Enter your Email Address to subscribe to our newsletters



अवदत्, मे निजजीवने योगात् संगीताच्च आगतं महत्परिवर्तनम्
गुरुग्रामः, 21 जूनमासः (हि.स.)।
अन्तरराष्ट्रीययोगदिवसस्य विश्वसङ्गीतदिवसस्य च अवसरे सेक्टरचतुरशीतिस्थिते ऐलानमिरेकलमॉले चलचित्राभिनेत्री एलनाजनौरोजी सामान्यजनानां मध्ये योगाभ्यासं कृतवती।
सूर्यनमस्कारं सहित्य अनेकाः योगक्रियाः कृत्वा तया स्वास्थ्यसुदृढतायाः सन्देशः प्रदत्तः। तया उक्तं यत् योगेन सङ्गीतेन च तस्याः व्यक्तिगतजीवने महान् परिवर्तनम् आगतम्। सर्वे जनाः योगं सङ्गीतं च स्वजीवनस्य अङ्गत्वेन स्वीकुर्युः।
गीतकारेण जुबिन्नौटियालेन सह स्वस्य हिन्दीगायनक्षेत्रे प्रथमप्रवेशरूपेण “हुआ” इति गीतस्य माध्यमेन सङ्गीतजगति नूतनयात्राम् आरभमाणा एलनाज अवदत् यत् योगात् मनःशान्तिः प्राप्यते। योगः सङ्गीतं च उभे अपि शान्तिप्रदायिन्यौ विद्ये स्तः। तया उक्तं यत् उभयोः कृते आवश्यकं यत् वयं सर्वे किञ्चित्कालं विश्रामं कुर्याम, वर्तमानक्षणे स्थिताः स्याम तथा च स्वस्य अन्तर्गम्भीरतया सह सम्बद्धाः भवेम।
तया उक्तं यत् कलाकारत्वेन तस्याः जीवनं प्रायः यात्राभिः, प्रदर्शनकार्यक्रमैः, निरन्तरव्यग्रतया च परिपूर्णं भवति। अतः योगः जीवने सन्तुलनस्थापने साहाय्यं करोति। सङ्गीतं ताः भावनाः व्यक्तीकर्तुं साहाय्यं करोति, याः कदाचित् शब्दैः व्यक्तुं न शक्यन्ते।
तया अग्रे उक्तं यत् द्विसहस्रषड्विंशतितमं वर्षं तस्यै अतीव विशेषम् अस्ति। सा अन्ताराष्ट्रिययोगदिवसं आचरति तथा च जुबिन्नौटियालेन सह स्वस्य हिन्दीगायनक्षेत्रे प्रथमप्रवेशरूपेण “हुआ” इति गीतस्य माध्यमेन सङ्गीतजगति रोमहर्षकां नूतनयात्राम् अपि आरभते।
एलनाज अवदत् यत् योगवत् सङ्गीते अपि जनानां मनःशान्तिं दातुं, तेषां उत्साहं वर्धयितुं, तान् एकत्र आनयितुं च सामर्थ्यम् अस्ति। गुरुग्रामनगरे आयोजितस्य योगकार्यक्रमस्य अङ्गत्वेन सहभागित्वा सा अतीव प्रसन्ना अस्ति।
तस्याः आशा अस्ति यत् प्रत्येकः जनः किमपि एतादृशं साधनं प्राप्नुयात्, तत् योगः भवेत्, सङ्गीतं भवेत् अथवा अन्यत् किमपि, येन तस्मै आनन्दः, स्थैर्यम्, आन्तरिकशान्तिः च प्राप्येत।
ज्ञातव्यं यत् एषा अभिनेत्री नेटफ्लिक्सस्य “सेक्रेडगेम्स” इति धारावाहिके जोयामिर्जा इति पात्रस्य उत्कृष्टाभिनयेन विशेषख्यातिं प्राप्तवती।
---------------
Hindusthan Samachar / Dheeraj Maithani