Enter your Email Address to subscribe to our newsletters


इन्दौरनगरम्, २१ जूनमासः (हि.स.)। अन्ताराष्ट्रिय-योगदिवसस्य अवसरे रविवासरे देशस्य स्वच्छतम-नगरे इन्दौरे योगं प्रति स्वीयां जागरूकतां प्रतिबद्धतां च अद्वितीयरीत्या प्रदर्शितवती। मध्यप्रदेशस्य अस्मिन् नगरे गोपुर-चतुष्पथे आयोजिते भव्ये सामूहिक-योगकार्यक्रमे सहस्रशः योगसाधकाः सहभागित्वा स्वस्थजीवनस्य सन्देशं जनं जनं प्रति प्रसारितवन्तः। एतेन सह एककाले भ्रामरी-प्राणायामस्य अभ्यासं कृत्वा अद्वितीयं विश्वकीर्तिमानम् अपि स्थापितम्।
इन्दौर-नगरनिगमेन सञ्चालितस्य योगमित्र-अभियानस्य अन्तर्गतं आयोजिते अस्मिन् कार्यक्रमे नगरीय-प्रशासनमन्त्री कैलाश-विजयवर्गीयः, मन्त्री दुर्गादास-उइके, महापौरः पुष्यमित्र-भार्गवः, अन्ये च बहवः जनप्रतिनिधयः, प्रशासनिक-अधिकारिणः गणमान्य-नागरिकाश्च सहभागिनः अभवन्। अस्मिन् वर्षे अन्ताराष्ट्रिय-योगदिवसस्य विषयः “स्वस्थायुषे योगः” इति निर्धारितः आसीत्। तदनुरूपं कार्यक्रमे योगं जीवनशैल्याः अभिन्नम् अङ्गं कर्तुं विशेषं बलं प्रदत्तम्।
कार्यक्रमस्य मुख्यायोजनं प्रातः षड्वादने प्रारब्धम्। आरम्भे नगरस्य विभिन्नसंस्थाभिः योगासनानां सांस्कृतिक-प्रस्तुतीनां च प्रदर्शनं कृतम्, येन उपस्थिताः सर्वे मन्त्रमुग्धाः अभवन्। ततः निर्धारित-सामान्य-योग-नियमानुसारेण सामूहिक-योगाभ्यासः कारितः। योग-प्रशिक्षकः राकेश-चौधरी तथा इन्दौरस्य दुहिता मिसेज् इण्डिया–२०२३ चेतना-जोशी योगसत्रस्य सञ्चालनम् अकुरुताम्। तयोः मार्गदर्शनेन सहस्रशः जनाः विविध-योगासनानि प्राणायामं च अभ्यस्यन्।
आयोजनस्य प्रमुखम् आकर्षणं दशसहस्राधिकैः योगसाधकैः एककाले कृतः सामूहिक-भ्रामरी-प्राणायामः आसीत्। सहभागिभिः त्रिनिमेषाधिककालपर्यन्तं निरन्तरं भ्रामरी-प्राणायामं कृत्वा नवीनं कीर्तिमानं स्थापयितुं प्रयासः कृतः। आयोजकानां मतानुसारम् एषः प्रयासः विश्वकीर्तिमानस्य अभिलेखनस्य दिशि महत्त्वपूर्णं पदम् अस्ति। सम्पूर्णे कार्यक्रमे योगसाधकानाम् अनुशासनम् उत्साहश्च दर्शनीयः आसीत्।
अस्मिन् विशाल-कार्यक्रमे इन्दौरस्य सप्तत्यधिकाः योगसंस्थाः, विभिन्नाः क्रीडासङ्घाः, शतपञ्चाशदधिकाः सामाजिक-संस्थाः तथा समाजस्य विविधवर्गेभ्यः सम्बद्धाः सहस्रशः नागरिकाः सहभागिनः अभवन्। यूनां, महिलानां, वरिष्ठ-नागरिकाणां बालकानां च उल्लेखनीया उपस्थितिः एतत् सन्देशम् अददात् यत् योगः अधुना केवलम् अभ्यासः न, अपितु स्वस्थ-सन्तुलित-जीवनस्य अनिवार्या आवश्यकता अभवत्।
योगदिवसस्य अवसरे योगक्षेत्रे उत्कृष्टयोगदानं प्रदत्तवन्तः वरिष्ठ-योगगुरवः, योग-क्रीडकाः तथा योग-प्रचारकाः ‘योग-अलङ्करण’ इति सम्मानेन सम्मानिताः। एतेन सम्मानसमारोहेण योगस्य प्रचार-प्रसारे निरतानां जनानां योगदानं नूतना मान्यता प्राप्तवती। कार्यक्रमे योगमित्र-अभियानस्य नूतना आधिकारिक-जालपुटिका अपि लोकार्पिता। अस्याः डिजिटल-मञ्चस्य माध्यमेन नगरस्य सर्वासां योगमित्र-योगशालानां, योग-प्रशिक्षण-केन्द्राणां तथा विविध-योगगतिविधीनां सूचना एकस्मिन् स्थाने उपलब्धा भविष्यति। अनेन नागरिकाः योगेन सह सम्बद्धाः भूत्वा नियमिताभ्यासे सुविधां प्राप्स्यन्ति।
कार्यक्रमे उपस्थितैः नियमित-योगाभ्यासं स्वदैनिकजीवनस्य अङ्गं कर्तुं सङ्कल्पः कृतः। वक्तारः अवदन् यत् आधुनिक-जीवनशैल्याः जनित-चिन्ताया:, मानसिक-प्रभावात् तथा शारीरिक-समस्याभ्यः रक्षणाय योगः सर्वाधिकः प्रभावी उपायः अस्ति। योगः न केवलं शरीरं स्वस्थं धारयति, अपितु मानसिक-शान्तिम् आत्मिक-सन्तुलनं च प्रददाति। एवं नगरेण पुनरपि एषः सन्देशः प्रदत्तः यत् स्वस्थ-समाज-निर्माणे योगस्य भूमिका अत्यन्तं महत्त्वपूर्णा अस्ति।
अपरतः अन्ताराष्ट्रिय-योगदिवसस्य अवसरे सम्पूर्णे मध्यप्रदेशे अपि उत्साहपूर्णं वातावरणम् आसीत्। जबलपुरस्य गैरिसन-प्राङ्गणे आयोजिते राज्यस्तरीये कार्यक्रमे राष्ट्रपतिः द्रौपदीमुर्मुः, मुख्यमन्त्री डॉ.मोहनयादवः तथा राज्यपालः मङ्गुभाई-पटेलः योगाभ्यासम् अकुर्वन्। अस्मिन् अवसरे बहुसंख्यकाः जनप्रतिनिधयः, अधिकारिणः सामान्य-नागरिकाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan