Enter your Email Address to subscribe to our newsletters


सूरतम्, 21 जूनमासः (हि.स.)।
केन्द्रीयमन्त्री सीआर पाटिल उक्तवान् यत् योगः भारतस्य प्राचीनसंस्कृतेः विश्वाय प्रदत्ता अमूल्या देनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदिनः प्रयासैः अद्य योगः विश्वव्यापी जनान्दोलनरूपेण परिवर्तितः अस्ति।
केन्द्रीयमन्त्री पाटिलो रविवासरे २१ जून दिनाङ्के अन्तरराष्ट्रीययोगदिवसस्य अवसर उपलक्ष्ये गुजरातराज्यस्य सूरतनगरे स्थिते सरसाना कन्वेन्शन सेन्टर इत्यत्र राज्यस्य क्रीडा युवा सांस्कृतिकगतिविधिविभागस्य जिलास्तरीययोगदिवसकार्यक्रमं सम्बोधयन् आसीत्। योगविशेषज्ञानां मार्गदर्शने जनप्रतिनिधिभिः, अधिकारिभिः तथा बहुसंख्यकैः नागरिकैः योगः, प्राणायामः, ध्यानं च सामूहिकरूपेण अभ्यस्तम् तथा स्वस्थजीवनशैल्याः स्वीकरणस्य सन्देशः प्रदत्तः।
द्वादशमस्य अन्ताराष्ट्रिययोगदिवसस्य शुभकामनाः प्रददत् केन्द्रीयमन्त्री सीआर पाटिल उक्तवान् यत् योगः भारतस्य प्राचीनसंस्कृतेः विश्वाय प्रदत्ता अमूल्या देनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदिनः प्रयासैः अद्य योगः विश्वव्यापी जनान्दोलनं जातम् अस्ति। योगः स्वास्थ्यस्य, शान्तेः, एकतायाः च प्रतीकः अस्ति तथा भाषाभेदं सीमाभेदं च निवार्य मानवतां संयोजयति।
सः उक्तवान् यत् योगः शरीरस्य, मनसः, चेतनायाः च एकसूत्रे बन्धनस्य माध्यमम् अस्ति। एषः केवलं व्यायामः न, अपितु जीवनयापनस्य कला विज्ञानं च अस्ति। अद्यतनकाले अनियमितदिनचर्यायाः, असन्तुलितभोजनस्य, वर्धमानमानसिकतनावस्य च परिवेशे योगः प्रभावकारिणी औषधिरिव कार्यं करोति। औषधविना शरीरं मनश्च स्वस्थं स्थापयितुं समर्थः योगः प्रत्येकस्य व्यक्तेः जीवनशैल्याः अङ्गं भवेत्।
पाटिल उक्तवान् यत् योगदिवसस्य आयोजनस्य उद्देश्यं योगस्य गृहे गृहे, विद्यालयेषु, कार्यस्थलेषु च प्रसारणं तथा जनानां मानसिकशारीरिकस्वास्थ्ययोः प्रति जागरूकतायाः संवर्धनम् अस्ति। तेन अधिकाधिकजनान् योगस्य स्वीकरणेन स्वास्थ्यविषये सजगाः भवितुम् आह्वानं कृतम्। अस्मिन् वर्षे अन्ताराष्ट्रिययोगदिवसस्य विषयः स्वस्थवृद्धावस्थायै योगः इति आसीत्। अस्य विषयस्य अनुरूपं सम्पूर्णे सूरतजिले नगरेषु, तालुकासु, महानगरपालिकासु तथा नगरपालिकासु उत्साहपूर्वकं योगदिवसः आचरितः, यस्मिन् बहुसंख्यकाः नागरिकाः विद्यार्थीश्च सहभागिनः अभवन्।
कार्यक्रमस्य समये कोलकातानगरे प्रधानमन्त्री नरेन्द्रमोदिनः तथा गांधीनगरजिलस्य मानसानगरे मुख्यमन्त्री भूपेन्द्रपटेलस्य उपस्थितौ आयोजितस्य राज्यस्तरीयकार्यक्रमस्य प्रत्यक्षप्रसारणम् अपि दृष्टम्। प्रधानमन्त्रिणा योगस्य माध्यमेन स्वस्थनिरोगजीवनस्य सन्देशः प्रदत्तः।
पञ्चचत्वारिंशन्मिनिटात्मकसामान्ययोगनवाचारकार्यक्रमे सांसदः मुकेशदलालः, विधायकाः सङ्गीतापाटिल, मनुभाई पटेल, सन्दीप देसाई, अरविन्द राणा, जिलापञ्चायताध्यक्षः समीरमोदी, महापौरा मायाबेन मावाणी, जिलासमाहर्ता तेजस परमार, महानगरपालिका आयुक्तः एम नागराजन्, जिलाविकासाधिकारी देवेन्द्रप्रकाश मीणा, वीएनएसजीयू इत्यस्य कुलपतिः डॉ किशोरसिंह चावड़ा, चेम्बर ऑफ कॉमर्स इत्यस्य अध्यक्षः अशोक जीरावाला इत्यादयः विविधविभागानां अधिकारीकर्मचारिणः, विद्यार्थिनः, स्वयंसेवीसंस्थानां प्रतिनिधयः, योगबोर्डस्य कर्मयोगिनः तथा बहुसंख्यकाः योगप्रेमिणः नागरिकाः च सहभागी अभवन्।
---------------
Hindusthan Samachar / Dheeraj Maithani