Enter your Email Address to subscribe to our newsletters

गुवाहाटीनगरम्, २१ जूनमास: (हि.स.)। देशस्य अन्येषु भागेषु समग्रेऽसमराज्ये तथा गुवाहाट्यां द्वादशे अन्ताराष्ट्रिय-योग-दिवसस्य अवसरे विविधेषु स्थानेषु योगसत्राणाम् आयोजनं कृतम्। असम-सर्वकारस्य मन्त्रिणः, प्रमुख-व्यक्तित्वानि च योगसत्रेषु सहभागित्वेन जनान् स्वस्थ-मनसः, स्वस्थ-शरीरस्य तथा स्वस्थ-समाजस्य सन्देशं दत्तवन्तः।
अस्याः श्रृङ्खलायाः अन्तर्गतं गुवाहाट्याः उज़ान-विपण-क्षेत्रे ब्रह्मपुत्र-नद्याः तीरे द्वादश-अन्ताराष्ट्रिय-योग-दिवस-समारोहः समायोजितः। अस्मिन् कार्यक्रमे असमराज्यस्य मुख्यमन्त्री डॉ.हिमन्त-बिस्व-सरमा तथा केन्द्रीय-वित्तमन्त्री निर्मला-सीतारमण: सहभागित्वेन योगाभ्यासम् अकुरुताम्। अस्मिन् अवसरे बहुसंख्याकाः जनाः योगाभ्यासं कुर्वन्तः दृष्टाः। मुख्यमन्त्री तथा केन्द्रीयमन्त्री आरोग्यस्य, सौहार्दस्य च भावनया स्वदिवसस्य शुभारम्भम् अकुरुताम्।
मुख्यमन्त्री स्वस्य आधिकारिक-फेसबुक-पृष्ठे प्रकाशितसन्देशे अवदत् यत् योगसाधना मानवस्य शरीरस्य, मनसः तथा आत्मनः मध्ये सुन्दरं समन्वयं स्थापयति। अद्यतन-व्यस्त-जीवने स्वस्थ-सन्तुलित-जीवनशैल्याः निर्माणे योगस्य भूमिका अत्यन्तम् अद्वितीया वर्तते।
ते पुनरुक्तवन्तः यत् अन्ताराष्ट्रिय-योग-दिवसस्य अस्मिन् शुभावसरे वयं सर्वे योगं स्वदैनिकजीवनस्य अविभाज्यमङ्गत्वेन स्वीकृत्य स्वस्थं, सुदृढं, सकारात्मकं च समाजं निर्मातुं सङ्कल्पं कुर्मः।
अन्ते मुख्यमन्त्री सर्वेभ्यः अन्ताराष्ट्रिय-योग-दिवसस्य हार्दिक्य: शुभकामनाः प्रेषितवान्।
Hindusthan Samachar / Divya Ranjan