अंताराष्ट्रिय योग दिवसे अक्षय पात्र फाउंडेशनद्वारा आयोजितं विशेषयोगसत्रम्
नव दिल्ली, 21 जूनमासः (हि.स.)। अन्ताराष्ट्रीययोगदिवसस्य अवसरे अक्षयपात्रफाउण्डेशनसंस्थया रविवासरे देहलीनगरस्य गोलमार्केटस्थितस्य केन्द्रीयपाकशालागृहस्य समीपे उद्याने विशेषयोगसत्रस्य आयोजनं कृतम्। कार्यक्रमस्य उद्देश्यम् कर्मचारिणः योगस्य प्रति जागर
अक्षय पात्र फाउंडेशन के कर्मचारी मौजूद।


नव दिल्ली, 21 जूनमासः (हि.स.)। अन्ताराष्ट्रीययोगदिवसस्य अवसरे अक्षयपात्रफाउण्डेशनसंस्थया रविवासरे देहलीनगरस्य गोलमार्केटस्थितस्य केन्द्रीयपाकशालागृहस्य समीपे उद्याने विशेषयोगसत्रस्य आयोजनं कृतम्। कार्यक्रमस्य उद्देश्यम् कर्मचारिणः योगस्य प्रति जागरूकान् कर्तुम्, स्वस्थजीवनशैल्याः प्रोत्साहनं कर्तुम् तथा शारीरिकमानसिकस्वास्थ्यस्य महत्त्वेन अवगतं कारयितुम् आसीत्।

फाउण्डेशनसंस्थया प्रदत्तानुसारं अस्मिन् योगसत्रे देहली एनसीआर क्षेत्रे सञ्चालितानां अक्षयपात्रस्य पञ्च पाकशालागृहाणां सप्तत्यधिकाः कर्मचारिणः उत्साहपूर्वकं सहभागितां कृतवन्तः। सहभागिनः सामूहिकयोगाभ्यासस्य माध्यमेन स्वास्थ्यस्य, अनुशासनस्य तथा सकारात्मकजीवनशैल्याः सन्देशं प्रदत्तवन्तः।

योगसत्रस्य सञ्चालनं योगविशेषज्ञैः गङ्गाप्रसादशर्मा, सौरभगोयल, शिवानीयादव, निशागोयल तथा मेघाश्री इत्येतैः संयुक्तरूपेण कृतम्। प्रशिक्षकैः सहभागिभ्यः विविधयोगासनानि, प्राणायामः तथा ध्यानस्य तकनीकाः अभ्यासिताः। तैः तेषां सम्यक् विधिः स्वास्थ्यलाभाश्च विस्तारतः विवृताः।

सत्रस्य समये योगविशेषज्ञैः उक्तं यत् नियमितयोगाभ्यासः न केवलं शरीरं स्वस्थम् ऊर्जस्विनं च धारयति, अपितु मानसिकतनावस्य न्यूनीकरणे, एकाग्रतायाः वृद्धौ तथा जीवने सकारात्मकदृष्टिकोणस्य विकासे अपि महत्त्वपूर्णां भूमिकां निर्वहति। तैः सहभागिनः योगं स्वदैनिकदिनचर्यायाः अङ्गरूपेण स्वीकर्तुं प्रेरिताः।

अस्य अवसरस्य समये अक्षयपात्रफाउण्डेशनस्य वरिष्ठाधिकारिणः उक्तवन्तः यत् योगः भारतस्य प्राचीना अमूल्या च धरोहरः अस्ति, या अद्य वैश्विकस्तरे स्वविशिष्टपरिचयं निर्मितवती। योगः स्वस्थजीवनशैल्याः आधारः अस्ति तथा व्यक्तेः समग्रविकासस्य प्रभावकरं माध्यमम् अपि अस्ति।

तैः उक्तं यत् फाउण्डेशनसंस्था स्वकर्मचारिणां शारीरिकस्वास्थ्यं, मानसिकशान्तिं तथा समग्रकल्याणं प्राथमिकतया पश्यति। एतस्मात् उद्देश्यात् समये समये स्वास्थ्यजागरूकता, सुदृढता तथा कल्याणसम्बद्धानां विविधकार्यक्रमाणाम् आयोजनं क्रियते, येन कर्मचारिभ्यः स्वस्थं सकारात्मकं च कार्यपर्यावरणं प्रदातुं शक्यते।

कार्यक्रमस्य समये सहभागिनः पूर्णोत्साहेन योगाभ्यासं कृतवन्तः तथा योगस्य महत्त्वम् अवगतवन्तः। सत्रस्य अन्ते सर्वे कर्मचारिणः नियमितरूपेण योगाभ्यासं कर्तुं तथा योगं स्वदिनचर्यायाः अनिवार्यमङ्गरूपेण स्वीकर्तुं सङ्कल्पं कृतवन्तः।----------

Hindusthan Samachar / Dheeraj Maithani