असमप्रदेश:अधुना देश-विदेशीय-पर्यटकाणां प्रमुखम् आकर्षणकेन्द्रम् - भाजपा
गुवाहाटीनगरम्, जूनमासस्य २१ दिनाङ्कः (हि.स.)। यः असमराज्यः पूर्वं दुर्गमः असुरक्षितश्च इति मन्यते स्म, सः अधुना देशीय-विदेशीय-पर्यटकाणां निवेशकानां च प्रमुखम् आकर्षणकेन्द्रं जातम्। भारतीयजनतापक्षेण उक्तं यत् प्रधानमन्त्रिण: नरेन्द्रमोदीन: तथा मुख्य
प्रदेश भाजपा मुख्यालय अटल बिहारी वाजपेयी भवन में संवाददाता सम्मेलन को संबोधित करते हुए पार्टी के प्रवक्ता प्रांजल कलिता।


गुवाहाटीनगरम्, जूनमासस्य २१ दिनाङ्कः (हि.स.)। यः असमराज्यः पूर्वं दुर्गमः असुरक्षितश्च इति मन्यते स्म, सः अधुना देशीय-विदेशीय-पर्यटकाणां निवेशकानां च प्रमुखम् आकर्षणकेन्द्रं जातम्। भारतीयजनतापक्षेण उक्तं यत् प्रधानमन्त्रिण: नरेन्द्रमोदीन: तथा मुख्यमन्त्री डॉ.हिमन्तबिस्वसरमा इत्येतयोः नेतृत्वे राज्ये शान्तेः, विकासस्य, पर्यटनस्य च क्षेत्रेषु अभूतपूर्वं परिवर्तनम् अभवत्।

प्रदेशभाजपाया: मुख्यालये अटलबिहारीवाजपेयी-भवने आयोजितायां पत्रकारसम्मेलन-गोष्ठ्यां पक्षस्य प्रवक्ता प्राञ्जलकलिता अवदत् यत्, यः असमप्रदेश: बहुवर्षपर्यन्तम् उग्रवादेन अस्थिरतया च प्रभावितः आसीत्, सः अधुना स्थायि-शान्तेः दिशि अग्रे सरति। तेन उक्तं यत् केन्द्र-राज्य-सर्वकारयोः संयुक्त-प्रयत्नैः विविधैः सङ्घटनैः सह द्वादशाधिकानि शान्ति-सन्धि: सम्पन्नाः, येषां परिणामस्वरूपं राज्ये सुरक्षा-विकासयोः अनुकूलं वातावरणं निर्मितम्।

कलिता अवदत् यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः काजीरङ्ग-राष्ट्रीय-उद्यानस्य भ्रमणेन तत्र रात्रिनिवासेन च असमस्य पर्यटनाय वैश्विकी मान्यता प्राप्ता। वर्षे २०२५–२६ काजीरङ्ग-राष्ट्रीय-उद्याने प्रायः ५.४८ लक्षाः पर्यटकाः आगतवन्तः, यदा गतवर्षे राज्यस्य विमानपत्तनानां माध्यमेन ७० लक्षाधिकाः यात्रिण: यात्रां कृतवन्तः।

तेन अपि उक्तं यत् अधुना एव यूरोपीय-संघस्य प्रतिनिधिमण्डलस्य असम-भ्रमणानन्तरं यूरोपीय-संघस्य सदस्यराष्ट्राणां नागरिकाणां कृते असम-यात्रासम्बद्धानि प्रतिबन्धानि निरस्तानि। एतेन असमस्य पर्यटन-निवेश-क्षेत्रयोः नूतना गतिः भविष्यति। अस्मात् पूर्वम् ऑस्ट्रेलिया तथा जापानदेशौ अपि स्वनागरिकाणां कृते असम-यात्रायाः प्रतिबन्धान् अपासरताम्।

भाजपा-प्रवक्ता अवदत् यत् राज्य-सर्वकारस्य होमस्टे-योजना, बौद्ध-पर्यटन-परिपथे उत्तरपूर्व-प्रदेशस्य समावेशः, अन्तरराष्ट्रीय-स्तरीय-सङ्गीत-कार्यक्रमाणाम् आयोजनम्, तथा आईपीएल अन्येषां च अन्ताराष्ट्रिय-क्रिकेट-क्रीडास्पर्धानाम् आयोजनं च असमं यूनां पर्यटकाणां च प्रियं गन्तव्यस्थानं कुर्वन्ति। तेन उक्तं यत् पर्यटन-क्षेत्रस्य राज्यस्य अर्थव्यवस्थायां योगदानं निरन्तरं वर्धते, तेन च नूतनाः रोजगारावसराः अपि सृज्यन्ते।

प्राञ्जलकलिता पुनरवदत् यत् मुख्यमन्त्री डॉ.हिमन्तबिस्वसरमण: नेतृत्वे असमस्य पर्यटन-क्षेत्रे नूतनयुगस्य शुभारम्भः अभवत्। एतेन राज्यस्य आर्थिकप्रगतिः वर्धिता, युवभ्यः आत्मनिर्भरता तथा रोजगारस्य अवसराश्च अधिकतया उपलब्धाः अभवन्।

Hindusthan Samachar / Divya Ranjan