Enter your Email Address to subscribe to our newsletters

पाटलिपुत्रम्, जूनमासस्य २१ दिनाङ्कः (हि.स.)। इतिहासः साक्षी अस्ति यत् भारतस्य लोकतान्त्रिकी चेतना प्रत्येकं सङ्कटात् अपि महत्तरा सिद्धा अभवत्। यः देशः आङ्ग्ल-शासनस्य शृङ्खलाः विच्छिद्य स्वातन्त्र्यम् अलभत, स एव लोकतन्त्रे समुपस्थितस्य आपत्कालस्य तमोमय-कालस्य अपि धैर्येण समक्षं कृतवान्। तस्यैव सङ्घर्षस्य, चेतनायाः, लोकतान्त्रिक-परम्परायाश्च स्मरणार्थं पाटलिपुत्रम् पुनरेकवारं राष्ट्रिय-विमर्शस्य केन्द्रं भविष्यति। देशस्य प्रथमाया: बहुभाषिकाया: समाचार-संस्थायाः हिन्दुस्थानसमाचारस्य आयोजनत्वेन जूनमासस्य २४ दिनाङ्के अपराह्णे १:३० वादने पाटलिपुत्रस्य मीठापुर-इन्स्टिट्यूशनल-एरिया-स्थे चन्द्रगुप्त-प्रबन्धन-संस्थाने ‘आपत्कालस्य ५० वर्षाणि : बिहार-आन्दोलनम् आपत्कालश्च’ इति विषयकः राष्ट्रिय-सङ्गोष्ठी-कार्यक्रमः आयोज्यते।
सङ्गोष्ठ्याः संयोजकः हिन्दुस्थानसमाचारस्य मुख्य-समन्वयकश्च डॉ.राजेशतिवारी अवदत् यत् सङ्गोष्ठ्याः मुख्यवक्ता इन्दिरागान्धी-राष्ट्रीय-कलाकेन्द्रस्य अध्यक्षः हिन्दुस्थानसमाचार-समूहस्य समूह-सम्पादकश्च रामबहादुररायः भविष्यति। मुख्यातिथिरूपेण राष्ट्रिय-स्वयंसेवक-सङ्घस्य अखिलभारतीय-प्रचार-प्रमुखः सुनील-आम्बेकरः उपस्थितः भविष्यति। कार्यक्रमस्य अध्यक्षतां हिन्दुस्थानसमाचार-समूहस्य अध्यक्षः अरविन्दभालचन्द्रमार्डीकरः करिष्यति। बिहारस्य कला-संस्कृति-तथा-खनन-भूतत्त्व-विभागस्य मन्त्री डॉ.प्रमोदकुमारः विशिष्टातिथिरूपेण उपस्थितः भविष्यति। चन्द्रगुप्त-प्रबन्धन-संस्थानस्य मुख्य-प्रशासनिक-अधिकारी निदेशकश्च डॉ.कुमुदकुमारः स्वागताध्यक्षः भविष्यति। एतदतिरिक्तं पूर्व-केन्द्रीयमन्त्री अश्विनीचौबे तथा वरिष्ठ-स्तम्भकारः पूर्व-विधानपरिषद्-सदस्यः डॉ.हरेन्द्रप्रतापः वक्तारौ भूत्वा आपत्कालस्य, पत्रकारिता-स्वातन्त्र्यस्य, बिहार-आन्दोलनस्य च विविधपक्षान् प्रकाशयिष्यतः।
डॉ. राजेशतिवारी अवदत् यत् एषा सङ्गोष्ठी न केवलं आपत्कालस्य कृष्णाध्यायस्य स्मरणं करिष्यति, अपितु स्वातन्त्र्यस्य ‘स्व’-तत्त्वस्य बोधमपि कारयिष्यति तथा भावि-वंशं लोकतन्त्रस्य रक्षणस्य महत्त्वेन परिचाययिष्यति। जूनमासस्य २५ दिनाङ्कस्य १९७५ वर्षस्य रात्रिः भारतीय-लोकतन्त्रस्य इतिहासे सदा स्मरणीया अभवत्, यदा देशे आपत्कालः प्रवर्तितः। आपत्कालः भारतीय-लोकतन्त्रस्य कठिनतमा परीक्षा इति मन्यते। तस्मिन् काले वार्तामाध्यमेषु नियन्त्रणम्, विपक्ष-नेतॄणां बन्दीकरणम्, नागरिक-अधिकाराणां प्रतिबन्धाश्च लोकतन्त्रस्य मूलभावनायाः प्रत्यक्षं आह्वानम् अभवन्।
अस्मिन् वर्षे आपत्कालस्य पञ्चाशत्तमा वर्षग्रन्थि: आचर्यते। अस्याः स्मृत्यवसरे चन्द्रगुप्त-प्रबन्धन-संस्थाने आयोज्यमानायां सङ्गोष्ठ्यां लोकतन्त्रस्य, बिहार-आन्दोलनस्य, आपत्कालस्य, राष्ट्रनिर्माणस्य च विविधेषु पक्षेषु विस्तृता चर्चा भविष्यति। अस्मिन् कार्यक्रमे पत्रकारितायाः सामाजिक-आन्दोलनानां च सम्बन्धिनः अनेके वरिष्ठ-व्यक्तयः स्वविचारान् प्रस्तोष्यन्ति।
डॉ. राजेशतिवारी अवदत् यत् प्राचीनं पाटलिपुत्रम् भारतस्य राजनैतिक-सांस्कृतिक-विचारिक-चेतनायाः प्रमुखं केन्द्रम् आसीत्। अस्यां भूमौ चन्द्रगुप्त-मौर्यस्य राष्ट्रनिर्माणम्, सम्राट्-अशोकस्य लोककल्याणकारी-शासनम्, विश्वाय सुशासनस्य आदर्शश्च दृष्टः। एषैव भूमिः स्वातन्त्र्य-आन्दोलनस्य साक्षिणी अभवत् तथा लोकतन्त्रस्य रक्षणाय उत्थितायाः जनशक्तेः केन्द्रमपि अभवत्। वर्षे १९७४ लोकनायक-जयप्रकाश-नारायणस्य नेतृत्वे बिहारतः आरब्धम् आन्दोलनं केवलं राजनैतिक-परिवर्तनस्य अभियानं नासीत्, अपितु राष्ट्रजीवने जागृतस्य ‘स्व’-तत्त्वस्य प्रकटीकरणम् आसीत्। तस्मात् एकवर्षानन्तरं जूनमासस्य २५ दिनाङ्कस्य १९७५ वर्षस्य रात्रौ प्रवर्तितेन आपत्कालेन देशः अनुभूतवान् यत् स्वातन्त्र्यं केवलम् आङ्ग्ल-शासनात् मुक्तिः नास्ति, अपितु विचार-अभिव्यक्ति-असहमतेः रक्षणमपि तस्य अभिन्नः अंशः अस्ति। अद्यतन-वंश: न आङ्ग्ल-शासनं दृष्टवती, न च आपत्कालस्य कालखण्डम् अनुभूतवती। अतः इतिहासस्य एतेभ्यः अध्यायेभ्यः तां परिचाययितुं कालस्य आवश्यकता वर्तते।
Hindusthan Samachar / Divya Ranjan