गिप्पीग्रेवालस्य चलचित्रस्य 'कैरी ऑन जट्टा ४' इत्यस्य प्रदर्शनपूर्वावलोकनम् प्रकाशितम्
पञ्जाबी-चलचित्रजगतः लोकप्रियस्य हास्यचलच्चित्रशृङ्खलायाः ''कैरी ऑन जट्टा'' इत्यस्य चतुर्थभागस्य ''कैरी ऑन जट्टा ४'' इत्यस्य प्रदर्शनपूर्वावलोकनं प्रकाशितम्। अस्य चलचित्रस्य निर्देशनं स्मीपकाङ्गेन कृतम्, निर्माणञ्च गिप्पीग्रेवालः तथा रवनीतकौर-
कैरी ऑन जट्टा 4 - फोटो सोर्स एक्स


पञ्जाबी-चलचित्रजगतः लोकप्रियस्य हास्यचलच्चित्रशृङ्खलायाः 'कैरी ऑन जट्टा' इत्यस्य चतुर्थभागस्य 'कैरी ऑन जट्टा ४' इत्यस्य प्रदर्शनपूर्वावलोकनं प्रकाशितम्। अस्य चलचित्रस्य निर्देशनं स्मीपकाङ्गेन कृतम्, निर्माणञ्च गिप्पीग्रेवालः तथा रवनीतकौर-ग्रेवालः कृतवन्तौ। अस्मिन् चलचित्रे गिप्पीग्रेवालेन सह सरगुनमेहता मुख्यभूमिकायां दृश्यते। प्रदर्शनपूर्वावलोकनस्य प्रकाशनेन सह निर्मातृभिः चलचित्रस्य प्रदर्शनतिथिरपि उद्घोषिता।

प्रदर्शनपूर्वावलोकनम् भावपूर्णरीत्या आरभ्यते, यत्र कलाकाराः दिवङ्गतस्य विख्यातहास्यकलाकारस्य जसविन्दरभल्ला इत्यस्मै श्रद्धाञ्जलिं समर्पयन्ति। ततः अनन्तरं कथा स्वस्य परिचिते हास्यरसे प्रवर्तते। प्रदर्शनपूर्वावलोकने गुरप्रीत गुग्गी, गिप्पी ग्रेवालः, तथा बिन्नूढिल्लन् स्वस्वप्रसिद्धपात्रेषु पुनः दृश्यन्ते। कथा एकस्मात् मिथ्यावचनात् आरभते, यत् स्वप्रेमप्राप्त्यर्थं गिप्पी-ग्रेवालस्य पात्रं वदति। तदेव मिथ्यावचनं परं नानाविधानां भ्रान्तीनां हास्यजनकपरिस्थितीनां च कारणं भवति, येन मनोरञ्जनस्य स्तरः निरन्तरं वर्धते।

हास्येन, भ्रान्तिभिः, मनोरञ्जकघटनाभिश्च परिपूर्णम् एतत् प्रदर्शनपूर्वावलोकनं प्रेक्षकैः अत्यन्तं प्रशंस्यते। अस्मिन् चलच्चित्रे शृङ्खलायाः पूर्वशैली संरक्षिता अस्ति, तथैव नूतनानि हास्यतत्त्वानि अपि समावेशितानि सन्ति। 'कैरी ऑन जट्टा ४' इदं चलचित्रं जूनमासस्य २६ दिनाङ्के चलचित्रगृहेषु प्रदर्शितं भविष्यति। निर्मातारः आशां कुर्वन्ति यत् एतदपि चलचित्रं पूर्वभागवत् प्रेक्षकाणां सम्यक् मनोरञ्जनं करिष्यति।

Hindusthan Samachar / Divya Ranjan