स्वस्थः भवितुं योगः आवश्यकः - मन्त्री
सुपौलनगरम्, २१ जूनमासः (हि.स.)। जनपदमुख्यालये स्थिते राधेश्याम-टीचर-ट्रेनिङ्-महाविद्यालये प्रचलिते अखिलभारतीय-विद्यार्थी-परिषदः उत्तरबिहार-प्रान्तस्य प्रान्त-अभ्यासवर्गे रविवासरे चतुर्थदिने अन्ताराष्ट्रिय-योगदिवसस्य अवसरे प्रातःकाले योगाभ्यासः आयोज
Mantri


Mantri


सुपौलनगरम्, २१ जूनमासः (हि.स.)। जनपदमुख्यालये स्थिते राधेश्याम-टीचर-ट्रेनिङ्-महाविद्यालये प्रचलिते अखिलभारतीय-विद्यार्थी-परिषदः उत्तरबिहार-प्रान्तस्य प्रान्त-अभ्यासवर्गे रविवासरे चतुर्थदिने अन्ताराष्ट्रिय-योगदिवसस्य अवसरे प्रातःकाले योगाभ्यासः आयोजितः।

योगाभ्यासे बिहार-राज्यसर्वकारस्य शिक्षामन्त्री मिथिलेश-तिवारी विशेषरूपेण उपस्थितः आसीत्। योगाभ्यासानन्तरं शिक्षामन्त्री मिथिलेश-तिवारी वर्गे सहभागीभिः कार्यकर्तृभिः सह मिलित्वा तैः सह संवादम् अकरोत्।

योगाभ्यासे अभाविपस्य राष्ट्रिय-सहसङ्घटनमन्त्री गोविन्द-नायकः, राष्ट्रिय-उपाध्यक्षः आशुतोष-माण्डवी, क्षेत्रीय-सङ्घटनमन्त्री प्रदीप-शेखावतः, क्षेत्रीय-छात्राकार्यप्रमुखा डॉ.ममता-कुमारी, प्रान्ताध्यक्षः विवेकानन्द-तिवारी, प्रान्तमन्त्री पुरुषोत्तम-कुमारः तथा प्रान्त-सङ्घटनमन्त्री राकेश-मौर्यः उपस्थिताः आसन्।

मन्त्री तिवारी अवदत् यत् स्वस्थः भवितुं योगः अत्यावश्यकः

ज्ञातव्यं यत् अखिलभारतीय-विद्यार्थी-परिषदः १८ जूनतः २१ जूनपर्यन्तं सुपौल-नगरे प्रान्त-अभ्यासवर्गम् आयोजयति।

रविवासरे वर्गस्य अन्तिमदिने अन्ताराष्ट्रिय-योगदिवसस्य अवसरे योगाभ्यासः सम्पन्नः।

Hindusthan Samachar / Divya Ranjan