Enter your Email Address to subscribe to our newsletters

जमशेदपुरम्, 21 जूनमासः (हि.स.)।अन्ताराष्ट्रिययोगदिवसस्य अवसरे रविवासरे टाटास्टीलजूलॉजिकलपार्कपरिसरे योगस्वास्थ्यजागरूकताकार्यक्रमस्य आयोजनम् अभवत्। योगः स्वस्थवयोवृद्धत्वाय इति विषयाधारिते अस्मिन् कार्यक्रमे जूकर्मचारिणः, सुरक्षाकर्मचारिणः तथा ईकार्टचालकाः सहभागिनः अभवन्।
कार्यक्रमस्य प्रारम्भः सामूहिकयोगाभ्यासेन अभवत्, यस्मिन् सहभागिभिः विविधयोगासनानां, प्राणायामस्य तथा ध्यानप्रक्रियाणां अभ्यासः कृतः। योगसत्रस्य सञ्चालनं प्रख्यातयोगप्रशिक्षकेण आयुर्वेदविशेषज्ञेन डॉ अनिलरॉय इत्यनेन कृतम्। तेन योगस्य महत्त्वं प्रकाशयन् उक्तं यत् नियमितयोगाभ्यासः न केवलं शरीरं स्वस्थम् ऊर्जस्विनं च धारयति, अपितु मानसिकतनावस्य न्यूनीकरणे, एकाग्रतावृद्धौ तथा भावनात्मकसन्तुलनस्य रक्षणे अपि महत्त्वपूर्णां भूमिकां निर्वहति।
डॉ अनिलरॉय इत्यनेन विशेषतः वर्धमानवयसि योगस्य उपयोगितायाः विषये चर्चा कृता। तेन उक्तं यत् योगः जनं शारीरिकरूपेण सक्रियं स्थापयति तथा विविधजीवनशैलीसम्बद्धरोगेभ्यः रक्षणे अपि सहायको भवति। तेन सहभागिनः दिनचर्यायां योगस्य समावेशं कर्तुं परामर्शः दत्तः तथा तस्य दीर्घकालिकानां लाभानां विषये सूचना प्रदत्ता।
योगसत्रस्य समये सहभागिभ्यः स्वास्थ्यस्य, सुदृढतायाः तथा सन्तुलितजीवनशैल्याः सम्बद्धेषु विविधविषयेषु विशेषज्ञपरामर्शं प्राप्तुं अवसरः अपि प्राप्तः। कर्मचारिणः अन्ये सहभागिनश्च स्वस्वास्थ्यसम्बद्धप्रश्नान् जिज्ञासाश्च विशेषज्ञानां पुरतः स्थापितवन्तः, येषां समाधानं डॉ अनिलरॉय इत्यनेन सरलैः व्यावहारिकैः उपयोगिभिः च सुझावैः कृतम्। अनेन संवादात्मकसत्रेण कार्यक्रमः अधिकः प्रभावकारी ज्ञानवर्धकश्च अभवत्।
अस्याः अवसरस्य समये टाटास्टीलजूलॉजिकलपार्कस्य निदेशकः डॉ नईमअख्तरः, पशुचिकित्सापरामर्शदाता डॉ एम पालितः, डॉ एस के महतः, डॉ सीमारानी तथा पार्कस्य अनेकाः अधिकारीणः कर्मचारिणश्च उपस्थिताः आसन्। सर्वैः योगस्य महत्त्वं रेखाङ्कितं कृत्वा एतत् स्वस्थसमाजनिर्माणाय उत्तमभविष्यनिर्माणाय च प्रभावकरं माध्यमम् इति प्रतिपादितम्।
-------------
Hindusthan Samachar / Dheeraj Maithani