Enter your Email Address to subscribe to our newsletters


चण्डीगढम्, २१ जूनमास: (हि.स.)। हरियाणा-राज्यस्य मुख्यमन्त्री नायबसैनी द्वादश-अन्तर्राष्ट्रीय-योग-दिवसस्य अवसरः पञ्चकूलायां आयोजिते राज्यस्तरीये कार्यक्रमे देश-विदेशेभ्यः आगतान् योगसाधकान् तथा प्रदेशवासिनः सम्बोधयन् अवदत् यत् अस्मिन् शैक्षणिक-सत्रे अष्टम-कक्षायाः पाठ्यक्रमे योगशिक्षा पूर्वमेव समावेशिता अस्ति।
आगामि-शैक्षणिक-सत्रात् तृतीय-कक्षातः नवम-कक्षापर्यन्तं योगशिक्षा पाठ्यक्रमस्य अनिवार्याङ्गत्वेन प्रवर्तिता भविष्यति। अनेन विद्यार्थिनां शारीरिक-मानसिक-भावनात्मक-विकासः संवर्धितः भविष्यति।
सः अवदत् यत् प्रदेशस्य सर्वेषु विद्यालयेषु योगस्य योगशिक्षायाश्च नियमित-प्रोत्साहनार्थं सर्वे पीटीआई-, डीपीई-, पीजीटी- तथा चयनिताः पीआरटी-शिक्षकाः योगासनस्य विशेष-प्रशिक्षणं प्राप्स्यन्ति, येन प्रत्येकविद्यालये विद्यार्थिभ्यः नियमितरूपेण योगाभ्यासः कारयितुं शक्येत।
पञ्चकूलायां आयोजिते राज्यस्तरीये अन्ताराष्ट्रिय-योग-दिवस-समारोहे अफगानिस्तान, बाङ्ग्लादेश, भूटान, नेपाल, गाम्बिया, इराक, लेसोथो, मेडागास्कर, दक्षिण-सूडान, तान्जानिया, युगाण्डा, जिम्बाब्वे इत्यादयः षोडश-देशेभ्यः आगताः योगसाधकाः सहभागिनः अभवन्। तदतिरिक्तम् आईटीबीपी, सीआरपीएफ तथा हरियाणा-पुलिस-दलस्य सैनिका: अपि योगकार्यक्रमे भागम् अगृह्णन्।
मुख्यमन्त्री नायबसैनी उद्घोषितवान् यत् हरियाणा-कर्मचारी-चयन-आयोगेन तथा हरियाणा-लोक-सेवा-आयोगेन आयोजितासु सर्वासु परीक्षासु योगसम्बद्धाः केचन प्रश्नाः अनिवार्यरूपेण समावेशिताः भविष्यन्ति। एतदर्थं परीक्षा-नीतौ आवश्यकाः संशोधनाः करिष्यन्ते। सः मोरनी-क्षेत्रे प्राकृतिक-चिकित्सायाः योगस्य च क्षेत्रे कार्यरतस्य राज्यस्तरीय-संस्थानस्य स्थापनामपि उद्घोषितवान्। अस्मिन् संस्थाने प्राकृतिक-चिकित्सा-योगयोः सम्बन्धिनः स्नातक-स्तरीय-पाठ्यक्रमाः सञ्चालिताः भविष्यन्ति।
सः पुनरवदत् यत् प्रदेशस्य विविध-विश्वविद्यालयेषु स्थाप्यमानेषु पञ्चसु सेन्टर-ऑफ-एक्सेलेन्स-केन्द्रेषु योगः प्रमुखाङ्गत्वेन समावेशितः भविष्यति। अनेन योगशिक्षा, प्रशिक्षणम्, अनुसन्धानम् तथा नवाचारः प्रोत्साहनं प्राप्स्यन्ति। उच्चतर-शिक्षा-विभागस्य सर्वेषां क्रीडा-विभागानां नाम परिवर्तनं कृत्वा क्रीडा-योग-विभागः इति नाम प्रदास्यते, येन योगाय संस्थागत-स्तरे उचितं स्थानं मान्यता च लप्स्यते।
मुख्यमन्त्री अवदत् यत् राज्यस्य क्रीडा-नीतौ योगासनं क्रीडाविद्यारूपेण समावेशितं भविष्यति। एतदर्थम् आवश्यकाः संशोधनाः विधास्यन्ते। योगपाठ्यक्रमे आयुर्वेदस्य केचन अंशाः अपि समावेश्यन्ते। पूर्वं स्वीकृतानां आयुष-योग-प्रशिक्षकाणां रिक्तपदेषु शीघ्रमेव नियुक्तयः करिष्यन्ते।
एतस्मात् पूर्वं हरियाणा-राज्यस्य स्वास्थ्य-आयुष-मन्त्री आरतीसिंहराव: अवदत् यत् योगः अधुना वैश्विक-उत्सवरूपं प्राप्तवान्। प्रधानमन्त्रिणः दूरदर्शिन्या प्रेरणया योगः जनान्दोलनरूपेण विकसितः। तया उक्तं यत् आयुष-विभागस्य पक्षतः संजीवनी-योग-कार्यक्रमस्य तथा वृद्ध-सेवा-स्वास्थ्य-पटलस्य अनावरणम् अपि कृतम्। अस्मिन् अवसरे स्वास्थ्य-विभागस्य अतिरिक्त-मुख्य-सचिवा सुमिता-मिश्रा, आयुष-विभागस्य महानिदेशकः संजीव-वर्मा, मुख्यमन्त्रिणः राजनैतिक-सचिवः तरुण-भण्डारी तथा अन्ये बहवः गणमान्याः उपस्थिताः आसन्।
मुख्यमन्त्री अन्ते अवदत् यत् हरियाणा-सर्वकारेण राज्यगीतं विधानसभायाः अनुमोदनं प्राप्तम् अस्ति तथा तत् अधुना शासकीय-कार्यक्रमेषु गीयते। अधुना तत् विद्यालयेषु प्रार्थना-सभासु अपि सामूहिकरूपेण गापयिष्यते, येन विद्यार्थिषु राज्यगौरवस्य, अनुशासनस्य तथा राष्ट्रिय-चेतनायाः संवर्धनं भविष्यति।
Hindusthan Samachar / Divya Ranjan