Enter your Email Address to subscribe to our newsletters


बेंगलुरुः, 21 जूनमासः (हि.स.)।अन्ताराष्ट्रिययोगदिवसस्य अवसरे कर्णाटकस्य राज्यपालः थावरचन्दगहलोतः अवदत् यत् योगः मानवस्य शारीरिकमानसिकस्वास्थ्ययोः पथप्रदर्शकः अस्ति तथा च एनं जीवनस्य अभिन्नाङ्गत्वेन स्वीकर्तव्यम्।
विधानसौधस्य पुरतः ग्राण्ड्स्टेप्सस्थले राज्यस्य आयुषविभागेन आयोजिते द्वादशे अन्तरराष्ट्रीययोगदिवसकार्यक्रमे राज्यपालः अवदत् यत् सहस्रवर्षप्राचीना योगपरम्परा मानवस्वास्थ्यस्य सुखमयजीवनस्य च मार्गदर्शिका भवति। मनसः शरीरस्य च सन्तुलनैक्ययोः कृते योगः अत्यन्तं महत्त्वपूर्णः अस्ति। अद्यतनायां स्पर्धात्मकायां विश्वव्यवस्थायां वर्धमानमानसिकतनावस्य विविधस्वास्थ्यसमस्यायाः च समाधानार्थं योगः प्रभावी माध्यमम् अस्ति।
तेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदिनः प्रयत्नैः द्वादशवर्षपूर्वम् अन्तरराष्ट्रीययोगदिवसस्य आरम्भः अभवत् तथा च अद्य योगाय विश्वव्यापी विशिष्टपरिचयः सम्मानश्च प्राप्तः अस्ति। युवभिः प्रतिदिनं योगाभ्यासाय समयः निष्कासनीयः तथा च एषः स्वस्थजीवनशैल्याः अङ्गत्वेन स्वीकरणीयः।
राज्यपालः अवदत् यत् “उत्तमस्वास्थ्याय योगः” इति सन्देशेन सह योगदिवसः आचर्यते। योगः केवलम् एकदिवसीयकार्यक्रमत्वेन न परिगणनीयः अपितु दैनिकजीवनस्य अङ्गत्वेन स्वीकरणीयः। तेन उक्तं यत् कर्णाटकसरकारः योगस्य प्रचारप्रसाराय जनजागरणाय च विविधकार्यक्रमान् आयोजयति।
अस्यां मध्ये मण्ड्यायां आयोजिते योगदिवसकार्यक्रमे केन्द्रीयमन्त्री एचडीकुमारस्वामी अवदत् यत् शारीरिकस्वास्थ्यं मानसिकशान्तिं च प्रदातुं समर्थः योगः प्राचीनभारतस्य महान् उपहारः अस्ति। वर्तमाने विश्वे स्वास्थ्यस्य मानसिकसन्तुलनस्य च संरक्षणाय योगः एव अत्यन्तं प्रभावी मार्गः अस्ति।
तेन उक्तं यत् प्रधानमन्त्री नरेन्द्रमोदिनः दूरदर्शिनः नेतृत्वस्य अथकप्रयत्नानां च परिणामस्वरूपं योगाय वैश्विकी मान्यता प्राप्ता। अद्य देशविदेशेषु लक्षशः जनाः योगाभ्यासं कुर्वन्ति। संयुक्तराष्ट्रसङ्घेन एकविंशतितमे जूनमासदिने अन्ताराष्ट्रिययोगदिवसस्य घोषणं भारतीयसंस्कृतेः प्राचीनपरम्परायाः च महत्त्वपूर्णं वैश्विकसम्मानम् अस्ति।
कुमारस्वामी सर्वान् नागरिकान् योगं स्वदैनिकदिनचर्यायाः अङ्गत्वेन स्वीकर्तुम् आह्वयन् अवदत् यत् स्वस्थशरीरस्य शान्तमनसश्च कृते योगं जीवनशैलीरूपेण स्वीकर्तुं संकल्पः करणीयः।
---------------
Hindusthan Samachar / Dheeraj Maithani