योगः स्वास्थस्य, सन्तुलितस्य सार्थकस्य च जीवनस्य समग्रजीवनपद्धतिः अस्ति - राज्यपालः
राँचीनगरम्, जूनमासस्य २१ दिनाङ्कः (हि.स.)। अन्ताराष्ट्रिय-योगदिवसस्य अवसरे रविवासरे राजभवनस्थिते लोकभवने बिरसा-मण्डपे सामूहिक-योगाभ्यास-कार्यक्रमस्य आयोजनम् अभवत्। झारखण्डस्य राज्यपालस्य सन्तोषकुमारगङ्गवारस्य उपस्थितौ आयोजिते अस्मिन् कार्यक्रमे लोक
राज्यपाल सहित अन्य


राज्यपाल सहित अन्य  योग करते


राज्यपाल  कार्यक्रम को संबोधित करते हुए


राँचीनगरम्, जूनमासस्य २१ दिनाङ्कः (हि.स.)। अन्ताराष्ट्रिय-योगदिवसस्य अवसरे रविवासरे राजभवनस्थिते लोकभवने बिरसा-मण्डपे सामूहिक-योगाभ्यास-कार्यक्रमस्य आयोजनम् अभवत्। झारखण्डस्य राज्यपालस्य सन्तोषकुमारगङ्गवारस्य उपस्थितौ आयोजिते अस्मिन् कार्यक्रमे लोकभवनपरिवारस्य सदस्याः, अधिकारिणः, कर्मचारीवर्गः, आमन्त्रिताः विद्यालयीय-विद्यार्थिनः इत्येतै: च सहितं २५३ जनाः उत्साहपूर्वकं सहभागिनः अभवन्। कार्यक्रमे योगस्य माध्यमेन स्वस्थजीवनशैल्याः, मानसिक-सन्तुलनस्य, सकारात्मक-जीवनमूल्यानां च स्वीकरणस्य सन्देशः प्रदत्तः।

अस्मिन् अवसरे राज्यपालः अवदत् यत् योगः सम्पूर्णविश्वाय भारतेन प्रदत्तम् अनुपमम् उपहारम् अस्ति। योगः केवलं शारीरिकव्यायामस्य साधनं न, अपितु स्वस्थस्य, सन्तुलितस्य, सार्थकस्य च जीवनस्य समग्रजीवनपद्धतिः अस्ति। योगः शरीरस्य, मनसः, आत्मनश्च मध्ये सामञ्जस्यं स्थापयित्वा मनुष्यं आत्मानुशासनस्य, सकारात्मकचिन्तनस्य, आन्तरिकशान्तेश्च मार्गे प्रेरयति।

राज्यपालः उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः दूरदर्शिनः नेतृत्वस्य निरन्तरप्रयत्नानां च परिणामस्वरूपं वर्षे २०१४ संयुक्तराष्ट्र-महासभया जूनमासस्य २१ दिनाङ्कः अन्ताराष्ट्रिय-योगदिवसरूपेण आचरितुं ऐतिहासिकः निर्णयः स्वीकृतः। एषः निर्णयः भारतस्य समृद्ध-सांस्कृतिक-परम्परायाः वैश्विक-स्वीकृतेः प्रतीकः अस्ति, मानवकल्याणे भारतस्य दृढप्रतिबद्धतां च प्रकाशयति।

तेन उक्तं यत् अधुना योगः विश्वबन्धुत्वस्य, स्वस्थजीवनशैल्याः, वैश्विककल्याणस्य च सशक्तं माध्यमं जातम्। विश्वस्य अनेकेषु देशेषु जनाः योगं स्वजीवनस्य अभिन्नमङ्गत्वेन स्वीकृतवन्तः, तस्य च सकारात्मक-परिणामान् अनुभवन्ति।

राज्यपालः स्मारितवान् यत् वर्षे २०१९ प्रधानमन्त्री नरेन्द्रमोदी राँची-नगरे आयोजिते अन्ताराष्ट्रिय-योगदिवस-कार्यक्रमे सहभागी अभवत्, अस्मिन् वर्षे च कोलकातानगरे आयोजिते राष्ट्रिय-योगकार्यक्रमे सहभागित्वम् अकरोत्।

राज्यपालः अवदत् यत् वर्तमानकाले सम्पूर्णविश्वं चिन्ताया:, अनियमित-जीवनशैल्याः, विविध-स्वास्थ्यसम्बद्ध-समस्याः च सम्मुखीभवति। एवं परिस्थितौ योगः प्रभावी, सरलः, प्राकृतिकश्च समाधानरूपेण उदितः। तेन उक्तं यत् कोरोना-महामारी-समयेऽपि योगस्य महत्त्वं सम्पूर्णविश्वेन अनुभूतम्। योगेन रोगप्रतिरोधकशक्तेः संवर्धने, मानसिकस्वास्थ्यस्य उन्नयने, आत्मविश्वासस्य वर्धने च महत्त्वपूर्णा भूमिका निर्वुढा।

राज्यपालः कार्यक्रमे बहुसंख्यक-विद्यालयीय-विद्यार्थिनां सहभागितायाः विषये प्रसन्नतां व्यक्तवान्। तेन उक्तं यत् विद्यार्थिनां कृते योगः केवलं स्वास्थ्यस्य साधनं न, अपितु एकाग्रतायाः, अनुशासनस्य, आत्मविश्वासस्य, व्यक्तित्वविकासस्य च दृढः आधारः अस्ति। नियमित-योगाभ्यासेन बालकेषु धैर्यम्, सकारात्मकचिन्तनम्, जीवनं प्रति सन्तुलिता दृष्टिः च विकसिताः भवन्ति, येन ते भविष्यस्य चुनौतीनां सम्यक् सामना कर्तुं समर्थाः भवन्ति।

राज्यपालः सर्वेभ्यः नागरिकेभ्यः प्रार्थनाम् अकरोत् यत् योगं केवलम् एकदिवसीय-कार्यक्रमत्वेन न पश्यन्तु, अपितु तं स्वदैनिकजीवनचर्यायाः अभिन्नमङ्गं कुर्वन्तु। तेन उक्तं यत् स्वस्थः व्यक्तिः, स्वस्थं कुटुम्बम्, स्वस्थः समाजश्च विकसितभारतस्य दृढाधारशिलाः भवन्ति। योगस्य माध्यमेन एव स्वस्थस्य, जागरूकस्य, सशक्तस्य राष्ट्रस्य निर्माणस्य लक्ष्यं साधयितुं शक्यते।

अन्ते तेन समाजे स्वस्थजीवनशैल्याः विषये व्यापक-जनजागरणस्य आवश्यकतायाः उपरि बलं दत्त्वा योगं जनजनस्य आन्दोलनरूपेण स्थापयितुम् आह्वानम् अकरोत्। कार्यक्रमस्य समापनसमये सहभागिनः नियमित-योगाभ्यासं कर्तुं तथा स्वपरिसरे स्थितान् अन्यानपि योगं प्रति जागरूकान् कर्तुं संकल्पम् अगृह्णन्।

Hindusthan Samachar / Divya Ranjan