वृष्टौ योगमयो जातो मध्य प्रदेशः, अंताराष्ट्रिय योग दिवसे लक्षं जनाः अकरोत् सामूहिकं योगाभ्यासम्
किलों, घाटों, स्टेडियमों और शिप्रा की लहरों पर गूंजा स्वास्थ्य का संदेश मंत्रियों-विधायकों से लेकर विद्यार्थियों और आमजन तक की सहभागिता भोपालम्/उज्जैनम्/ग्वालियरं च।, 21 जूनमासः (हि.स.)। अन्ताराष्ट्रिययोगदिवसस्य अवसरस्य उपलक्ष्ये रविवासरे सम्पू
भाेपाल निगम मुख्यालय प्रांगण में आयोजित सामूहिक योगाभ्यास कार्यक्रम


शिप्रा की लहरों पर नन्हें तैराकों का जल योग बना आकर्षण


सेठानी घाट से पचमढ़ी तक योग का उत्साह


सीहोर में मंत्री ने कहा- योग शरीर, मन और आत्मा का संगम


मऊगंज में विधायक ने बताया स्वास्थ्य का मंत्र


किलों, घाटों, स्टेडियमों और शिप्रा की लहरों पर गूंजा स्वास्थ्य का संदेश

मंत्रियों-विधायकों से लेकर विद्यार्थियों और आमजन तक की सहभागिता

भोपालम्/उज्जैनम्/ग्वालियरं च।, 21 जूनमासः (हि.स.)।

अन्ताराष्ट्रिययोगदिवसस्य अवसरस्य उपलक्ष्ये रविवासरे सम्पूर्णः मध्यप्रदेशः योगमयः दृष्टिगोचरः अभवत्। कुत्रचित् ऐतिहासिकदुर्गाणां पृष्ठभूमौ सामूहिकयोगाभ्यासः अभवत्, कुत्रचित् पवित्रनदीनां घाटेषु स्वास्थ्यस्य अध्यात्मनः च सन्देशः प्रतिध्वनितः। प्रदेशस्य विविधेषु जनपदेषु आयोजितेषु कार्यक्रमेषु जनप्रतिनिधयः, प्रशासनिकाधिकारिणः, विद्यार्थिनः, क्रीडकाः तथा सामान्यनागरिकाः बहुसंख्यया सहभागित्वा योगं जीवनशैल्याः अङ्गत्वेन स्वीकर्तुं संकल्पं कृतवन्तः। अनेकस्थलेषु वर्षायाः प्रतिकूलवातावरणस्य च स्थितौ अपि जनानाम् उत्साहः न्यूनः न अभवत्।

राजधानी भोपालनगरे अन्ताराष्ट्रिययोगदिवसस्य आयोजनम् अभवत्। टीटी नगर इत्यत्र आयोजिते कार्यक्रमे मध्यप्रदेशमन्त्रिमण्डलस्य राज्यमन्त्री कृष्णा गौर उपस्थितवती। मन्त्रिण्या सह अनेकानि सामाजिकसङ्गठनानि छात्राः छात्राश्च योगाभ्यासे सहभागी अभवन्। शौर्यस्मारके एनसीसी कैडेटानां सामूहिकयोगकार्यक्रमः आयोजितः। भोपालनगरनिगमस्य मुख्यालयप्राङ्गणे आयोजितः सामूहिकयोगाभ्यासकार्यक्रमः सम्पन्नः। अस्मिन् अवसरे महापौरा मालती राय, निगमाध्यक्षः किशन सूर्यवंशी, निगमायुक्ता संस्कृति जैन, एम आई सी सदस्यः आर के सिंह बघेल, पार्षदाः शक्तिराव, उर्मिला मौर्य, रीता विश्वकर्मा, अधिकारिणः तथा कर्मचारीगणः उपस्थिताः आसन्।

उज्जयिन्यां वर्षायाः मध्ये अपि जनसमूहस्य समागमः

धार्मिकनगऱ्यां उज्जयिन्यां राजाभाऊ महाकाल स्टेडियमस्थिते दशहरामैदाने जिलास्तरीयः मुख्यकार्यक्रमः आयोजितः। शनिवासरस्य वर्षया वातावरणम्आर्द्रं जातम् आसीत्, तथापि सहस्रशः योगसाधकाः रविवासरप्रातःकालात् एव कार्यक्रमस्थलं प्राप्तवन्तः। प्रभारीमन्त्रिणः गौतम टेटवालस्य उपस्थितौ आयोजिते कार्यक्रमे प्रधानमन्त्रिणो नरेन्द्रमोदिनः तथा मुख्यमन्त्रिणः डॉ मोहन यादवस्य सम्बोधनयोः प्रत्यक्षप्रसारणं प्रदर्शितम्। तदनन्तरं निर्धारितयोगोपक्रमानुसारं सामूहिकयोगाभ्यासः कारितः। प्रतिभागिभिः विविधयोगासनानि प्राणायामाश्च कृत्वा स्वस्थजीवनस्य सन्देशः प्रदत्तः।

शिप्रानद्याः तरङ्गेषु बालतारकाणां जलयोगः आकर्षणकेंद्रं जातम्।

उज्जयिन्यां योगदिवसे रामघाटस्थितायां शिप्रानद्यां बालतारकाः अद्वितीयं जलयोगं प्रदर्श्य सर्वेषां ध्यानम् आकर्षितवन्तः। वर्षायाः मध्ये बालकैः जले सन्तुलनं स्थापयित्वा योगासनानि, प्राणायामः, श्वसनाभ्यासः तथा योगपिरामिडस्य प्रदर्शनं कृतम्। माता शिप्रा तैराकदलस्य आयोजनाधीने अस्मिन् विशेषकार्यक्रमे बालकैः नद्याः तरङ्गेषु विविधाकृतयः निर्माय योगस्य तैरणकलायाश्च अद्भुतं समन्वयं प्रदर्शितम्। वर्षायाः मध्ये अपि बालकानाम् आत्मविश्वासः अनुशासनं च जनानां प्रेरणास्रोतः अभवत्।

ग्वालियरदुर्गः योगसाधनायाः केन्द्रं जातः

द्वादशमस्य अन्ताराष्ट्रिययोगदिवसस्य अवसर उपलक्ष्ये ऐतिहासिके ग्वालियरदुर्गे स्थितः राजा मानसिंह महल परिसरः योगसाधनायाः साक्षी अभवत्। जनपदस्य प्रभारी तथा जलसंसाधनमन्त्री तुलसीराम सिलावटस्य मुख्यातिथ्ये आयोजिते कार्यक्रमे बहुसंख्यकाः विद्यार्थिनः, अधिकारिणः, कर्मचारिणः तथा नागरिकाः सहभागी अभवन्। ऐतिहासिकसंपदः प्राकृतिकवातावरणस्य च मध्ये सम्पन्नः सामूहिकयोगाभ्यासः आयोजनाय विशेषगरिमां प्रदत्तवान्। कार्यक्रमस्य समये प्रधानमन्त्री तथा मुख्यमन्त्रिणः सम्बोधनयोः प्रत्यक्षप्रसारणम् अपि प्रदर्शितम्। जनपदस्य सर्वासु नगरपालिकासु ग्रामपञ्चायतेषु च योगकार्यक्रमाः आयोजिताः।

सेठानीघाटात् पचमढीपर्यन्तं योगस्य उत्साहः

नर्मदापुरस्य ऐतिहासिके सेठानीघाटे आयोजिते जिलास्तरीये कार्यक्रमे सांसदाः, जनप्रतिनिधयः, अधिकारिणः तथा विद्यार्थिनः सहितं प्रायः चत्वारिशतजनाः सामूहिकयोगाभ्यासं कृतवन्तः। अपरत्र वातावरणविभागस्य वर्षासम्बद्धसूचनां दृष्ट्वा अस्मिन् वर्षे प्रदेशस्य सर्वोच्चशिखरे धूपगढे न, अपितु पचमढ्याः सूर्यनमस्कार उद्याने योगकार्यक्रमः आयोजितः। प्रतिभागिभिः योगस्य माध्यमेन शारीरिकमानसिकस्वास्थ्ययोः महत्त्वम् अवगतं कृतम्। समाहर्ता सोमेश मिश्रा उक्तवान् यत् योगः न केवलं शरीरं स्वस्थं धारयति, अपितु मानसिकसन्तुलनं सकारात्मकऊर्जां च प्रददाति।

सीहोरनगरे मन्त्रिणा उक्तम् यत् योगः शरीरमनसोरात्मनश्च सङ्गमः अस्ति

सीहोरस्य आवासीयक्रीडासंस्थाने आयोजिते जिलास्तरीये कार्यक्रमे राजस्वमन्त्री करण सिंह वर्मा अधिकारिभिः, विद्यार्थिभिः तथा नागरिकैः सह योगाभ्यासं कृतवान्। सः उक्तवान् यत् योगः केवलं शारीरिकव्यायामः न, अपितु शरीरस्य, मनसः, आत्मनः च संयोजनस्य सशक्तं माध्यमम् अस्ति। आधुनिकजीवनशैल्यां तनावः, अवसादः तथा स्वास्थ्यसम्बद्धाः समस्याः निवारयितुं योगः सर्वाधिकः प्रभावी उपायः अस्ति। कार्यक्रमे विद्यार्थिभिः विविधयोगमुद्राणाम् उत्कृष्टं प्रदर्शनं कृत्वा दर्शकानां प्रशंसा प्राप्ता।

मऊगञ्जे विधायकेन स्वास्थ्यस्य मन्त्रः प्रतिपादितः

मऊगञ्जस्य शासकीयकेदारनाथमहाविद्यालयपरिसरे आयोजिते योगशिविरे पूर्वविधानसभाध्यक्षः देवतालाबविधायकः गिरीश गौतम जनान् योगं दैनिकजीवनस्य अङ्गत्वेन स्वीकर्तुं परामर्शं दत्तवान्। सः उक्तवान् यत् परिवर्तमाना जीवनशैली, असन्तुलितभोजनम् तथा शारीरिकपरिश्रमस्य न्यूनता इत्येतेषां कारणानां परिणामस्वरूपम् अद्य रोगाः वर्धन्ते। यदि व्यक्तिः प्रतिदिनम् एकघण्टामात्रं योगाभ्यासाय, व्यायामाय अथवा पदभ्रमणादिक्रियाभ्यः समर्पयेत्, तर्हि सः बहुभ्यः रोगेभ्यः औषधनिर्भरतायाश्च विमुक्तिं प्राप्नुयात्। सः उक्तवान् यत् योगः केवलं शरीरस्वास्थ्यस्य साधनं न, अपितु विचाराणां मनसश्च नियन्त्रणस्य प्रभावी साधना अपि अस्ति।

योगदिवसे प्रदेशव्यापी उत्साहः दृष्टः

प्रदेशस्य सर्वेषु सम्भागेषु जनपदेषु च शासकीयकार्यालयेषु, शैक्षणिकसंस्थासु, क्रीडापरिसरेषु, पञ्चायतमुख्यालयेषु तथा सार्वजनिकस्थलेषु योगकार्यक्रमाः आयोजिताः। वर्षायाः तथा वातावरणसम्बद्धचुनौत्याः स्थितौ अपि जनानां सहभागिता उल्लेखनीया आसीत्।

---------------

Hindusthan Samachar / Dheeraj Maithani