योगेन तप्तं शरीरं यस्य अस्ति, तस्मिन् न रोगः भवति न च वार्धक्यं शीघ्रमायाति - योगी आदित्यनाथः
झाँसीनगरम्, २१ जूनमासः (हि.स.)। झाँसी-प्रवासस्य द्वितीये दिने द्वादशतमस्य अन्ताराष्ट्रिय-योगदिवसस्य अवसरे रविवासरे जनपद-प्रशासनस्य आयुष-विभागस्य च संयुक्ततत्त्वावधाने ऐतिहासिक-झाँसी-दुर्गस्य अधोभागे आयोजिते भव्य-कार्यक्रमे मुख्यमन्त्री योगी-आदित्यन
योग मुद्रा में मुख्यमंत्री योगी आदित्यनाथ


योग दिवस पर लोगों को संबोधित करते हुए योगी आदित्यनाथ


झाँसीनगरम्, २१ जूनमासः (हि.स.)। झाँसी-प्रवासस्य द्वितीये दिने द्वादशतमस्य अन्ताराष्ट्रिय-योगदिवसस्य अवसरे रविवासरे जनपद-प्रशासनस्य आयुष-विभागस्य च संयुक्ततत्त्वावधाने ऐतिहासिक-झाँसी-दुर्गस्य अधोभागे आयोजिते भव्य-कार्यक्रमे मुख्यमन्त्री योगी-आदित्यनाथः सहस्रशः जनैः सह योगाभ्यासम् अकरोत्। अस्मिन् अवसरे सः योगं स्वस्थ-सन्तुलित-जीवनस्य आधारम् इति निरूप्य सर्वान् स्वदैनिकचर्यायां योगस्य समावेशं कर्तुम् आहूतवान्।

मुख्यमन्त्री अवदत् यत् योगः केवलं व्यायामः नास्ति, अपितु शरीरस्य, मनसः, आत्मनश्च सन्तुलनस्य भारतीय-परम्परा अस्ति। सः उक्तवान्—“नियमितः योगाभ्यासः अस्माकं जीवनस्य अविभाज्यम् अङ्गं भवेत्। योगेन तप्तं शरीरं यस्य अस्ति, तस्मिन् न रोगः भवति न च वार्धक्यं शीघ्रमायाति। एताभ्यः समस्याभ्यः रक्षणाय योगस्य दैनिकचर्यायां समावेशः अनिवार्यः अस्ति।”

स्वसम्बोधने मुख्यमन्त्री सूर्यस्य महत्त्वं प्रकाशयन् अवदत् यत् सूर्यः अस्माकं जीवनशक्तेः ऊर्जायाश्च प्रमुखः स्रोतः अस्ति। वर्षे द्विवारं सम्पाद्यमानौ दुर्गानुष्ठानौ अपि ऊर्जासाधनायाः महत्त्वपूर्णौ कालौ स्तः। सः अवदत् यत् योगदिवसस्य उद्देश्यं सूर्यस्य ऊर्जां आत्मसात् कृत्वा जीवनाय नूतनां दिशं दातुम् अस्ति। योगस्य परम्परा आदियोगिनः भगवत: शिवस्य कालात् प्रवर्तते तथा च सा भारतस्य प्राचीन-सांस्कृतिक-धरोहरस्य महत्त्वपूर्णः अंशः अस्ति।

मुख्यमन्त्री योगी-आदित्यनाथः प्रधानमन्त्री नरेन्द्रमोदिनः प्रयासान् प्रशंसन् अवदत् यत् तस्य नेतृत्वे योगाय वैश्विकी मान्यता प्राप्ता। अद्य सम्पूर्णः विश्वः योगम् अङ्गीकृत्य स्वस्थजीवनस्य दिशि अग्रे सरति। अनेन भारतस्य संस्कृति:, परम्परा च वैश्विकमञ्चे सम्मानं प्राप्तवन्ति तथा च १४० कोटि भारतीयानां गौरवं वर्धितम्। सः अवदत् यत् विकसित-भारतस्य सङ्कल्पस्य साकारतायै एषा महत्त्वपूर्ण: प्रयत्न: सिद्ध: अभवत्।

अस्मिन् अवसरे प्रातः षड्वादनात् अष्टवादनपर्यन्तं सः जनैः सह योगस्य विविधासनानाम् अभ्यासम् अपि अकरोत्।

कार्यक्रमे उत्तरप्रदेश-विधानपरिषदः सभापतिः मानवेन्द्रसिंहः, आयुषमन्त्री दयाशङ्करमिश्रः ‘दयालुः’, सांसदः अनुरागशर्मा, विधायकः रविशर्मा, विधानपरिषद्-सदस्या रमा-निरञ्जना, रामतीर्थसिंघलः, विधायकः राजीवसिंहः ‘परीक्षा’, भाजपायाः उभौ जनपदाध्यक्षौ तथा अन्ये अनेके जनप्रतिनिधयः, पदाधिकारिणः कार्यकर्तारश्च उपस्थिताः आसन्। यद्यपि मुख्यमन्त्री स्वसम्बोधने अधिकांश-जनप्रतिनिधीनां नामानि उल्लिखितवान्, तथापि एकस्य विधानपरिषद्-सदस्यस्य नाम अनुल्लिखितम् इति विषयः कार्यक्रमोत्तरं राजनैतिक-वर्तुलेषु चर्चाविषयः अभवत्।

झाँसी-दुर्गे आयोजिते अस्मिन् योग-कार्यक्रमे बहुसंख्यकाः नागरिकाः, यूनां तथा महिलाः अपि सहभागित्वा योगस्य माध्यमेन स्वस्थजीवनस्य सङ्कल्पम् अकुर्वन्।

Hindusthan Samachar / Divya Ranjan