोजिते योगदिवस-कार्यक्रमे सहभागित्वा योगाभ्यासम् अकरोत्। अस्मिन् अवसरे गुजरातस्य गृहराज्यमन्त्री हर्षसङ्घवी अपि उपस्थितः आसीत्।
अस्मिन् कार्यक्रमे अमितशाहः, हर्षसङ्घवी तथा बहुसंख्यकाः उपस्थिताः नागरिकाः सामूहिक-योगाभ्यासम् अकुर्वन्। सर्वे विविधानि योगासनानि प्राणायामं च कृत्वा स्वस्थशरीरस्य शान्तमनसश्च सन्देशम् अददुः। योगाभ्यासकाले जनानां मध्ये विशेषः उत्साहः ऊर्जामयं वातावरणं च दृष्टम्।
अस्मिन् अवसरे योगः स्वस्थजीवनशैल्याः अवलम्बनस्य प्रभावी माध्यमम् इति प्रतिपाद्य नियमित-योगाभ्यासस्य सन्देशः अपि प्रदत्तः।
अन्ताराष्ट्रिययोगदिवस-कार्यक्रमे केन्द्रीयगृहमन्त्रिणः, हर्षसङ्घविनः अतिरिक्तम् अहमदाबादस्य महापौरः हितेशबरोटः, उपमहापौरा अञ्जूशाहः, देवाङ्गदाणी तथा अन्ये बहवः जनप्रतिनिधयः, यूनः, विद्यार्थिनः, योगप्रेमिणश्च बहुसंख्यया सहभागीभूताः।
Hindusthan Samachar / Divya Ranjan