एसएपीवाहिन्याम् अंताराष्ट्रिय योग दिवसस्य आयोजनं, 400तः अधिकैर्जनैः कृतो योगः
सिलीगुड़ी, 21 जूनमासः (हि. स.)। अन्ताराष्ट्रिययोगदिवसस्य अवसरे पश्चिमबङ्गालस्य सिलीगुडिसमीपस्थे डाबग्रामक्षेत्रे स्थितायां स्टेटआर्म्डपुलिसदलस्य दशमबटालियने रविवासरस्य प्रातःकाले विशेषयोगकार्यक्रमस्य आयोजनं कृतम्। प्रातः षड्वादनात् अर्धघण्टानन्तरम्
एसएपी की तरह से आयोजित योग दिवस में शामिल लोग


सिलीगुड़ी, 21 जूनमासः (हि. स.)। अन्ताराष्ट्रिययोगदिवसस्य अवसरे पश्चिमबङ्गालस्य सिलीगुडिसमीपस्थे डाबग्रामक्षेत्रे स्थितायां स्टेटआर्म्डपुलिसदलस्य दशमबटालियने रविवासरस्य प्रातःकाले विशेषयोगकार्यक्रमस्य आयोजनं कृतम्। प्रातः षड्वादनात् अर्धघण्टानन्तरम् आरब्धे अस्मिन् कार्यक्रमे प्रायः चत्वारिशताधिकत्रिशतसंख्याकाः पुलिसकर्मिणः, तेषां परिवारसदस्याः बालकाश्च उत्साहपूर्वकं सहभागित्वं कृतवन्तः।

समग्रदेशेन सह पश्चिमबङ्गाले अपि अन्ताराष्ट्रिययोगदिवसः आचरितः। अस्मिन्नवसरे कोलकातानगरे आयोजिते विशेषकार्यक्रमे प्रधानमन्त्री नरेन्द्रमोदी अपि सहभागित्वं कृतवान्। राज्यस्य विविधेषु जिल्लेषु शासकीयैः अशासकीयैश्च संस्थाभिः योगकार्यक्रमाः आयोजिताः।

डाबग्रामे आयोजितस्य कार्यक्रमस्य समये विविधयोगासनानां प्राणायामस्य च प्रदर्शनं कृतम्। प्रशिक्षकाणां मार्गदर्शने प्रतिभागिनः योगाभ्यासं कृतवन्तः तथा च शारीरिकमानसिकस्वास्थ्ययोः कृते नियमितयोगस्य महत्त्वम् अवगतम्।

स्टेटआर्म्डपुलिसदलस्य दशमबटालियनद्वारा आयोजितस्य अस्य कार्यक्रमस्य उद्देश्यं जनानां मध्ये स्वास्थ्यविषयकजागरूकतां वर्धयितुं तथा च दैनिकजीवने योगस्य स्वीकरणाय प्रेरणां दातुम् आसीत्। कार्यक्रमे वाहिन्याःवरिष्ठाधिकारिणः अपि उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani