Enter your Email Address to subscribe to our newsletters

खूंटी, 21 जूनमासः (हि.स.)।
द्वादशमस्य अन्ताराष्ट्रिययोगदिवसस्य अवसर उपलक्ष्ये रविवासरे जिला आयुष समिति खूंटी इत्यस्य तत्त्वावधाने एस्ट्रोटर्फ हॉकी स्टेडियम खूंटी इत्यत्र जिलास्तरीययोगाभ्यासकार्यक्रमस्य आयोजनम् अभवत्।
कार्यक्रमे उपायुक्तः मो जावेद हुसैन, पुलिस अधीक्षकः ऋषभ गर्ग, उपविकासायुक्तः प्रवीण कुमार प्रकाश, वनप्रमण्डलपदाधिकारी दिलीप कुमार यादव, अनुमण्डलपदाधिकारिणी श्रीमती दीपेश कुमारी, सिविल सर्जन डॉ ललित रञ्जन पाठक, प्रभारीपदाधिकारी गोपनीयशाखा प्रमोद राम इत्यादयः विविधविभागानां पदाधिकारीणः, कर्मिणः, पुलिसजवानाः, विद्यालयीयबालकाः, प्रशिक्षकाः, क्रीडकाः तथा बहुसंख्यकाः स्थानीयनागरिकाः सहभागी अभवन्।
कार्यक्रमस्य शुभारम्भः उपायुक्तेन मो जावेद हुसैनेन तथा पुलिस अधीक्षकेण ऋषभ गर्गेन संयुक्तरूपेण दीपप्रज्वलनेन कृतः। जिला आयुष पदाधिकारी डॉ चन्द्रशेखर प्रसादेन अतिथयः पौधप्रदानेन स्वागतिताः। ततः परं योगगुरुणा उपेन्द्र नारायण सिंहेन प्रदत्तमार्गदर्शने उपस्थिताः सर्वे प्रतिभागिनः सामूहिकयोगाभ्यासं कृतवन्तः। योगसत्रस्य समये ताडासनम्, वृक्षासनम्, भुजङ्गासनम्, त्रिकोणासनम्, वज्रासनम्, शवासनम् इत्यादीनां विविधयोगासनानां तथा अनुलोमविलोमस्य, कपालभात्याः, भ्रामरीप्राणायामस्य च अभ्यासः कारितः।
सहैव नियमितयोगाभ्यासस्य लाभानां तथा स्वस्थजीवनशैल्यां तस्य भूमिकायाः विषये अपि सूचना प्रदत्ता। अस्मिन् अवसरे उपायुक्तः मो जावेद हुसैन उपस्थितजनान् सम्बोधयन् उक्तवान् यत् योगः भारतस्य प्राचीना अमूल्या च विरासत् अस्ति, या स्वस्थशरीरस्य, शान्तमनसः तथा सन्तुलितजीवनस्य आधारः अस्ति। सः उक्तवान् यत् अद्यतनायां धावनपूर्णजीवनशैल्यां योगस्य स्वदैनिकदिनचर्यायां समावेशः अत्यन्तम् आवश्यकः अस्ति।
नियमितयोगाभ्यासेन मधुमेहात्, सन्धिशूलात्, हृदयरोगेभ्यः सहितं बहुभ्यः जीवनशैलीजन्यरोगेभ्यः संरक्षणे साहाय्यं प्राप्यते।
योगः शरीरं स्वस्थं, मनः एकाग्रं तथा जीवनं सकारात्मकं करोति। सः उक्तवान् यत् योगः सर्वेषु आयुवर्गेषु ऊर्जायाः, उत्साहस्य तथा आत्मविश्वासस्य सञ्चारं करोति।
उपायुक्तेन जिलावासिनः नियमितयोगाभ्यासं कर्तुं तथा स्वपरिवारं समाजं च योगस्य प्रति प्रेरयितुम् अपीलं कृतम्। सः उक्तवान् यत् स्वस्थव्यक्तेः, स्वस्थपरिवारस्य तथा स्वस्थसमाजस्य निर्माणे योगस्य महत्त्वपूर्णा भूमिका अस्ति।
कार्यक्रमस्य समये उपायुक्तस्य नेतृत्वे राज्यसर्वकारस्य नशामुक्त झारखण्ड अभियानस्य अन्तर्गतं निषिद्धमादकद्रव्याणां सेवनस्य, तस्कर्याः तथा तेषां दुष्प्रभावानां विषये जनसामान्यः जागरूकः कृतः।
सहैव उपस्थितेभ्यः सर्वेभ्यः जनाभ्यः नशामुक्तसमाजनिर्माणस्य तथा मादकद्रव्यविरोधे जनजागरूकताविस्तारस्य शपथवचनं अपि दापितम्।
---------------
Hindusthan Samachar / Dheeraj Maithani