Enter your Email Address to subscribe to our newsletters


मैनचेस्टरनगरम्, २१ जूनमासः (हि.स.)। भारतीयमहिलाक्रिकेटदलस्य नायिका हरमनप्रीतकौर: दक्षिणाफ्रिकादेशस्य विरुद्धं महिला-टी-२०-विश्वकप्-२०२६-प्रतियोगितायाः स्पर्धायां क्षेत्रे अवतीर्य एव इतिहासम् अरचयत्। सा टी-२०-अन्ताराष्ट्रियक्रिकेटक्रीडायां २०० स्पर्धासु क्रीडिता विश्वस्य प्रथमा क्रीडक्रीडिका अभवत्। विशेषतया अद्यावधि कश्चन अपि पुरुषः अथवा महिला क्रिकेटक्रीडिका एतादृशीं उपलब्धिं न प्राप्तवान्।
रविवासरे मैनचेस्टर-नगरस्य एमिरेट्स ओल्ड् ट्रैफर्ड क्रीडाङ्गणे प्रचलितायां स्पर्धायां यदा हरमनप्रीतकौर: टॉस-प्रक्रियायै क्रीडाङ्गणम् आगच्छत्, तदैव तस्याः नाम्नि एषः ऐतिहासिकः अभिलेखः अङ्कितः। अस्मिन् विशेषावसरे तस्यै विशेष-जर्सी इति तथा विशेष-शिरस्कं उपहाररूपेण समर्पिते।
भारतीयक्रिकेटनियन्त्रणमण्डलेन सामाजिकमाध्यमे एक्स् इत्यत्र लिखितम्— “सम्मानं, स्नेहः, असंख्याः मधुरस्मृतयः च।” उपनायिका स्मृतिमन्धाना तथा मुख्यप्रशिक्षकः अमोलमजूमदारः हरमनप्रीतकौर-इत्यस्यै सम्पूर्णदलस्य हस्ताक्षरयुक्तां विशेषां ‘२००’ सङ्ख्याङ्कितां जर्सींशिरस्कञ्च समर्पितवन्तौ।
टी-२०-अन्ताराष्ट्रियक्रिकेटक्रीडायां सर्वाधिकस्पर्धासु क्रीडिकाणां सूच्यां हरमनप्रीतकौर-इत्यस्या: अनन्तरं न्यूजीलैण्डदेशस्य विख्याता बल्लेबाज-इति सूजीबेट्स इत्यस्याः नाम आगच्छति। तया १८४ स्पर्धाः क्रीडिताः। पुरुषक्रिकेटक्रीडायां तु भारतस्य पक्षतः सर्वाधिक-टी-२०-अन्ताराष्ट्रियस्पर्धासु क्रीडनस्य अभिलेखः पूर्वनायकस्य रोहितशर्मणः नाम्नि वर्तते। तेन १५९ स्पर्धासु भारतस्य प्रतिनिधित्वं कृतम्।
हरमनप्रीतकौर-इत्यस्या: टी-२०-अन्ताराष्ट्रियक्रीडाजीवनम् अत्यन्तं प्रशंसनीयम् अस्ति। अस्याः स्पर्धायाः पूर्वं क्रीडितेषु १९९ स्पर्धासु तया ४,१२३ धावनाङ्काः अर्जिताः। तेषु एकं शतकम्, सप्तदश अर्धशतकानि च अन्तर्भवन्ति। अधुना द्विशततमे (२००) स्पर्धायां सहभागितया सा स्वस्य उज्ज्वल-क्रीडाजीवने अपरमपि ऐतिहासिक-मध्यायम् अलिखत्।
Hindusthan Samachar / Divya Ranjan