वैश्विकानिश्चिततासु अपि एप्रिलमासात् जूनमासस्य १४ दिनाङ्कपर्यन्तं निर्याते १५ प्रतिशतवृद्धिः - गोयलः
नवदेहली, २१ जूनमास: (हि.स.)। केन्द्रीयवाणिज्य-उद्योगमन्त्री पीयूषगोयलः रविवासरे अवदत् यत् वैश्विकार्थिका-निश्चिततानाम् उपस्थितावपि चलितवित्तवर्षे २०२६–२७ तमे वर्षे एप्रिलमासात् जूनमासस्य १४ दिनाङ्कपर्यन्तं भारतस्य वस्तुनिर्याते प्रायः १५ प्रतिशतवृद
मुंबई में योग दिवस के अवसर पर ‘चार्टर्ड अकाउंटेंट्स’ के साथ संवाद करते पीयूष्ज्ञ गोयल


नवदेहली, २१ जूनमास: (हि.स.)। केन्द्रीयवाणिज्य-उद्योगमन्त्री पीयूषगोयलः रविवासरे अवदत् यत् वैश्विकार्थिका-निश्चिततानाम् उपस्थितावपि चलितवित्तवर्षे २०२६–२७ तमे वर्षे एप्रिलमासात् जूनमासस्य १४ दिनाङ्कपर्यन्तं भारतस्य वस्तुनिर्याते प्रायः १५ प्रतिशतवृद्धिः अभिलेखिता अस्ति। मेमासे भारतस्य निर्यातः १८ प्रतिशतं वर्धित्वा ४५.२ अर्बुद-अमेरिकी-डॉलर-परिमाणं प्राप्तवान्, यत् षण्मासेषु सर्वोच्चस्तरः अस्ति।

मुंबईनगरे योगदिवसस्य अवसरे सम्पन्ने ‘चार्टर्ड-अकाउण्टेण्ट’-जनैः सह आयोजितसंवादे केन्द्रीयवाणिज्य-उद्योगमन्त्री एतद् उक्तवान्। सः अवदत् यत् अमेरिकादेशेन ५० प्रतिशतं शुल्कं आरोपितम् अपि सति गतवित्तवर्षे २०२५–२६ तमे वर्षे भारतस्य निर्याते सुदृढा वृद्धिः अभवत्। यदि एप्रिल-मेमासयोः पूर्णमासद्वयं तथा जूनमासस्य प्रथमेषु १४ दिनेषु उपलब्धान् विवरणान् परीक्षामहे, तर्हि निर्याते १५ प्रतिशतवृद्धिः दृश्यते। अस्मिन्नेव अवधौ व्यापारहानि: अपि वर्धित्वा २८.२१ अर्बुद-अमेरिकी-डॉलर-परिमाणः अभवत्। स्वसम्बोधने गोयलः ‘चार्टर्ड-अकाउण्टेण्ट्’-जनान् विकसितभारतस्य निर्माणे सक्रिययोगदानं दातुम् आहूतवान्।

केन्द्रीयवाणिज्य-उद्योगमन्त्री पीयूषगोयलः अवदत् यत् भारतस्य तथा सप्तविंशतिसदस्यात्मकस्य यूरोपीयसङ्घस्य मध्ये मुक्तव्यापारसन्धे: विषये अस्य वर्षस्य दिसम्बरमासपर्यन्तं हस्ताक्षराणि भविष्यन्ति, ततः परवर्षस्य फेब्रुवरी–मार्चमासयोः मध्ये तस्य कार्यान्वयनस्य सम्भावना वर्तते। अस्य वर्षस्य जनवरीमासस्य २७ दिनाङ्के भारतः यूरोपीयसङ्घश्च वार्तानां समापनस्य घोषणां कृतवन्तौ।

वाणिज्यमन्त्रालयेन जूनमासस्य निर्यात-आयातसम्बद्धाः आधिकारिकणि विवरणानि जुलाईमासस्य १५ दिनाङ्के प्रकाशितानि भविष्यन्ति। मन्त्रालयेन प्रकाशितेषु आँकडेषु दर्शितम् अस्ति यत् २०२६–२७ वित्तवर्षस्य एप्रिल-मे-मासयोः अवधौ भारतस्य निर्यातः १६.०९ प्रतिशतं वर्धित्वा ८८.९१ अर्बुद-अमेरिकी-डॉलर-परिमाणम् अभवत्, आयातश्च १५.१४ प्रतिशतवृद्ध्या १४५.३५ अब्ज-अमेरिकी-डॉलर-परिमाणं प्राप्तवान्। अस्मिन् काले व्यापारहानि: ५६.४४ अर्बुद-अमेरिकी-डॉलर-परिमाणम् अभिलेखितम्।

हिन्दुस्थान समाचार / Divya Ranjan