उत्तरकोरियायाः परमाणु-समस्यायाः समाधानं भिन्नरीत्या भवितव्यम् - दक्षिणकोरियायाः राष्ट्रपतिः
सियोलनगरम्, २१ जूनमासः (हि.स.)। दक्षिणकोरियायाः राष्ट्रपतिः ली-जे-म्युंगः अवदत् यत् जी-७-शिखर-सम्मेलनस्य अवसरे सः अमेरिकीराष्ट्रपतिं डोनाल्ड-ट्रम्पम् स्पष्टतया अवदत् यत् उत्तरकोरियायाः परमाणु-समस्यायाः समाधानम् अन्यानाम् अन्ताराष्ट्रिय-संकटानामिव क
दक्षिण कोरिया के राष्ट्रपति ली जे-म्युंग   (फाइल फाेटाे)


सियोलनगरम्, २१ जूनमासः (हि.स.)। दक्षिणकोरियायाः राष्ट्रपतिः ली-जे-म्युंगः अवदत् यत् जी-७-शिखर-सम्मेलनस्य अवसरे सः अमेरिकीराष्ट्रपतिं डोनाल्ड-ट्रम्पम् स्पष्टतया अवदत् यत् उत्तरकोरियायाः परमाणु-समस्यायाः समाधानम् अन्यानाम् अन्ताराष्ट्रिय-संकटानामिव कर्तुं न शक्यते। फ्रान्सदेशस्य एवियन-ले-बैंस-नगरे आयोजिते शिखर-सम्मेलने उभयोः नेत्रयोः संवादे उत्तरकोरियायाः परमाणु-कार्यक्रमः प्रमुखः विषयः आसीत्।

दक्षिणकोरियायाः समाचारसंस्था 'योनहाप्' इत्यस्याः अनुसारं यूरोपस्य दश-दिवसीय-यात्रायाः अनन्तरम् आयोजितायां पत्रकार-सम्मेलन-वार्तायां ली अवदत् यत् ट्रम्पः खेदं प्रकटितवान् यत् उत्तरकोरियया परमाण्वस्त्र-विकासात् पूर्वमेव अस्याः समस्यायाः समाधानं न जातम्। तस्य प्रत्युत्तरे ली अवदत् यत् कोरियायी-उपद्वीपस्य परिस्थितिः मध्यपूर्व-प्रदेशादिभ्यः भिन्ना अस्ति, अतः अस्याः विशेष-रणनीतिः अपेक्षिता।

ली ट्रम्पस्य पुरतः क्रमिक-समाधानस्य प्रस्तावम् अस्थापयत्। तस्याः अन्तर्गतं प्रथमं उत्तरकोरियायां परमाणु-सामग्रीणां उत्पादनं निरोद्धव्यम्, ततः विद्यमानाः परमाणु-सामग्र्य: देशात् बहिः प्रेषणीयाः। सः अवदत् यत् दीर्घकालिक-लक्ष्यं सम्पूर्ण-परमाण्वस्त्र-निरस्त्रीकरणम् एव भवेत्, किन्तु तस्मात् पूर्वं व्यावहारिकेषु अल्पकालिक-उपायेषु ध्यानं दातव्यम्।

राष्ट्रपतिनः अनुसारं ट्रम्पः एतत् प्रस्तावं सम्भाव्य-विकल्पत्वेन स्वीकृत्य अवदत् यत् सः अस्मिन् विषये विचारं करिष्यति। ली इदमपि अवदत् यत् अमेरिकीराष्ट्रपतिः उत्तरकोरिया-समस्यायाः स्थायी-समाधानस्य अभावेन चिन्तितः आसीत्।

दक्षिणकोरियायाः राष्ट्रपतिः पुनरुक्तवान् यत् तस्य सर्वकारः उत्तरकोरियया सह विच्छिन्न-संवादस्य पुनरारम्भाय प्रयत्नान् निरन्तरं करिष्यति, यद्यपि उभयदेशयोः मध्ये चिन्तापूर्णा स्थितिः दीर्घकालं यावत् स्थातुम् अर्हति। सः अवदत् यत् उत्तरकोरिया स्वसुरक्षायै अमेरिकां महत्त्वपूर्णं मन्यते, अतः सियोल् अमेरिका-प्योंगयाङ्गयोः मध्ये वार्तालापस्य प्रवर्तनाय सहयोगं करिष्यति।

यात्राकाले ली वेटिकन-नगरे चतुर्दशं पोपलियो-इत्यनेन सह अपि अमिलत्। सः पोपं अग्रिमवर्षे दक्षिणकोरियायां आयोज्यमाने 'वर्ल्ड् यूथ् डे' कार्यक्रमे सहभागित्वाय निमन्त्रितवान् तथा उत्तरकोरिययोः मध्ये स्थितस्य विसैन्यीकृत-क्षेत्रस्य भ्रमणाय अपि अनुरोधं कृतवान्।

ली इत्यस्य अनुसारं पोप् एतस्मिन् प्रस्तावे गम्भीरतया विचारं करिष्यामीति आश्वासनम् अददात्। राष्ट्रपतिः अवदत् यत् पोपः दक्षिणकोरियायां सम्पूर्ण-कोरियायी-उपद्वीपे च शान्ति-स्थापन-प्रयत्नेषु विशेषरुचिं धारयति।

दक्षिणकोरियायाः राष्ट्रपतिः अपि अवदत् यत् वार्तालापस्य समये पोपः विनोदपूर्णया शैल्या उक्तवान् यत् सः सैमसङ्ग-निर्माण्या: घटीं चलदूरवाणीं च, हुण्डै--निर्माण्या: वाहनं च उपयुङ्क्ते।

Hindusthan Samachar / Divya Ranjan