अंताराष्ट्रिय योग दिवसे योगमयं जातं सारणम्, जनपदे आयोजितः कार्यक्रमः
सारणम्, 21 जूनमासः (हि.स.)। अन्ताराष्ट्रिययोगदिवसस्य अवसरे रविवासरे सारणजनपदस्य प्रायः सर्वेषु प्रखण्डेषु शासकीय तथा अर्धशासकीयशैक्षणिकसंस्थाभिः, प्रशासनिककार्यालयैः, स्वैच्छिकसङ्गठनैः तथा सामाजिकसंस्थाभिः योगाभ्यासकार्यक्रमाणाम् आयोजनं कृतम्। प्रा
सारण में अंतर्राष्ट्रीय योग दिवस पर विभिन्न संगठनों ने किया योगाभ्यास


सारण में अंतर्राष्ट्रीय योग दिवस पर विभिन्न संगठनों ने किया योगाभ्यास


सारण में अंतर्राष्ट्रीय योग दिवस पर विभिन्न संगठनों ने किया योगाभ्यास


सारण में अंतर्राष्ट्रीय योग दिवस पर विभिन्न संगठनों ने किया योगाभ्यास


सारण में अंतर्राष्ट्रीय योग दिवस पर विभिन्न संगठनों ने किया योगाभ्यास


सारण में अंतर्राष्ट्रीय योग दिवस पर विभिन्न संगठनों ने किया योगाभ्यास


सारण में अंतर्राष्ट्रीय योग दिवस पर विभिन्न संगठनों ने किया योगाभ्यास


सारणम्, 21 जूनमासः (हि.स.)। अन्ताराष्ट्रिययोगदिवसस्य अवसरे रविवासरे सारणजनपदस्य प्रायः सर्वेषु प्रखण्डेषु शासकीय तथा अर्धशासकीयशैक्षणिकसंस्थाभिः, प्रशासनिककार्यालयैः, स्वैच्छिकसङ्गठनैः तथा सामाजिकसंस्थाभिः योगाभ्यासकार्यक्रमाणाम् आयोजनं कृतम्। प्रातःकालात् एव उद्यानेषु, क्रीडाङ्गणेषु, विद्यालयपरिसरेषु तथा सार्वजनिकस्थलेषु जनानां विशालसमागमः अभवत्, येन सम्पूर्णः जनपदः योगमयः इव दृश्यते स्म।

अन्ताराष्ट्रिययोगदिवसस्य अवसरे आयोजितेषु कार्यक्रमेषु जनप्रतिनिधयः, सामाजिककार्यकर्तारः, विद्यार्थीनः, शिक्षकाः, युवानः तथा सामान्यनागरिकाः उत्साहपूर्वकं सहभागितां कृतवन्तः। विविधकार्यक्रमाणां माध्यमेन जनाः योगस्य महत्त्वेन तस्य स्वास्थ्यलाभैः च अवगताः कृताः।

जनपदस्य प्रमुखकार्यक्रमेषु महाराजगञ्जस्य सांसदः जनार्दनसिंहसिग्रीवालः जलालपुरप्रखण्डस्य हरपुरशिवालयपरिसरे आयोजिते योगाभ्यासकार्यक्रमे मुख्यातिथिरूपेण सहभागितां कृतवान्। तेन उपस्थितैः सह विविधयोगासनानि प्राणायामश्च कृतः तथा नियमितयोगाभ्यासः स्वस्थजीवनस्य आधारः इति प्रतिपादितम्। तेन उक्तं यत् योगः मनुष्यं शारीरिकरूपेण स्वस्थं मानसिकरूपेण च सशक्तं करोति तथा जीवने सकारात्मकशक्तेः सञ्चारं जनयति।

तथैव बनियापुरस्थिते सन्तजलेश्वरएकेडमीसंस्थायां आयोजिते योगशिविरे विधानपार्षदः सच्चिदानन्दरायः मुख्यातिथिरूपेण उपस्थितः आसीत्। तेन दीपप्रज्वलनपूर्वकं कार्यक्रमस्य उद्घाटनं कृतम् तथा उपस्थितैः सह योगप्राणायामयोः अभ्यासः कृतः। अस्मिन् अवसरे तेन योगं कुरुत स्वस्थाः भवत इति सन्देशं दत्त्वा जनान् योगं स्वदैनिकदिनचर्यायाः अङ्गत्वेन स्वीकर्तुम् आहूतवान्।

जनपदमुख्यालये छपरानगरे स्थिते स्थानीयक्रीडाभवने आयोजिते जनपदस्तरीये योगाभ्यासशिविरे विधायकः छोटीकुमारी सहभागितां कृतवती। सा योगाभ्यासानन्तरम् उपस्थितान् सम्बोध्य उक्तवती यत् अस्य वर्षस्य विषयः स्वस्थसन्तुलितसक्रियजीवनशैल्याः प्रोत्साहनस्य सन्देशं ददाति। तया उक्तं यत् योगः केवलं शरीरस्य स्वास्थ्यरक्षणस्य माध्यमं नास्ति, अपितु मानसिकशान्तेः, आत्मविश्वासस्य, सकारात्मकचिन्तनस्य तथा आत्मबलस्य विकासाय अपि प्रभावकरं साधनम् अस्ति।

विधायकया जनाः योगं नियमितरूपेण स्वीकर्तुम् आहूताः। तया उक्तं यत् स्वस्थाः नागरिकाः एव स्वस्थसमृद्धसमाजनिर्माणे महत्त्वपूर्णां भूमिकां निर्वहन्ति। तया सर्वेभ्यः योगं स्वदिनचर्यायाः भागं कृत्वा उत्तमजीवनस्य दिशि अग्रे गन्तुम् आग्रहः कृतः।

नगरस्य राजेन्द्रक्रीडाङ्गणे अखिलभारतीयविद्यार्थीपरिषदः द्वारा विशेषयोगकार्यक्रमस्य आयोजनं कृतम्। अस्मिन् बहुसंख्यकाः छात्राः युवानश्च सहभागित्वा योगाभ्यासं कृतवन्तः। कार्यक्रमस्य समये युवसु योगस्य विषये विशेषः उत्साहः ऊर्जा च दृष्टा।

एतदतिरिक्तं मारुतिमानसमन्दिरपरिसरे राष्ट्रियस्वयंसेवकसङ्घस्य स्वयंसेवकैः सामूहिकरूपेण योगासनप्राणायामयोः अभ्यासः कृतः। तथा संस्कारभारत्याः तत्वावधाने नटराजकलाकेन्द्रे आयोजिते विशेषयोगशिविरे कलाकाराः सांस्कृतिककार्यकर्तारश्च सहभागितां कृत्वा योगस्य महत्त्वम् अवगतम्।

जनपदस्य विविधशैक्षणिकसंस्थासु अपि अन्ताराष्ट्रिययोगदिवसस्य उपलक्ष्ये विशेषकार्यक्रमाः आयोजिताः। सेन्ट्रलपब्लिकस्कूल, सरस्वतीशिशुविद्यामन्दिरम् इत्यादिषु बहुषु विद्यालयेषु विद्यार्थीनः, शिक्षकाः, अभिभावकाः च सामूहिकयोगाभ्यासं कृतवन्तः। एतेषु कार्यक्रमेषु बालकैः पूर्णोत्साहेन अनुशासनेन च सहभागिता कृता तथा योगस्य प्रति स्वजागरूकता रुचिः च प्रदर्शिता।

अनेन क्रमेण जनपदविधिकसेवाप्राधिकरणस्य पक्षतः अपि योगाभ्यासकार्यक्रमस्य आयोजनं कृतम्, यस्मिन् न्यायिकाधिकारिणः, अधिवक्तारः तथा कर्मचारिणः सहभागिनः अभवन्। कार्यक्रमस्य समये स्वस्थजीवनशैल्याः मानसिकसन्तुलनस्य च रक्षणे योगस्य भूमिकायाः विषये प्रकाशः पातितः।-------------

Hindusthan Samachar / Dheeraj Maithani