Enter your Email Address to subscribe to our newsletters



भोपालनगरम्, २१ जूनमासः (हि.स.)। द्वादशतमस्य अन्ताराष्ट्रिय-योगदिवसस्य अवसरे राष्ट्रपतिः द्रौपदीमुर्मु: जबलपुरस्य गैरिसन-प्रांगणे आयोजिते राज्यस्तरीये कार्यक्रमे योगाभ्यासं कृतवती। अस्मिन् अवसरे मुख्यमन्त्री डॉ.मोहनयादवः, राज्यपालः मङ्गुभाई-पटेलः च योगस्य विविधासनानां प्राणायामस्य च अभ्यासं कृतवन्तौ।
मध्यप्रदेशस्य सर्वेषु जनपदेषु अन्ताराष्ट्रिय-योगदिवसस्य निमित्तं सामूहिक-योगकार्यक्रमाः आयोजिताः, येषु बहुसंख्यकाः जनाः सहभागीभूत्वा योगस्य विविधासनानि प्राणायामं च अभ्यस्यन्। जबलपुरे राष्ट्रपति-द्रौपदीमुर्मोः मुख्यातिथ्ये द्वादशतम-अन्ताराष्ट्रिय-योगदिवस-२०२६-अवसरे सामूहिक-योगाभ्यास-कार्यक्रमः सम्पन्नः।
“स्वस्थायुषे योगः” इति विषयाधारिते अस्मिन् सामूहिक-योगकार्यक्रमे प्रायः ५००० नागरिकाः तथा ३१ विद्यालयानां प्रायः ३४०० छात्र-छात्र्यः योगस्य विविधासनानि अकुर्वन्। कार्यक्रमे राज्यपालः मङ्गुभाई-पटेलः, मुख्यमन्त्री डॉ.मोहनयादवः, उपमुख्यमन्त्री जगदीश-देवडा, पञ्चायत-ग्रामीण-विकासमन्त्री प्रह्लादसिंह-पटेलः, लोकनिर्माणमन्त्री राकेशसिंहः तथा आयुषमन्त्री इन्द्रसिंह-परमारः अपि योगाभ्यासं कृतवन्तः।
अन्ताराष्ट्रिय-योगदिवसे इन्दौर-नगरे भ्रामरी-प्राणायामे नवीनं कीर्तिमानं स्थापितम्। तत्र आयोजिते सामूहिक-योगकार्यक्रमे सहस्रशः सहभागिनः त्रिनिमेषाधिककालपर्यन्तं निरन्तरं भ्रामरी-प्राणायामम् अकुर्वन्। योग-प्रशिक्षकाणां निर्देशनस्य अन्तर्गतं सर्वे एकत्र प्राणायामं कृत्वा योगं प्रति जागरूकतां स्वास्थ्यं प्रति प्रतिबद्धतां च प्रदर्शितवन्तः। आयोजकैः एतत् सामूहिक-सहभागितायाः योगस्य वर्धमान-जनान्दोलनस्य च प्रतीकत्वेन वर्णितम्।
अपरतः राजधानी भोपालस्य टीटी-नगर-क्रीडाङ्गणे बहुसंख्यकाः जनाः योगाभ्यासं कृत्वा स्वस्थजीवनस्य सन्देशम् अददुः। कार्यक्रमस्य सफलसञ्चालनार्थं प्रशासनद्वारा सुरक्षा, पेयजलं, चिकित्सासेवा तथा अन्याः आधारभूतसुविधाः समुचितरूपेण व्यवस्थापिताः।
ग्वालियर-नगरे अपि द्वादशतम-अन्ताराष्ट्रिय-योगदिवसस्य अवसरे सामूहिक-योगकार्यक्रमः आयोजितः। अस्मिन् कार्यक्रमे प्रभारीमन्त्री तुलसी-सिलावटः मुख्यातिथिरूपेण उपस्थितः। तेन सह सम्भागायुक्तः, जनपदाधिकारी, आरक्षक-अधीक्षकः, प्रशासनिक-अधिकारिणः जनप्रतिनिधयश्च उपस्थिताः आसन्। शतशः नागरिकाः उत्साहेन कार्यक्रमे सहभागित्वा योगस्य विविधासनानि प्राणायामं च अभ्यस्यन्। सहभागिभिः नियमित-योगाभ्यासं स्वदैनिकचर्यायाः अङ्गत्वेन स्वीकर्तुं शरीर-मनसोः स्वास्थ्यरक्षणाय सङ्कल्पः कृतः। कार्यक्रमस्य माध्यमेन योगं प्रति जनजागरूकता तथा स्वस्थजीवनशैली-स्वीकारस्य सन्देशः प्रसारितः।
द्वादशतम-अन्ताराष्ट्रिय-योगदिवसस्य अवसरे रविवासरे उज्जयिन्याः दशहरा-मैदाने सामूहिक-योगाभ्यासः सम्पन्नः। कार्यक्रमे प्रभारीमन्त्री गौतम-टेटवालः, विकास-प्राधिकरणस्य अध्यक्षः रवि-सोलङ्की, नगर-निगम-सभापतिः कलावती-यादवः, जनपदाधिकारी, आरक्षक-अधीक्षकः तथा विभिन्नविभागानाम् अधिकारिणः जनप्रतिनिधयश्च उपस्थिताः। बहुसंख्यकाः विद्यालयीयाः छात्र-छात्र्यः अपि योगाभ्यासे सहभागित्वम् अकुर्वन्।
“स्वस्थायुषे योगः” इति विषयाधारिते कार्यक्रमे सहभागिभिः योगासनानि प्राणायामश्च कृतः। अस्मिन् समये उपस्थितजनैः मध्यप्रदेशस्य मुख्यमन्त्रिणः डॉ. मोहनयादवस्य सम्बोधनम् अपि प्रत्यक्षप्रसारणेन श्रुतम्। कार्यक्रमस्य माध्यमेन नियमित-योगाभ्यासेन स्वस्थं निरामयं च जीवनं यापयितुं सन्देशः प्रदत्तः।
विश्वविख्याते पर्यटनस्थले साञ्ची-स्तूप-परिसरे अपि अन्ताराष्ट्रिय-योगदिवसस्य अवसरे जनपद-स्तरीयः कार्यक्रमः आयोजितः। अस्मिन् कार्यक्रमे स्वास्थ्य-राज्यमन्त्री नरेन्द्र-शिवाजी-पटेलः अपि सहभागित्वम् अकरोत्।
Hindusthan Samachar / Divya Ranjan