स्वस्थ नागरिकः दृढलोकतंत्रस्य सर्वतो महान्यासः : ओम बिरला
- कथितं तेन, योगः एक दिनस्य उत्सवो न, 365 दिनानां संकल्पःभवेत् नवदिल्ली, 21 जूनमासः (हि.स)। लोकसभाध्यक्षः ओम बिरला रविवासरे अन्तरराष्ट्रीययोगदिवसस्य अवसर उपलक्ष्ये संसदभवनपरिसरे सांसदैः सह योगाभ्यासं कृतवान्। अस्मिन् अवसरे सर्वेभ्यः शुभकामनाः प
12वें अंतरराष्ट्रीय योग दिवस पर संसद भवन परिसर में सांसदों के साथ योगाभ्यास करते लोक सभा अध्यक्ष


12वें अंतरराष्ट्रीय योग दिवस पर संसद भवन परिसर में सांसदों के साथ योगाभ्यास करते लोक सभा अध्यक्ष


- कथितं तेन, योगः एक दिनस्य उत्सवो न, 365 दिनानां संकल्पःभवेत्

नवदिल्ली, 21 जूनमासः (हि.स)।

लोकसभाध्यक्षः ओम बिरला रविवासरे अन्तरराष्ट्रीययोगदिवसस्य अवसर उपलक्ष्ये संसदभवनपरिसरे सांसदैः सह योगाभ्यासं कृतवान्। अस्मिन् अवसरे सर्वेभ्यः शुभकामनाः प्रददत् सः उक्तवान् यत् स्वस्थाः नागरिकाः एव सुदृढलोकतन्त्रस्य महत्तमा सम्पत्तिः सन्ति। संसदि मतभेदाः स्वाभाविकाः भवन्ति, किन्तु योगः अस्मभ्यं संवादस्य संयमस्य च मार्गं दर्शयति।

सः सर्वेभ्यः योगदिवसस्य शुभकामनाः प्रददत् उक्तवान् यत् अयं दिवसः भारतस्य तस्याः शाश्वतायाः सभ्यतागतविरासतायाः उत्सवः अस्ति, या मानवतायै स्वास्थ्यस्य, सन्तुलनस्य, आन्तरिकशान्तेः च मार्गं प्रदत्तवती। सः उक्तवान् यत् योगः केवलं शरीरमेव न, अपितु विचारानपि सन्तुलयति। लोकसभाध्यक्षः उक्तवान् यत् योगः मानसिकशान्तेः, धैर्यस्य तथा भावनात्मकसन्तुलनस्य संरक्षणार्थं सशक्तं माध्यमम् अस्ति। लोकसभाध्यक्षः उक्तवान् यत् योगः भारतस्य सौम्यशक्तिः न, अपितु मानवतायै भारतस्य उत्तरदायित्वम् अस्ति। सः उक्तवान् यत् लोकतन्त्राय संवादः आवश्यकः, संवादाय मनसः सन्तुलनम् आवश्यकम्, योगः एतदेव शिक्षयति।

योगस्य महत्त्वे प्रकाशं क्षिपन् बिरला उक्तवान् यत् भारतस्य ऋषिमनीषिणः शताब्दीपर्यन्तं योगपरम्परायाः संरक्षणार्थं प्रयत्नान् अकुर्वन् तथा च तां जीवनयापनस्य पद्धतिरूपेण प्रतिष्ठापितवन्तः। अस्य उद्देश्यं शारीरिकस्वास्थ्यस्य, मानसिकशान्तेः तथा मानवचेतनायाः जागरणस्य च आसीत्। सः उक्तवान् यत् अद्य योगः वैश्विकं जनान्दोलनं जातम् अस्ति तथा च विश्वं तस्य स्वीकरणं करोति, किन्तु एषः भारतस्य सहस्रवर्षप्राचीनायाः ज्ञानपरम्परायाः उपहारः अस्ति।

स्वसम्बोधने समकालीनजीवने योगस्य प्रासङ्गिकतायाः विषये बलं ददत् लोकसभाध्यक्षः उक्तवान् यत् आधुनिकजीवनं तनावेन, असन्तुलनेन तथा अनिश्चितताभिः परिवेष्टितम् अस्ति। तादृशे काले योगः मानसिकशान्तेः, धैर्यस्य, भावनात्मकसन्तुलनस्य तथा अनुशासितजीवनशैल्याः संरक्षणस्य प्रभावी माध्यमम् अस्ति। सः उक्तवान् यत् एकविंशतितमे शताब्द्यां महतीनां चुनौतीनाम् एकः मानसिकतनावः अस्ति। योगः तस्य सुलभं वैज्ञानिकं समावेशात्मकं च समाधानं प्रस्तौति। अद्यतनायाः डिजिटलपीढ्याः कृते स्क्रीनकालस्य तनावस्य च मध्ये सन्तुलनस्थापनार्थं योगः जीवनशैलीरूपेण स्वीकरणीयः।

बिरला उक्तवान् यत् योगः केवलं स्वास्थ्यसंवर्धनकार्यक्रमः न, अपितु व्यक्तित्वस्य, चरित्रस्य तथा चेतनायाः विकासस्य माध्यमम् अस्ति। दैनिकजीवने योगस्य स्वीकरणेन व्यक्तिः अधिकसन्तुलितः भवति तथा उत्तमनिर्णयान् कर्तुं समर्थः भवति, तस्य समग्रस्वास्थ्ये च वृद्धिः भवति। सः उक्तवान् यत् स्वस्थाः नागरिकाः एव सुदृढलोकतन्त्रस्य महत्तमा सम्पत्तिः सन्ति तथा यदि देशस्य १४० कोटि नागरिकाः प्रतिदिनं कतिपयान् निमेषान् योगार्थं समर्पयेयुः, तर्हि एषा भारतस्य महत्तमा जनस्वास्थ्यक्रान्तिः भवितुम् अर्हति।

लोकसभाध्यक्षः दृढतया उक्तवान् यत् योगस्य सन्देशः देशस्य प्रत्येकं कोनं प्रति प्रापणीयः। जनप्रतिनिधयः समाजेन सह निरन्तरं संवादं कुर्वन्ति तथा ते जनान् योगस्य स्वीकरणाय, तस्य परिवर्तनकारीशक्तेः अवगमनाय च प्रेरयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति। यथा वयं लोकतन्त्रस्य सुदृढीकरणार्थं निरन्तरं प्रयत्नं कुर्मः, तथैव योगः अपि जनजनस्य जीवनस्य अङ्गत्वेन स्थापनीयः। बिरला उक्तवान् यत् योगः भारतस्य सौम्यशक्तिः न, अपितु मानवतायै भारतस्य उत्तरदायित्वम् अस्ति। सः सर्वान् नागरिकान् आग्रहं कृतवान् यत् योगः एकदिनीयः उत्सवः न भवेत्, अपितु त्रिषष्ट्यधिकत्रिशतदिनात्मकः संकल्पः भवेत् तथा नियमितयोगाभ्यासेन स्वास्थ्यस्य, सामञ्जस्यस्य, आत्मानुशासनस्य च संस्कृतिः सुदृढीक्रियताम्।

---------------

Hindusthan Samachar / Dheeraj Maithani