Enter your Email Address to subscribe to our newsletters


जबलपुरम्, २१ जूनमासः (हि.स.)। “योगः केवलं व्यायामः न, अपितु सनातनी जीवनशैली अस्ति। सः वयोवृद्धेः प्रक्रियां शनैः शनैः मन्दीकृत्य शरीरं मनश्च स्वस्थं धारयितुं अचूकं साधनम् अस्ति। मानवतायै भारतस्य महत्तम: धरोहरः योगः एव, यं वयं स्वदैनिकजीवनस्य अभिन्नम् अङ्गं कर्तुं प्रयतामहे।” इति राष्ट्रपतिः द्रौपदी-मुर्मुः अन्ताराष्ट्रिय-योगदिवसस्य अवसरे मध्यप्रदेशस्य जबलपुरे आयोजितं राज्यस्तरीयं समारोहम् सम्बोधयन्ती अवदत्।
रविवासरे सदर-क्षेत्रस्थिते गैरिसन-प्राङ्गणे आयोजिते अन्ताराष्ट्रिय-योगदिवस-समारोहे राष्ट्रपतिः द्रौपदी-मुर्मुः मुख्यातिथित्वेन सहभागी अभवत्। अस्य वर्षस्य कार्यक्रमस्य विषयः “स्वस्थ-वृद्धावस्थायै योगः” इति आसीत्। राष्ट्रपतिः स्वसम्बोधने योगं स्वस्थस्य, सन्तुलितस्य दीर्घायुषश्च जीवनस्य आधारम् इति वर्णयन्ती अवदत् यत् एष: भारतस्य अमूल्य: धरोहरः अस्ति, य: अद्य सम्पूर्णं विश्वं स्वास्थ्यस्य शान्तेश्च मार्गं दर्शयति।
राष्ट्रपतिः मुर्मुः अवदत् यत् नर्मदामातुः पुण्यभूमौ जबलपुरम् आगत्य सा स्वयम् धन्या अनुभवन्ती अस्ति। तया उक्तं यत् योगः भारतीयसंस्कृतेः ज्ञानपरम्परायाश्च एषा धरोहरः अस्ति, या सीमाभाषाभ्यां परं गत्वा सम्पूर्णां मानवतां संयोजयति। तया उक्तं यत् प्रधानमन्त्रिण: नरेन्द्रमोदिनः प्रयत्नैः अन्ताराष्ट्रिय-योगदिवसः अद्य वैश्विक-जनान्दोलनस्य रूपं प्राप्तवान् अस्ति तथा च विश्वस्य अनेकेषु देशेषु महोत्साहेन आचर्यते।
स्वसम्बोधने राष्ट्रपतिः जनान् आहूतवती यत् योगः केवलं जूनमासस्य एकविंशतितमे दिने एव न सीमितः भवेत्, अपितु स्वदैनिकजीवनस्य अभिन्नम् अङ्गं भवेत्। तया उक्तं यत् नियमित-योगाभ्यासः मनुष्यं शारीरिकरूपेण स्वस्थं, मानसकरूपेण सन्तुलितं, भावनात्मकरूपेण च सशक्तं करोति। विशेषतः वयोवृद्धावस्थायां योगः शरीरस्य कार्यक्षमतालाभे जीवनस्य गुणवत्तायाः वर्धने च महत्त्वपूर्णां भूमिकां निर्वहति।
सा अवदत् यत् अद्यतनायां धावमान-जीवनशैल्यां चिन्ता, अवसादः, विविधाः स्वास्थ्यसमस्याश्च शीघ्रं वर्धन्ते। एतादृशे काले योगः केवलं चिकित्सोपायः न, अपितु स्वस्थजीवनस्य सम्पूर्णा जीवनपद्धतिः अस्ति। योगः मनुष्यं स्वात्मना सह संयोजयति तथा अन्तःकरणे सकारात्मक-ऊर्जायाः सञ्चारं करोति।
कार्यक्रमस्य आरम्भः राष्ट्रपतेः द्रौपदी-मुर्मोः स्वागतसमारोहेण अभवत्। मुख्यमन्त्री डॉ.मोहन-यादवः तस्यै पुष्पगुच्छं समर्प्य स्वागतं कृतवान्। ततः राष्ट्रपतिः, राज्यपालः मङ्गुभाई-पटेलः, मुख्यमन्त्री डॉ.मोहन-यादवः, उपमुख्यमन्त्री जगदीश-देवडा तथा अन्ये अतिथयः सामूहिक-योगाभ्यासे सहभागित्वम् अकुर्वन्।
गैरिसन-प्राङ्गणे आयोजिते अस्मिन् विशाल-कार्यक्रमे प्रायः पञ्चसहस्रजनाः एकत्र योगाभ्यासम् अकुर्वन्। प्राङ्गणे युवानः, महिलाः, विद्यालयीय-विद्यार्थिनः, अभिभावकाः, वरिष्ठ-नागरिकाः तथा समाजस्य विविधवर्गेभ्यः सम्बद्धाः जनाः महोत्साहेन सहभागित्वम् अकुर्वन्। राष्ट्रपतिं स्वमध्ये प्राप्य जनानां विशेषः उत्साहः दृष्टिगोचरः अभवत्। योग-प्रशिक्षकाणां निर्देशनानुसारं सर्वे विविध-योगासनानि प्राणायामं च अभ्यस्य नियमित-योगाभ्यासस्य सङ्कल्पम् अकुर्वन्।
कार्यक्रमे बहुसंख्यकाः विद्यालयीय-विद्यार्थिनः अपि सहभागी अभवन्। बालकाः युवानश्च महोत्साहेन अनुशासनेन च योगाभ्यासम् अकुर्वन्। सामूहिक-योगसत्रे स्वस्थस्य, निरोगस्य, सन्तुलितजीवनस्य च सन्देशः प्रदत्तः। अयं कार्यक्रमः विशेषतः युवभ्यः शारीरिक-मानसिक-सशक्तीकरणस्य प्रेरणां दत्त्वा समाजे स्वास्थ्य-जागरूकतायाः संवर्धनम् अकरोत्।
अस्मिन् अवसरे मुख्यमन्त्री डॉ.मोहन-यादवः स्वसम्बोधने अवदत् यत् योगः भारतस्य प्राचीन: अमूल्य: च धरोहरः अस्ति, यां अद्य सम्पूर्णं विश्वम् अङ्गीकरोति। तेन उक्तं यत् योगः मानवकल्याणाय भारतस्य विश्वाय प्रदत्तम् अमूल्यम् उपहारम् अस्ति। योगेन विश्वस्य राष्ट्राणि परस्परं संयोजितानि, अद्य च अन्ताराष्ट्रिय-योगदिवसः शतपञ्चसप्तत्यधिक-देशानां समर्थनं प्राप्तवान् अस्ति।
मुख्यमन्त्री नागरिकान् प्रतिदिनं योगाभ्यासाय प्रेरयन् अवदत् यत् योगः स्वस्थस्य, सन्तुलितस्य, सकारात्मक-जीवनस्य च आधारः अस्ति। यदि प्रत्येकं जनः योगं स्वदैनिकचर्यायां समावेशयेत्, तर्हि समाजे बहवः रोगाः मानसिक-चिन्ताया: समस्याश्च बहुधा न्यूनीकर्तुं शक्येरन्।
समारोहे राज्यपालः मङ्गुभाई-पटेलः, उपमुख्यमन्त्री जगदीश-देवडा, लोकनिर्माणमन्त्री राकेश-सिंहः, पञ्चायत-ग्रामीण-विकासमन्त्री प्रह्लाद-सिंह-पटेलः तथा अन्ये बहवः मन्त्रिणः, सांसदाः, विधायकाः, जनप्रतिनिधयः, वरिष्ठ-प्रशासनिक-अधिकारिणश्च उपस्थिताः आसन्। राष्ट्रपतेः आगमनस्य दृष्ट्या सुरक्षायाः व्यापकाः प्रबन्धाः कृताः आसन्।
उल्लेखनीयम् अस्ति यत् विश्व-योगदिवसस्य अस्य भव्यस्य आयोजनस्य माध्यमेन जबलपुरात् सम्पूर्ण-मध्यप्रदेशाय देशाय च स्वास्थ्यस्य, सन्तुलनस्य, सकारात्मक-जीवनस्य च सन्देशः प्रसारितः। राष्ट्रपतेः द्रौपदी-मुर्मोः गरिमामयी उपस्थितिः कार्यक्रमं विशेषमहत्त्वेन अलङ्कृतवती तथा पुनरपि एतत् प्रतिपादितवती यत् योगः अद्य धावमान-जीवनशैल्यां स्वस्थस्य उज्ज्वल-भविष्यस्य च वैश्विका जीवनपद्धतिः अभवत्।
Hindusthan Samachar / Divya Ranjan