आर्मी पब्लिकविद्यालये फतेहगढे ब्रिगेडियर-अधिकारी परिशीलने समाचरितोऽन्ताराष्ट्रिय योग दिवसः
फर्रुखाबादम्,21जूनमासः(हि.स.)।आर्मीपब्लिकविद्यालये फतेहगढे द्वादशः अन्ताराष्ट्रिययोगदिवसः उत्साहेन उल्लासेन च आचरितः। कार्यक्रमस्य शुभारम्भः गायत्रीमन्त्रेण योगशास्त्रस्य प्रवर्तकस्य महर्षेः पतञ्जलेः योगप्रार्थनया च अभवत्। विद्यालयस्य शिक्षकः सर्व
योग करते छात्र शिक्षक व सैन्य अधिकारी


फर्रुखाबादम्,21जूनमासः(हि.स.)।आर्मीपब्लिकविद्यालये फतेहगढे द्वादशः अन्ताराष्ट्रिययोगदिवसः उत्साहेन उल्लासेन च आचरितः। कार्यक्रमस्य शुभारम्भः गायत्रीमन्त्रेण योगशास्त्रस्य प्रवर्तकस्य महर्षेः पतञ्जलेः योगप्रार्थनया च अभवत्।

विद्यालयस्य शिक्षकः सर्वेशकुमारमिश्रः अन्ताराष्ट्रिययोगदिवसस्य महत्त्वं प्रतिपादयन् अवदत् यत् अस्माकं देशस्य प्रधानमन्त्री नरेन्द्रमोदी सप्तविंशतितमे सेप्टेम्बरमासे द्विसहस्रचतुर्दशतमे वर्षे संयुक्तराष्ट्रमहासभायाः नवषष्टितमे अधिवेशने विश्वसमुदायं प्रति अन्तरराष्ट्रीययोगदिवसस्य आयोजनाय आह्वानं कृतवान्। तस्य अस्य प्रस्तावस्य समर्थनार्थं एकादशतमे डिसेम्बरमासे द्विसहस्रचतुर्दशतमे वर्षे संयुक्तराष्ट्रमहासभायाः सप्तसप्तत्यधिकशतसदस्यदेशैः एकविंशतितमः जूनमासदिवसः अन्ताराष्ट्रिययोगदिवसरूपेण अनुमोदितः। तदनन्तरं प्रतिवर्षं एकविंशतितमे जूनमासदिने सम्पूर्णविश्वे अन्ताराष्ट्रिययोगदिवसः आचर्यते। प्रथमः अन्ताराष्ट्रिययोगदिवसः एकविंशतितमे जूनमासदिने द्विसहस्रपञ्चदशतमे वर्षे विश्वस्य द्विनवताधिकशतदेशेषु आचरितः।

अस्मिन् वर्षे अन्ताराष्ट्रिययोगदिवसस्य आधिकारिकविषयः “स्वास्थ्यज्ञानविश्वशान्त्यर्थं योगः” इति आसीत्। अयं विषयः वैश्विकस्तरे स्वास्थ्यवर्धनम्, मानसिकस्पष्टता, अन्ताराष्ट्रियसद्भाववर्धनं च केन्द्रे कृत्वा निर्धारितः आसीत्।

कार्यक्रमस्य प्रारम्भे सर्वेशकुमारमिश्रेण सूर्यनमस्कारस्य अभ्यासः कारितः। तदनन्तरम् अन्ताराष्ट्रियस्तरे निर्धारिताभ्यासक्रमानुसारं सूक्ष्मव्यायामाः, विविधयोगासनानि तथा प्रणवभस्त्रिकाकपालभात्यादयः प्राणायामाः सम्यगभ्यासिताः। तेषां लाभाः अपि विस्तरेण निरूपिताः।

विद्यालयस्य वरिष्ठशिक्षकः डॉ सुनीलकुमारत्रिपाठी समागतान् योगसाधकान् सम्बोधयन् अवदत् यत् प्रमाणम्, विपर्ययः, विकल्पः, निद्रा, स्मृतिः इति पञ्च प्रमुखाः चित्तवृत्तयः सन्ति। एतासां नियन्त्रणमेव योगः कथ्यते। योगः आत्मनः परमात्मना सह संयोगस्य माध्यमम् अस्ति।

तेन अष्टाङ्गयोगस्य व्याख्या कृता। तेन उक्तं यत् अहिंसा, सत्यं, अस्तेयम्, ब्रह्मचर्यम्, अपरिग्रहः इति पञ्च यमाः सन्ति। शौचम्, सन्तोषः, तपः, स्वाध्यायः, ईश्वरप्रणिधानम् इति पञ्च नियमाः सन्ति। स्थिरसुखपूर्वकोपवेशनक्रिया आसनम्, श्वासप्रश्वासयोः नियमितीकरणक्रिया प्राणायामः, बाह्यविषयेभ्यः मनसः निवर्तनं प्रत्याहारः, एकस्मिन् लक्ष्ये मनसः केन्द्रीकरणं धारणा, तस्यैव लक्ष्यस्य निरन्तरचिन्तनं ध्यानम्, ध्यानस्य चैतन्ये विलयः समाधिः इति कथ्यते। तेन उक्तं यत् अष्टाङ्गयोगस्य माध्यमेन वयं स्वेन्द्रियाणि संयम्य शारीरिकमानसिकरूपेण स्वस्थजीवनं यापयितुं शक्नुमः।

योगसत्रस्य समापनात् पूर्वं सर्वे योगसाधकाः सम्पूर्णविश्वे प्रेम्णः, सौहार्दस्य, एकात्मतायाः, शान्तिपूर्णवातावरणस्य च स्थापनार्थं संकल्पं कृतवन्तः।

विद्यालयस्य कार्यवाहिकाप्रधानाचार्या श्रीमती एकतासाध अवदत् यत् “कर्मसु कौशलमेव योगः”। विविधाभिः योगक्रियाभिः मनः संयमितं भवति तथा च सकारात्मकविचाराणां विकासः भवति। योगः मनुष्यं तनावमुक्तं कृत्वा स्वस्थं दीर्घायुष्यमयं च जीवनं नेतुं प्रेरयति।

विद्यालयस्य अध्यक्षः ब्रिगेडियरमनीषकुमारजैनः अन्ताराष्ट्रिययोगदिवसस्य अवसरे विद्यालयस्य समस्तेभ्यः शिक्षकभ्यः, विद्यार्थिभ्यः, विद्यालयपरिवारस्य सदस्येभ्यश्च हार्दिकशुभकामनाः प्रेषितवान् तथा च सर्वान् योगं स्वदैनिकजीवनस्य अभिन्नाङ्गत्वेन स्वीकर्तुम् आहूतवान्। तेन उक्तं यत् नियमितयोगाभ्यासः न केवलं शारीरिकमानसिकस्वास्थ्यं सुदृढं करोति, अपितु अनुशासितसन्तुलितसकारात्मकजीवनशैलीस्वीकरणाय अपि प्रेरयति।

सत्रस्य समापनं विश्वस्य समस्तप्राणिनां कल्याणस्य, सुखस्य, निरोगजीवनस्य च कामनया शान्तिपाठेन सह कृतम्।

अस्मिन्नवसरे विद्यालयस्य शिक्षकाः, राष्ट्रियकैडेटकोरदलस्य कैडेटासैनिकाः तथा विद्यालयपरिवारस्य अन्ये सदस्याः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani