राजस्थानस्य सीमावर्ती-प्रदेशान् रेलजालेन संयोजयितुं कार्यं तीव्रतया प्रचलति - रेलमन्त्री
बीकानेरम्, जूनमासस्य २१ दिनाङ्कः (हि.स.)। केन्द्रीय-रेलमन्त्री, सूचना-प्रसारणमन्त्री, इलेक्ट्रॉनिक्स-सूचना-प्रौद्योगिकीमन्त्री च अश्विनीवैष्णवः तथा केन्द्रीय-विधि-न्याय-संसदीयकार्य-राज्यमन्त्री अर्जुनराममेघवालः रविवासरे बीकानेर-रेलस्थानकात् बीकानेर
राजस्थान के सीमांत क्षेत्रों को रेल नेटवर्क से जोड़ने की योजना पर रेल मंत्रालय तेजी से कर रहा काम :  रेल मंत्री अश्विनी वैष्णव


बीकानेरम्, जूनमासस्य २१ दिनाङ्कः (हि.स.)। केन्द्रीय-रेलमन्त्री, सूचना-प्रसारणमन्त्री, इलेक्ट्रॉनिक्स-सूचना-प्रौद्योगिकीमन्त्री च अश्विनीवैष्णवः तथा केन्द्रीय-विधि-न्याय-संसदीयकार्य-राज्यमन्त्री अर्जुनराममेघवालः रविवासरे बीकानेर-रेलस्थानकात् बीकानेर–लालगढ–अमदावाद एक्सप्रेस-रेलसेवायाः शुभारम्भं कृत्वा हरितध्वजं प्रदर्श्य रेलयानं प्रस्थापितवन्तौ।

अस्मिन् अवसरे केन्द्रीय-रेलमन्त्री अश्विनीवैष्णवः अवदत् यत् रेलमन्त्रालयेन राजस्थानस्य सीमावर्ती-प्रदेशान् सुदृढेन रेलजालेन संयोजयितुं महत्त्वाकाङ्क्षी योजना कार्यान्वीयते। अस्याः योजनायाः अन्तर्गतं बीकानेर-जैसलमेर-श्रीगङ्गानगर-बाडमेर-जनपदानां बहूनि ग्रामाणि रेलसुविधया संयोजयितुं प्रकल्पः स्वीकृतः अस्ति। सः अवदत् यत् अस्य परियोजनायाः विस्तृत-परियोजना-प्रतिवेदनस्य निर्माणम् अन्याश्च प्रक्रियाः प्रगतौ सन्ति। वैष्णवः उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे देशस्य १३०० रेलस्थानकानां पुनर्विकासकार्यं प्रवर्तते। अनेकेषां स्थानकानां कार्याणि सम्पन्नानि सन्ति। सः अवदत् यत् बीकानेर-रेलस्थानकस्य पुनर्विकासाय जूनमासे पुनः निविदा प्रकाश्यते। जैसलमेरसहितानि विविधानि रेलस्थानकानि आधुनिकसुविधाभिः सुसज्जितानि कृतानि सन्ति, येषां देश-विदेशीय-पर्यटकैः प्रशंसा क्रियते।

रेलमन्त्री अवदत् यत् प्रधानमन्त्रीणः लक्ष्यं वर्षपर्यन्तं २०४७ भारतं विकसितराष्ट्ररूपेण प्रतिष्ठापयितुम् अस्ति। अस्य संकल्पस्य सिद्ध्यर्थं शासनस्य सह प्रत्येकस्य नागरिकस्य, यूनां, कृषकाणां, महिलानां च महत्त्वपूर्णा भूमिका अस्ति। सः क्षेत्रे सम्पन्नानां प्रचलमानानां च रेलमार्ग-द्वैतीकरण-कार्याणां विषये सूचनां दत्त्वा अवदत् यत् लालगढतः बीकानेर-रेलस्थानकपर्यन्तं रेलमार्गस्य अपि द्वैतीकरणं भविष्यति। नालतः पालनापर्यन्तं रेल-बाइपास-निर्माण-योजनाम् उल्लिख्य सः अवदत् यत् तस्य निर्माणेन मालवाहक-रेलयानानां नगरमध्ये सञ्चारः न्यूनीभविष्यति, येन यातायातः सुगमः भविष्यति तथा प्रदूषणमपि न्यूनं भविष्यति।

वैष्णवः अवदत् यत् बीकानेरतः अमदावादपर्यन्तं नूतन-रेलसेवायाः प्रारम्भानन्तरं भविष्ये अन्येषामपि रेलयानानां सञ्चालनस्य सम्भावना अस्ति। सः अवदत् यत् रेलमार्गाणां विद्युतीकरणेन आधारभूत-संरचनायाश्च विस्तारेण अग्रिमेषु कालेषु भारतीय-रेलव्यवस्थायाः स्वरूपं सम्पूर्णतया परिवर्तिष्यते।

सः अवदत् यत् प्रदेशे उद्योगानां प्रोत्साहनार्थं २४ आदर्श-कार्गो-गतिशक्ति-टर्मिनल-इत्यादय: विकसिताः क्रियमाणाः सन्ति, येषु बीकानेर-क्षेत्रस्य समीपे षट् कार्गो-टर्मिनल इत्यादय: अन्तर्भवन्ति। सम्प्रति राजस्थाने प्रायः ७६ सहस्रकोटि-रूप्यकाणां रेलविकास-कार्याणि प्रगतौ सन्ति। एतेषां कार्याणां सम्पन्नतया प्रदेशस्य रेल-मानचित्रे व्यापकः परिवर्तनः दृश्यते। रेलमन्त्री अवदत् यत् अस्मिन् वर्षे राजस्थानाय रेलविकासार्थं १०,२२८ कोटि-रूप्यकाणां वित्तीय-प्रावधानं कृतम् अस्ति। सः बीकानेरं शौर्यस्य परम्परायाश्च भूमिरिति वर्णयन् अत्रत्यां भुजियाम्, रसगोलकानि च स्मृतवान् तथा इन्दिरागान्धी-नहर-परियोजनायाः विकासे योगदानं दत्तवतः पूर्व-राजपरिवारस्य प्रशंसाम् अकरोत्।

केन्द्रीय-विधि-न्याय-संसदीयकार्य-राज्यमन्त्री अर्जुनराममेघवालः अवदत् यत् बीकानेरस्य कृते अयं दिवसः ऐतिहासिकः महत्त्वपूर्णश्च अस्ति। बीकानेरतः अहमदाबादपर्यन्तं आरब्धा एषा रेलसेवा सहस्रशः यात्रिभ्यः लाभप्रदा भविष्यति। सः बीकानेर–दिल्ली वन्देभारत-एक्सप्रेस-रेलसेवायाः सञ्चालनार्थं रेलमन्त्रिणः आभारं प्रकटितवान्। सः अवदत् यत् नगरस्य कोर्ट-गेट-रेल-फाटक-इत्यस्य तथा सांखला-रेल-फाटक-इत्यस्य च दीर्घकालिक-समस्यानां समाधानदिशि तीव्रतया कार्यं प्रचलति।

नव्या बीकानेर–अहमदाबाद एक्सप्रेस-रेलसेवा गुजरात-राजस्थानयोः मध्ये प्रत्यक्षं, शीघ्रं, सुविधाजनकं च रेलसम्पर्कं प्रदास्यति। एषा रेलसेवा पश्चिमभारतस्य द्वयोः प्रमुख-पर्यटन-क्षेत्रयोः परस्परं संयोजनं करिष्यति। गुजरातस्य प्रसिद्ध-साबरमती-रिवरफ्रण्ट, मोढेरा-सूर्यमन्दिरम्, पाटनस्य रानी-की-बाव, अहमदाबादस्य समृद्ध-परम्परा तथा राजस्थानस्य जूनागढ-दुर्गः, करणीमाता-मन्दिरम्, लालगढ-प्रासादः, बीकानेरस्य समृद्ध-संस्कृतिः मरुस्थलीय-पर्यटन-स्थलानि च गन्तुं अधिका सुविधा भविष्यति।

एषा नूतना रेलसेवा गुजरातस्य अहमदाबाद-महेसाणा-पाटन-बनासकांठा-जनपदानां तथा राजस्थानस्य जालौर-बालोतरा-जोधपुर-नागौर-बीकानेर-जनपदानां यात्रिकान् लाभान्वितान् करिष्यति। अस्याः रेलसेवायाः प्रमुख-विराम-स्थानानि सन्ति—साबरमती, महेसाणा, पाटन, भीलडी, धानेरा, रानीवाडा, मारवाड-भीनमाल, मोदरान, जालौर, मोकलसर, समदडी, लूणी, जोधपुर, गोटन, मेडता-रोड, नागौर, नोखा, बीकानेर तथा लालगढ इतृयादय:। प्रायः ७४० किलोमीटर-दीर्घं मार्गं गच्छन्ती एषा रेलसेवा बीकानेर-अहमदाबादयोः मध्ये दैनिक-रेलसम्पर्कं स्थापयति। एतेन विद्यार्थिनः, सेवायुक्ताः, वणिजः, पर्यटकाः, सामान्ययात्रिकाश्च विशेषलाभं प्राप्स्यन्ति। तदनन्तरं उभयोः राज्ययोः मध्ये व्यापारः, पर्यटनम्, सांस्कृतिक-आदान-प्रदानम्, क्षेत्रीय-विकासश्च नूतनां गतिं प्राप्स्यति।

अस्मिन् अवसरे खाद्य-नागरिकापूर्ति-मन्त्री सुमितगोदारः, बीकानेर-पूर्व-विधायिका सिद्धिकुमारी, खाजूवाला-विधायकः डॉ.विश्वनाथमेघवालः, बीकानेर-पश्चिम-विधायकः जेठानन्दव्यासः, श्रीडूंगरगढ-विधायकः ताराचन्दसारस्वतः, उत्तर-पश्चिम-रेलवे-महाप्रबन्धकः अमिताभः, मण्डल-रेल-प्रबन्धकः गौरवगोविलः, श्यामपञ्चारिया, सुमन-छाजेडः, चम्पालालगदरः सहिताः जनप्रतिनिधयः, रेल-अधिकारिणः, बहु-संख्यकाः नागरिकाश्च उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan