Enter your Email Address to subscribe to our newsletters

- 'ट्राई-कमीशनिंग'द्वारा भारतस्य युद्धपोत निर्माणम् क्षमतासु वृद्धिर्भविष्यति : नौसेना प्रमुखः
नव दिल्ली, 21 जूनमासः (हि.स.)। भारतस्य सामुद्रिकव्यूहे रविवासरे एकस्मिन् एव काले त्रयाणां पोतानां समावेशनं महती उपलब्धिः अस्ति। एतेन भारतीयनौसेनायाः सामुद्रिकशक्तिः अपि वर्धिता अस्ति। एतेषु एकः पोतः गभीरसमुद्रे तटीयप्रदेशेषु च हाइड्रोग्राफिकसर्वेक्षणार्थं विशेषतया विनिर्मितः अस्ति, येन अधुना अन्वेषणरक्षणकार्येषु अधिका त्वरिता सम्भविष्यति। घातुकब्रह्मोसप्रक्षेपास्त्रैः, टॉरपीडो इत्येभिः तथा राडारपरिहारसमर्थाभिः उन्नतप्रौद्योगिकीभिः सुसज्जितस्य आईएनएस दूनागिरि इत्यस्य समावेशेन नौसेनायाः युद्धक्षमता वर्धिष्यते। नौसेनायां समाविष्टः आईएनएस अग्रयः पनडुब्बीरोधी युद्धपोतः अस्ति, येन जले एव शत्रोः जलांतर्गामिन्याः विनाशक्षमता वर्धिता भविष्यति।
पश्चिमबङ्गराज्यस्य कोलकातानगरे स्थिते श्यामाप्रसादमुखर्जीपटले प्रधानमन्त्री नरेन्द्रमोदी रविवासरे त्रयः अत्याधुनिकाः स्वदेशिनः पोताः आईएनएस अग्रयः, आईएनएस दूनागिरिः तथा आईएनएस संशोधकः राष्ट्राय समर्पितवान्। एतेषां त्रयाणां पोतानां नौसेनायां औपचारिकसमावेशनं नूनं भारतस्य वर्धमानायाः सामुद्रिकशक्तेः प्रमाणम् अस्ति। एते त्रयः अपि पोताः भारते स्वदेशीयसामग्रीभिः निर्मिताः सन्ति। एतेन हिन्दमहासागरक्षेत्रे भारतस्य सामुद्रिकनिरीक्षणसुरक्षानुसन्धानक्षमतासु महान् दृढीभावः भविष्यति।
आईएनएस संशोधकः भारतीयनौसेनायाः अत्याधुनिकः स्वदेशीयः सर्वेक्षणपोतः अस्ति। अयं संधायकश्रेण्याः सर्वेक्षणपोतानां चतुर्थः अन्तिमः च पोतः अस्ति, यः विशेषतः गभीरसमुद्रे तटीयप्रदेशेषु च हाइड्रोग्राफिकसर्वेक्षणार्थं अभिकल्पितः अस्ति। अस्य निर्माणं कोलकातास्थिते गार्डन रीच शिपबिल्डर्स एण्ड इंजीनियर्स इत्यत्र कृतम् अस्ति तथा च अस्मिन् पञ्चसप्ततिप्रतिशताधिकस्वदेशीयसामग्रीणां उपयोगः कृतः अस्ति। अयं पोतः उन्नतसर्वेक्षणोपकरणैः सुसज्जितः अस्ति, येषु डिजिटल साइड स्कैन सोनार तथा स्वायत्ताः जलाधोयानाः अपि समाविष्टाः सन्ति। अस्य पोतस्य भारः प्रायः ३४०० टनपरिमितः अस्ति। सर्वेक्षणकार्येभ्यः अतिरिक्तम् अयं पोतः संकटसमये अन्वेषणरक्षणकार्येषु साहाय्यं कर्तुं तथा नौसेनायै महत्त्वपूर्णं समुद्रतटीयदत्तांशं सङ्ग्रहीतुं समर्थः अस्ति। अयं पोतः हिन्दमहासागरक्षेत्रे भारतस्य सामुद्रिकनिरीक्षणसुरक्षानुसन्धानक्षमताभ्यः महतीं दृढतां प्रदास्यति।
आईएनएस दूनागिरिः भारतीयनौसेनायाः प्रोजेक्ट १७ए अन्तर्गतस्य नीलगिरिश्रेण्याः पञ्चमः स्टील्थ फ्रिगेट युद्धपोतः अस्ति। अयं घातुकब्रह्मोसप्रक्षेपास्त्रैः, टॉरपीडोभिः तथा राडारपरिहारसमर्थाभिः उन्नतप्रौद्योगिकीभिः सुसज्जितः अस्ति। अस्य अभिकल्पना निर्माणं च कोलकातास्थितेन गार्डन रीच शिपबिल्डर्स एण्ड इंजीनियर्स लिमिटेड इत्यनेन कृतम्। अस्य निर्माणे प्रायः पञ्चसप्ततिप्रतिशतस्वदेशीयोपकरणसामग्रीणां उपयोगः कृतः अस्ति। अस्य नाम उत्तराखण्डस्थितायाः हिमालयपर्वतमालायाः दूनागिरि इति पर्वतशिखरस्य नाम्ना स्थापितम् अस्ति। अयं मूलस्य आईएनएस दूनागिरि इत्यस्य पुनर्जन्मरूपः अस्ति, यः १९७७ तः २०१० पर्यन्तं त्रयस्त्रिंशद्वर्षाणि यावत् नौसेनायाः सेवां कृतवान्। अयं पोतः वायौ, समुद्रे, जलान्तरे च विद्यमानं किमपि संकटं प्रतियोद्धुं समर्थः अस्ति। अयं मध्यमदूरवर्तिन्या भूमितः वायुम् प्रति प्रक्षेप्यमाणया प्रक्षेपास्त्रप्रणाल्या तथा पनडुब्बीरोधिरॉकेटैः अपि सुसज्जितः अस्ति।
आईएनएस अग्रयः भारतीयनौसेनायाः अत्याधुनिकः स्वदेशीयः पनडुब्बीरोधी युद्धपोतः अस्ति। अस्य निर्माणम् अपि कोलकातास्थिते गार्डन रीच शिपबिल्डर्स एण्ड इंजीनियर्स इत्यत्र अशीतिप्रतिशताधिकस्वदेशीयसामग्रीणां उपयोगेन कृतम् अस्ति। अयं उथलेषु अल्पगभीरजलेषु शत्रोः पनडुब्बीनां अन्वेषणविनाशार्थं विशेषतया अभिकल्पितः अस्ति। अयं पोतः प्रायः सप्तसप्ततिमीटरदीर्घः अस्ति तथा च जलवेगप्रणाल्या सञ्चालितः अस्ति, या तटीयप्रदेशेषु असाधारणगतिं गतिशीलतां च प्रददाति। अयं अत्याधुनिकैः लघुटॉरपीडोभिः, स्वदेशीयरॉकेटप्रक्षेपकैः तथा उथलजलसोनारेण सुसज्जितः अस्ति। अस्य सञ्चालनार्थं प्रायः सप्तपञ्चाशत्सदस्यात्मकं दलम् आवश्यकं भवति, यस्मिन् सप्त अधिकारिणः पञ्चाशत् नाविकाः च सन्ति। अस्य युद्धपोतस्य नाम १९९१ तमे वर्षे सेवायां प्रविष्टस्य तथा २०१७ तमे वर्षे सेवातः निवृत्तस्य अभयश्रेण्याः गश्तीपोतस्य परम्परां प्रवर्धयितुं स्थापितम् अस्ति।
अस्मिन् अवसरे नौसेनाप्रमुखः एडमिरल कृष्णस्वामीनाथन उक्तवान् यत्, अद्य एकस्मिन् एव काले त्रयाणां पोतानां कमीशनसमारोहस्य अस्याः उपलब्धेः निमित्तं समर्पितां सम्पूर्णां टीमं हृदयतः अभिनन्दामि। उद्योगसहभागिनः एमएसएमई संस्थाश्च अपि धन्यवादस्य पात्राः सन्ति, येषां सहयोगेन एषा सफलता सम्भविता। नेवल हेडक्वार्टर, कमाण्ड हेडक्वार्टर, युद्धपोतदलानि तथा परीक्षणसंस्थाः अपि एतेषां त्रयाणां पोतानां निर्माणे आदितः एव कृतपरिश्रमसमर्पणयोः कृते अभिनन्दनीयाः सन्ति। गतवर्षे मुम्बईनगरे स्वातन्त्र्योत्तरभारतस्य प्रथमात् ट्राई कमीशनिङ्ग समारोहात् सप्तदशमासानन्तरम् अद्य कोलकातायां सम्पन्ना द्वितीया ट्राई कमीशनिङ्ग भारतस्य युद्धपोतनिर्माणक्षमतासु आधुनिकीकरणस्य, आत्मनिर्भरतायाः तथा आत्मविश्वासस्य नवगत्यै प्रेरणां दास्यति, यतः एतेषां त्रयाणां परियोजनानां माध्यमेन अनेकानि नवीनानि मीलस्तम्भानि अपि स्थापितानि सन्ति।
----------------------------
Hindusthan Samachar / Dheeraj Maithani