Enter your Email Address to subscribe to our newsletters

भोपालम्, 21 जूनमासः (हि.स.)।
देशस्य बृहत्तमा चिकित्साप्रवेशपरीक्षा नीट २०२६ रविवासरे मध्यप्रदेशं सहितं सम्पूर्णदेशे आयोजिता भविष्यति। प्रदेशे प्रायः एकलक्षाष्टादशसहस्राधिकाः अभ्यर्थिनः त्रिंशत् जनपदेषु स्थितेषु २८३ परीक्षाकेन्द्रेषु परीक्षां दास्यन्ति। परीक्षाकेन्द्रेषु दूरभाषयन्त्रम्, ब्लूटूथ उपकरणम्, स्मार्ट वॉच, कर्णश्रवणयन्त्रम्, छायाग्रहणयन्त्रम्, कटिबन्धः, आभरणानि तथा अन्यानि विद्युतीयोपकरणानि पूर्णतया निषिद्धानि भविष्यन्ति।
प्रदेशव्यापिनि शनिवासरे मॉक ड्रिल इति अभ्यासकार्यक्रमः कृत्वा सुरक्षाव्यवस्थानां समीक्षा कृता। परीक्षाकार्ये नियुक्तानाम् अधिकारिकर्मचारिणां अवकाशाः निरस्ताः सन्ति, तथा च अनेकजनपदेषु स्थानान्तरितानाम् अधिकारिणां कार्यमुक्तिः अपि परीक्षा समाप्तेः पर्यन्तं स्थगिता अस्ति। सुरक्षाव्यवस्थां अभेद्यां कर्तुं अस्मिन् वर्षे प्रश्नपत्रवितरणप्रक्रिया पूर्णतया गोपनीया कृता अस्ति। परीक्षा प्रारम्भात् प्रायः एकघण्टापूर्वं देहलीस्थितनियन्त्रणकेन्द्रात् एतत् निर्धारितं भविष्यति यत् कस्मात् सुदृढकोष्ठात् कस्य परीक्षाकेन्द्रस्य कृते प्रश्नपत्राणि निर्गमिष्यन्ते। प्रश्नपत्राणि वायुसेनायाः विशेषविमानेन भोपालनगरं नीतानि। ततः परं सीआरपीएफ संस्थायाः निरीक्षणे तानि सुदृढकोष्ठेषु स्थापितानि सन्ति। परीक्षादिने सीआरपीएफ सुरक्षा व्यवस्थया सह प्रश्नपत्राणि परीक्षाकेन्द्राणि प्रति प्रेषितानि भविष्यन्ति।
एनटीए संस्थया अस्मिन् वर्षे परीक्षायां प्रौद्योगिकीआधारितसुरक्षाव्यवस्था प्रवर्तिता अस्ति। प्रश्नपत्रवाहनेषु जीपीएस निरीक्षणव्यवस्था भविष्यति। सर्वेषु केन्द्रेषु सीसीटीवी छायाग्रहणयन्त्राणि, धातुनिरीक्षकयन्त्राणि, जैमर उपकरणानि, आधिकारिकघटीकाः तथा आधाराधारितजैवमितीयसत्यापनव्यवस्था च कृता अस्ति। प्रत्येकस्य परीक्षार्थिनः प्रवेशात् पूर्वं शरीरपरीक्षणं भविष्यति। अतिरिक्तजैवमितीययन्त्राणि तथा अतिरिक्तकर्मचारिणः अपि नियुक्ताः सन्ति। परीक्षाकेन्द्राणां निरीक्षणं जिलानियन्त्रणकक्षात् तथा राज्यस्तरीयनिरीक्षणकेन्द्रात् क्रियमाणं भविष्यति। प्रश्नपत्रप्रस्रवणम् अथवा अफवाहानां प्रसारणं निवारयितुं राज्यस्य साइबरमुख्यालये विशेषनिरीक्षणव्यवस्था निर्मिता अस्ति। सामाजिकमाध्यममञ्चेषु, सन्देशप्रेषणअनुप्रयोगेषु तथा अन्तर्जालगतिविधिषु निरीक्षणार्थं चतुश्चत्वारिंशत् साइबर कमाण्डो नियुक्ताः सन्ति। कस्यापि सन्दिग्धगतिविधेः विषये तत्क्षणमेव अन्वेषणं कार्यवाही च क्रियते।
परीक्षायाः समयः प्रवेशनियमाश्च
नीट परीक्षा अपराह्णे द्विवादनात् सायं पञ्चवादनपञ्चदशमिनिटपर्यन्तम् आयोजिता भविष्यति।
प्रातः एकादशवादनात् प्रवेशः प्रारभ्यते।
अपराह्णे एकवादनत्रिंशन्मिनिटे मुख्यद्वारं पिधास्यते।
एकवादनत्रिंशन्मिनिटात् परं कस्यापि प्रवेशः न भविष्यति।
दिव्याङ्गाभ्यर्थिभ्यः अतिरिक्तसमयस्य सुविधा प्रदत्ता अस्ति।
केवलम् प्रवेशपत्रम्, परिचयपत्रम् तथा पारदर्शकजलपात्रं नेतुं अनुमतिः अस्ति।
एनटीए संस्थया धार्मिकवेषेण अथवा पारम्परिकवेषेण आगच्छद्भ्यः अभ्यर्थिभ्यः अतिरिक्तपरीक्षणस्य कारणेन समयात् पूर्वमेव आगन्तुं परामर्शः प्रदत्तः। अभ्यर्थिभ्यः लघुवर्णयुक्तान् साधारणवस्त्रान् धारयितुं परामर्शः अपि प्रदत्तः। विशालबटनयुक्तानि, स्थूलवस्त्राणि, बहुकोष्ठयुक्तवस्त्राणि, कटिबन्धाः, घटीकाः, अङ्गुलीयकानि, श्रृङ्खलाः, कङ्कणानि, स्मार्ट उपकरणानि तथा अन्यानि धातुनिर्मितानि पदार्थानि धारयित्वा आगन्तुं अनुमतिः न भविष्यति।
भोपालनगरे इन्दौरनगरे च सर्वाधिकाः परीक्षार्थिनः
इन्दौरः २३००० अधिकाः अभ्यर्थिनः, ५७ केन्द्राणि
भोपालः १३७७४ अभ्यर्थिनः, ३२ केन्द्राणि
जबलपुरम् १०००० अधिकाः अभ्यर्थिनः, २३ केन्द्राणि
ग्वालियरः प्रायः ५००० अभ्यर्थिनः, २५ केन्द्राणि
छिन्दवाडा ४३०३ अभ्यर्थिनः, ८ केन्द्राणि
उज्जयिनी ४१७१ अभ्यर्थिनः, ८ केन्द्राणि
रतलाम ३३५८ अभ्यर्थिनः, ९ केन्द्राणि
सागरः २७६९ अभ्यर्थिनः, ५ केन्द्राणि
गुणा १७०० अधिकाः अभ्यर्थिनः, ५ केन्द्राणि
विदिशा १७०९ अभ्यर्थिनः
नर्मदापुरम् १२८३ अभ्यर्थिनः
अशोकनगरम् ८६५ अभ्यर्थिनः
राजधानी भोपालनगरे मेट्रोनिर्माणकार्यं तथा परीक्षाकेन्द्रेषु सम्भाव्यमानजनसमूहं दृष्ट्वा यातायातपुलिसविभागेन विशेषपरामर्शः प्रकाशितः। अभ्यर्थिभ्यः निर्धारितसमयात् पूर्वमेव गृहात् निर्गन्तुं वैकल्पिकमार्गाणां उपयोगं च कर्तुं परामर्शः प्रदत्तः। आनन्दनगर, गौतमनगर तथा अन्येषां प्रमुखपरीक्षाकेन्द्राणां कृते विशेषमार्गयोजना निर्मिता अस्ति। परीक्षाकेन्द्राणां समीपे वाहनस्थापनम् अपि नियन्त्रितं भविष्यति।
बाह्यजनपदेभ्यः आगच्छतां छात्राणां सुविधार्थं भोपाल, विदिशा, नर्मदापुरम्, गुणा तथा अशोकनगर रेलवे स्थानकेषु विशेषसहायककेन्द्राणि निर्मितानि सन्ति। अत्र परीक्षाकेन्द्रसम्बद्धसूचना, यातायातव्यवस्था तथा मार्गदर्शनं प्रदास्यते।
जबलपुरनगरे परीक्षाकेन्द्राणि प्रति विद्यार्थिनः प्रापयितुं प्रथमवारं विशेषबससेवा प्रारब्धा अस्ति। अभिभावकानां कृते छायाव्यवस्था, पेयजलम्, शीतलीकरणयन्त्राणि, वातचालकयन्त्राणि तथा अस्थायिभोजनव्यवस्था कृता अस्ति।
बालाघट्टम् इत्यादिषु संवेदनशीलजनपदेषु प्रश्नपत्राणि पूर्वमेव वायुसेनायाः विशेषेण उदग्रविमानेन प्रेषितानि सन्ति। उज्जयिनी, ग्वालियर, इन्दौर तथा अन्येषु नगरेषु रेलवे स्थानकात् आरभ्य परीक्षाकेन्द्रपर्यन्तं सीआरपीएफ तथा स्थानीयपुलिसबलस्य संयुक्तव्यवस्था कृता अस्ति।
मुख्यमन्त्री डॉ मोहन यादव अधिकारिणः निर्देशितवान् यत् परीक्षायाः सुरक्षा गोपनीयता च कस्यापि स्तरस्य अवहेलनया न प्रभावितेते। सः उक्तवान् यत् सर्वेभ्यः अभ्यर्थिभ्यः निष्पक्षं सुरक्षितं तनावमुक्तं च वातावरणं प्रदातुं प्रशासनस्य सर्वोच्चप्राथमिकता अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani