सीमाविवादविषये नेपालस्य प्रधानमन्त्री अवदत्— ब्रिटेनदेशं मध्यस्थकर्तुं नास्ति अस्माकमभिप्रायः
काठमाण्डूनगरम्, २१ जूनमास: (हि.स.)। नेपालस्य प्रधानमन्त्री बालेन्द्रशाहः भारतेन सह सीमाविवादस्य विषये रविवासरे स्पष्टीकरणम् अददात्। सः अवदत् यत् कालापानी तथा लिपुलेख इत्येतयोः विषये अस्माकं पर्याप्तानि प्रमाणानि सन्ति। यदि ब्रिटिशशासनकालस्य अभिलेखा
नेपाल के प्रधानमंत्री बालेन्द्र शाह


काठमाण्डूनगरम्, २१ जूनमास: (हि.स.)। नेपालस्य प्रधानमन्त्री बालेन्द्रशाहः भारतेन सह सीमाविवादस्य विषये रविवासरे स्पष्टीकरणम् अददात्। सः अवदत् यत् कालापानी तथा लिपुलेख इत्येतयोः विषये अस्माकं पर्याप्तानि प्रमाणानि सन्ति। यदि ब्रिटिशशासनकालस्य अभिलेखानां प्रस्तुतीकरणस्य आवश्यकता भविष्यति, तर्हि तान्यपि वयं प्रस्तोतुं समर्थाः स्मः। किन्तु ब्रिटेनदेशं मध्यस्थकर्तुं नास्त्येव अस्माकमभिप्रायः।

राष्ट्रीयस्वतन्त्रपार्टी-इत्यस्य प्रथममहाधिवेशनस्य उद्घाटनसमारोहे सम्बोधनं कुर्वन् प्रधानमन्त्री अवदत् यत् संसदि भारतेन सह सीमाविवादस्य विषये आवश्यकता चेत् ब्रिटिशपक्षेण सह अपि वार्तां कर्तुं स्वस्य सज्जतां सः प्रकटितवान्। तदनन्तरं प्रश्नः उत्थापितः यत् नेपाल-भारतयोः सीमाविवादे तृतीयदेशस्य सहभागिता किमर्थम् अपेक्ष्यते।

सः पुनरपि अवदत् यत् नेपालः स्वपडोसीदेशैः सह प्रमाणाधारितवार्तया सीमाविवादस्य समाधानं करिष्यति। वयं स्वप्रतिवेशीदेशैः सह स्वयमेव संवादं कृत्वा एतं विवादं समाधास्यामः। अस्माकं पर्याप्तानि प्रमाणानि सन्ति। मम राष्ट्रभक्तौ राष्ट्रियभावनायां च कस्यापि सन्देहस्य आवश्यकता नास्तीति सः पुनः स्पष्टतया उक्तवान्।

Hindusthan Samachar / Divya Ranjan