Enter your Email Address to subscribe to our newsletters

नवदेहली, जून-मासस्य २१ दिनाङ्कः। द्वादशः अन्ताराष्ट्रिययोगदिवसः समग्रे भारते महता उत्साहेन उल्लासेन च आचरितः। अस्मिन् अवसरे राजनैतिक-सामाजिक-नेतृत्वं योगस्य महत्त्वस्य सन्देशं एकस्वरेण प्रादर्शयत्। राष्ट्रपतिः द्रौपदीमुर्मुः, केन्द्रीयगृहमन्त्री अमितशाहः, रक्षामन्त्री राजनाथसिंहः इत्येतै: सह बहवः वरिष्ठनेतारः योगं स्वस्थशरीरस्य, शान्तमनसः सशक्तराष्ट्रनिर्माणस्य च प्रभावी-साधनमिति अवदन्।
मध्यप्रदेशस्य जबलपुरे सदर-गैरिसन-प्रांगणे आयोजिते कार्यक्रमे राष्ट्रपतिः द्रौपदी मुर्मुः अवदत् यत् योगः स्वस्थव्यक्तेः, स्वस्थपरिवारस्य, स्वस्थसमाजस्य, स्वस्थराष्ट्रस्य स्वस्थविश्वस्य च निर्माणस्य आधारः अस्ति। सा सर्वान् नागरिकान् स्वदैनिकजीवने योगस्य समावेशं कर्तुं सङ्कल्पं ग्रहीतुं प्रार्थितवती।
अहमदाबादे आयोजिते योगकार्यक्रमे केन्द्रीयगृहमन्त्री अमितशाहः अवदत् यत् योगः मानवतायै भारतस्य अमूल्यः उपहारः अस्ति, यः मनसः, शरीरस्य, आत्मनश्च समग्रकल्याणं वर्धयति। सः स्वस्थस्य, सशक्तस्य, सन्तुलितजीवनस्य च कृते योगम् अपनयितुं सर्वान् आहूतवान्।
पञ्जाबस्य जालन्धरे आयोजिते कार्यक्रमे भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः अवदत् यत् योगः भारतीयर्षिभिः विश्वाय प्रदत्तम् अमूल्यम् उपहारम् अस्ति, यः शारीरिक-मानसिकसन्तुलनेन सह आत्मिक-शान्तिमपि प्रददाति। सः “स्वस्थभारतं सशक्तभारतञ्च” इति सङ्कल्पेन योगं जीवनस्य अविभाज्यमङ्गं कर्तुम् आहूतवान्।
केन्द्रीयसड़क-परिवहन-राजमार्गमन्त्री नितिनगडकरी अवदत् यत् योगः भारतस्य प्राचीना परम्परा अस्ति, या अद्य सम्पूर्णविश्वे स्वीयं विशिष्टं परिचयं प्राप्तवती। सः अवदत् यत् योगः सन्तुलनस्य, स्वास्थ्यस्य, आन्तरिकशान्तेश्च माध्यमम् अस्ति।
मेघालयस्य शिलाङ्ग-नगरे स्थिते ईस्टर्न-एयर-कमाण्ड्-केन्द्रे आयोजिते कार्यक्रमे रक्षामन्त्री राजनाथसिंहः अवदत् यत् योगः केवलं स्वस्थशरीरस्य आधारः न, अपितु सन्तुलित-संयमितजीवनस्य मार्गोऽपि अस्ति।
नवदेहल्याः शान्तिपथे आयोजिते योगसत्रे केन्द्रीयस्वास्थ्य-परिवारकल्याणमन्त्री जेपी नड्डा अवदत् यत् योगस्य अर्थः ‘योजनम्’ अथवा ‘संयोगः’ इति। अयं शरीरस्य, मनसः, आत्मनः परमात्मनश्च मध्ये सामञ्जस्यं स्थापयति; केवलं शारीरिकव्यायामः एव नास्ति।विदेशमन्त्री एस.जयशङ्करः सर्वेषां उत्तमस्वास्थ्यं, दीर्घायुः, निरन्तरसफलतां च कामितवान्।
केन्द्रीयकृषि-किसानकल्याणमन्त्री शिवराजसिंहचौहानः अवदत् यत् योगः शरीरस्य, मनसः, आत्मनश्च सन्तुलनस्य सशक्तं साधनम् अस्ति, यत् सकारात्मकं स्वस्थं च जीवनं प्रति प्रेरयति।केन्द्रीयायुषमन्त्री प्रतापरावजाधवः अवदत् यत् सर्वैः आयुवर्गैः निरोगिणः, ऊर्जस्विनः, सक्रियजीवनस्य कृते योगः स्वजीवनशैल्याः अविभाज्यमङ्गत्वेन स्वीकर्तव्यः।
पर्यावरण-वन-जलवायुपरिवर्तनमन्त्री भूपेन्द्रयादवः अवदत् यत् योगः स्वात्मनः समष्टिं प्रति यात्रास्ति तथा स्वस्थजीवनस्य आधारः अस्ति।
नवदेहल्याः दक्षिणपरिसरे आयोजिते कार्यक्रमे केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः अवदत् यत् योगः शरीरस्य, मनसः, आत्मनश्च सामञ्जस्यस्य माध्यमम् अस्ति, यत् उत्तमं स्वस्थं च जीवनं प्रति सर्वान् प्रेरयति।
Hindusthan Samachar / Divya Ranjan