मॉस्कोतः मैड्रिडपर्यन्तं योगस्य उल्लासः, सहस्रशः जनैः सामूहिकयोगाभ्यासः कृतः
नवदेहली, २१ जूनमास: (हि.स.)। अन्ताराष्ट्रिययोगदिवसस्य अवसरे रविवासरे विश्वस्य अनेकेषु देशेषु महता उत्साहेन व्यापकजनसहभागितया च योगकार्यक्रमाः आयोजिताः। ‘योगः स्वस्थवृद्धत्वाय’ इति विषयमाधृत्य आयोजितेषु एतेषु कार्यक्रमेषु सहस्रशः जनाः सहभागित्वा स्व
मॉस्को से मैड्रिड तक योग की धूम, हजारों लोगों ने किया सामूहिक अभ्यास


नवदेहली, २१ जूनमास: (हि.स.)। अन्ताराष्ट्रिययोगदिवसस्य अवसरे रविवासरे विश्वस्य अनेकेषु देशेषु महता उत्साहेन व्यापकजनसहभागितया च योगकार्यक्रमाः आयोजिताः। ‘योगः स्वस्थवृद्धत्वाय’ इति विषयमाधृत्य आयोजितेषु एतेषु कार्यक्रमेषु सहस्रशः जनाः सहभागित्वा स्वास्थ्यस्य, सन्तुलनस्य, मानसिकशान्तेः च सन्देशम् अददुः।

रूसदेशस्य राजधान्यां मॉस्कोनगरे भारतीयदूतावासस्य जवाहरलालनेहरु-सांस्कृतिककेन्द्रस्य तथा मॉस्कोनगर-प्रशासनस्य सहयोगेन प्रतिष्ठितायां लोमोनोसोव-मॉस्कोराजकीय-विश्वविद्यालयस्य परिसरे योगदिवस-कार्यक्रमः आयोजितः। अस्मिन्नवसरे बहुसंख्यकाः योगप्रेमिणः, सामाजिक-संस्थासम्बद्धाः जनाः, स्वास्थ्यक्षेत्रे कार्यरताश्च सहभागिनः अभवन्।

जर्मनीदेशस्य राजधान्यां बर्लिननगरे ऐतिहासिकस्य ब्राण्डेनबर्ग-द्वारस्य समीपे आयोजिते कार्यक्रमे शतशः जनाः योगाभ्यासं कृतवन्तः। प्रतिकूल-वातावरणस्य वर्षायाश्च उपस्थितावपि सहभागिनां उत्साहः न न्यूनः अभवत्। ते योगस्य माध्यमेन स्वास्थ्यस्य सामञ्जस्यस्य च सन्देशम् अददुः।

डेनमार्कदेशेऽपि विविधाभिः सामाजिकशैक्षणिकसंस्थाभिः सह योग-दिवसकार्यक्रमाः आयोजिताः। स्थानीय-प्रशासनस्य जनप्रतिनिधीनां च सहभागितया स्वस्थजीवनशैल्यां योगस्य महत्त्वं विशेषतया प्रतिपादितम्।

स्पेनदेशस्य राजधान्यां मैड्रिडनगरे राजप्रासादस्य समीपे आयोजिते कार्यक्रमे बहुसंख्यकाः जनाः सहभागिनः अभवन्। अस्मिन्नवसरे योगः वैश्विकस्तरे एकतायाः, शान्तेः, स्वस्थजीवनस्य च प्रभावी माध्यमम् इति प्रतिपादितम्। तथा हङ्गरीदेशस्य राजधान्यां बुडापेस्टनगरे आयोजिते योगकार्यक्रमे भारतीय-समुदायेन सह स्थानीयनागरिकाः अपि महता उत्साहेन सहभागीभूताः।

अस्य वर्षस्य ‘योगः स्वस्थवृद्धत्वाय’ इति विषयः विशेषतः वृद्धावस्थायां स्वास्थ्यस्य, सक्रियजीवनशैल्याः, मानसिक-सन्तुलनस्य च महत्त्वम् उद्घाटितवान्। विविधेषु देशेषु आयोजिताः कार्यक्रमाः एतत् सन्देशम् अददुः यत् योगः केवलं व्यायामः नास्ति, अपितु शारीरिक-मानसिक-आध्यात्मिकसन्तुलनस्य प्रभावी माध्यमम् अभवत्।

विश्वस्य नानादेशेषु आयोजितैः एतैः कार्यक्रमैः पुनरेकवारं सिद्धम् अभवत् यत् योगः भारतस्य प्राचीनपरम्परातः निर्गत्य वैश्विकजनान्दोलनस्य स्वरूपं प्राप्तवान् अस्ति। सः सम्प्रति मानवजातिं स्वास्थ्यस्य, शान्तेः, सौहार्दस्य च दिशि संयोजयितुं महत्त्वपूर्णां भूमिकां निर्वहति।

हिन्दुस्थान समाचार / Divya Ranjan